नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 132, कुल 258 में से
संदर्भ में पढ़ें११२ नलचम्पूः । अपि च । 'किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा' ॥ १९ ॥ एवमुक्त्वा विश्रान्तवाचि वाचस्पतिसमे मन्त्रिणि राजापि प्रेमार्द्र- या दृशा नलमवलोक्य वक्तुमारभत ॥ क ॥ 'तात, युक्तमुक्तोऽसि सालङ्कायनेन । कस्यान्न्यस्य निर्यान्ति वदनारविन्दादेवंविधाः पदे पदेऽर्थसमर्था मृद्व्यो मृष्टाः श्लिष्टाश्च वाचः ॥ ख ॥ तद्दर्शितस्तवानेन निर्वापितदेहः स्नेहः । स्वीकृतस्त्वं मनसा सम- स्तसाम्राज्यभारोद्वहनधुर्यतां प्रति । तेनायमनुशास्ति ॥ ग ॥ युज्यते चैतत् ॥ तथाहि । संग्रहं नाकुलीनस्य सर्पस्येव करोति यः । स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा ॥ २० ॥ किं च । न पश्यसि सांप्रतमिदमस्माकमतिभीरुभूपालमण्डलमिव वलिभि- राक्रान्तम् अशेषमङ्गम् अतिजीर्णशीर्णकर्पटमिवावरीतुं न शक्यते । तच्चरित्रापह्नवकारि पौरुषं यो राजा धत्ते । अथवा नम्रे रिपौ शत्रावपि रुषं कोपं नच नैव करोति । धर्मविजयत्वात् । तेन राज्ञा अगराजिता अष्टसंख्यकुलाचलाल- कृता । तथा सहसागरा ससमुद्रा सहसा बलेन किं मही न जिता भवेत् । जितै- वेति भावः ॥ १८ ॥ किं नेति ॥ मातुर्जनन्यास्तारुण्यमुषा तेन जातेन किम् । किमपि नेत्यर्थः । यो जातु कदाचिदपि स्वस्यान्वयस्याग्रं नारोहति । अग्रेगण्यतां न यातीत्यर्थः । ध्वजपक्षे वंशो वेणुः ॥ १९ ॥ संग्रहमिति ॥ न निषेधे । अकुलीनस्यानभिजातस्य । सर्पस्य तु नाकुर्वल्मीक- स्तत्र लीनस्य । कर्मणामारम्भोपायः पुरुषद्रव्यसंपत् । देशकालविभागो विनिपात- प्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः गारुडाद्विषयश्चेति योगान्मन्त्रिणावमा- त्याहितुण्डिकौ ॥ २० ॥ नेति ॥ वलयस्त्वक्शैथिल्यानि । बलिनो बलवन्तश्च । आवरणं संव्यानम् । अ- ङ्गपक्षे संवरणम् । निःसौष्ठवादशक्यम् । उपरिपतितं शैथिल्यात्स्रस्तं भ्रूचक्रं यस्याम् । १ 'अग्रम्'. २ 'प्रेमद्रवार्द्रया'. ३ 'स्वीकृतश्वासि'. ४ 'तेनायमेवमनुशास्ति'; 'तेने- यमेवमनुशास्ति'. ५ 'सांप्रतमस्माकम्'. ६ 'अतिशीर्णकुथकर्पटम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA