नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 129, कुल 258 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः । १०९ तदायूष्मन्नतिगम्भीरगुहा गिरीन्द्रभूरिव हृदयहराश्रेयोऽर्थिनां शरणं न॑ स्त्री श्रीर्वा ॥ क ॥ शृङ्गारप्रधानास्तात, गाव इव² विचारिताः सरसा भवन्ति न³ स्त्रियः ॥ ख ॥ ल्यशिवधे मन्दरागे क्षणप्रेमण्यनुरज्यते । परपुरुष इत्यत्र सर्वनामत्वाद्दृत्तौ पूर्वप- दस्य पुंवत्त्वम् । पक्षे अनवरतं शश्वच्छिक्षितो वैदग्ध्यकलापो दक्षतातिशयो यया सा चासौ राधात्मिका । राधा च कृष्णपत्नी । सापि श्रिया एव भेदः । त्रपापरा सलज्जा सती । गुणिनो गुरूञ्छूरादीन्यदूनामादिपुरुषान् परिहृत्य परपुरुषे मुरारौ रागं प्रीतिं बध्नाति । किम्भूते माया त्रिलोकीनिर्माणलक्षणा वामननृसिंहमहिलात्वा- दिलक्षणा वा विद्यते यस्य । तथा कृतः केशिनोऽस्वरूपस्य दैत्यस्य वधो येन । तथा धृतो मन्दरनामाऽगोऽद्रिर्येन ॥ क ॥ एवमुक्तकपाटानामनाईहृदयत्वादिदोषान्वितानां स्त्रीणां विश्वासं विश्रम्भं स्त्रीणां च विश्वासं यत्र तत्र निक्षेपं सर्वथा परिहरन्सर्वोऽप्यायुष्मानित्यायुष्मन्निति संबोधने- नाभिहितम् । तदित्युपसंहारे । श्रेयोऽर्थिनां पुण्यार्थिनां स्त्री न रक्षित्री । कीदृशी । हृदयं चेतो हरति मोहकारिणी । एतेन क्षयहेतुत्वमुक्तम् । तथा अतिगमतिशयेन बिभेतीति भीर्भीरुः स्त्रीस्वभावत्वात् । अथवा भीर्भयहेतुत्वात् । दुष्टाशयत्वात् । तथा न गौर्वाग्यस्य सोऽगुस्तं जहाति अगुहा । य एव मायामयं वक्तुं वेत्ति क्षण- मपि तमेव श्रयतीत्यर्थः । अथवा गौर्धेन्वर्थः । तच्चोपलक्षणम् । तेन निर्धनं वि- हाय धनिनमेवाश्रयतीति । यदिवा नतौ नम्रतायां गम्भीरा गौर्वाग्यस्य तमपि जहा- तीत्यर्थः । नच भवादृशाश्वाद्गनि कुत्रापि वक्तुं प्रभविष्णवः । सर्वोन्नतत्वात् । यदिवा अतिगमतिशयम् भियं राति ददातीति भीरा गौर्यस्य तमतिगम्भीरगुं जहाति । हिमाचलभूरपि अतिगम्भीरा गुहाः पाषाणसन्धयो यस्याम् । श्रीश्चाश्रेयोऽर्थिनां न शरणम् । किंतु श्रेयोऽर्थिनाम् । कीदृशी हृत्स्वान्तं तथाऽयं शुभकर्म हरति । तत्प्राप्त्या शुभकर्मणो भुक्तत्वात् । यदुक्तं नैषधे— 'पूर्वजन्मविभवव्ययसृष्टाः संपदोऽथ विपदश्च विमृष्टाः' इति । गौरी अपि हृदये हरो यस्याः । तथा नतिग- म्भीरः प्रणामप्रगल्भो गुहः कार्त्तिकेयो यस्याः । तत्पुत्रत्वात् ॥ क ॥ अधुना दुःस्त्रियः सर्वथा परिहार्य साध्या अपत्यन्तविश्वासप्रतिषेधद्वारेण 'सेवेत विषयान्काले मुक्त्वा तत्परतां वशी । सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः' इति पूर्वकविकथितमनुगामुकोऽप्यासक्तिमनासक्तिं च निषेधयन्नाह— शृङ्गारेति ॥ रूक्षशिक्षावचोभिरास्माकीनैरसौ विमनस्को भविष्यतीति चित्ते धारयन् कृत्यं चोपदिशन तातेति कोमलमामन्त्रयति । शृङ्गारो रसः प्रधानं यासु । तथा विचारिता विवेचिता गावो गिर एव सरसाः प्रीतिहेतवो भवन्ति । अथवा १ 'न पुनः स्त्री श्रीश्च'; 'न लक्ष्मीः स्त्री च'. २ 'एव'. ३ 'श्रियः स्त्रियश्च'.