नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 15, कुल 258 में से
संदर्भ में पढ़ेंश्रीः । नलचम्पूः । (दमयन्तीकथा ।) विषमपदप्रकाशटीकया समेता । प्रथम उच्छ्वासः । जयति गिरिसुतायाः कामसंतापवाहि- न्युरसि रसनिषेकश्चान्दनश्चन्द्रमौलिः । तदनु च विजयन्ते कीर्तिभाजां कवीना- मसकृदमृतबिन्दुस्यन्दिनो वाग्विलासाः ॥ १ ॥ सृष्टिप्रबन्धे चतुराननस्य भावानशेषान्विलसद्विशेषान् । विवृण्वती स्वेन वचश्चयेन स्ताद्भारती बोधविवृद्धये वः ॥ शक्तिस्त्रिविक्रमस्येव जीयाल्लोकातिलङ्घिनी । दमयन्तीप्रबन्धेन सदा बलिमतोदिता ॥ त्रैविक्रमाणि विषमाणि पदानि यानि तेषां प्रकाशमभिनन्दति चण्डपालः । यं स्थायिभावघटनात्पटुदृष्टिभाजः संप्राप्य बिभ्रतितरां रसनिर्भरत्वम् ॥ भङ्गश्लेषनिबन्धाः स्युर्गिरः संदेहमन्दिरम् । सम्यक्तदर्थनिश्चित्यै निबन्धोऽयं विधीयते ॥ प्रथममुपमेयमस्मिन्नुपमानमतो विचार्यते सम्यक् । अविरोधविरोधावपि गम्यावेवं क्रमेणैव ॥ क्वचन विशेषेण मया यथोचितसमासकारकप्रभृति । सुगमत्वान्न यदुक्तं तन्मतिमद्भिः स्वयं ज्ञेयम् ॥ सूक्ष्मार्थाः प्रस्फुरिष्यन्ते कुशाग्राम्यधियां स्वतः । तद्व्याख्योपेक्षिता प्रायः संक्षेपाय ततो मया ॥ सकलमङ्गलकारणं दुरितनिवारणमभिधेयोपयोगि चावश्यमेव शास्त्रादौ कविनां किमपि प्रणेयं तदेतन्मनसि कृत्वाभीष्टदेवताप्रणतिपूर्वकमेव समारब्धव्यमिति पूर्वाचार्यप्रणीतसमाचारमर्यादानुल्लङ्घनः सूक्तजलनिधिरपि जडैरलब्धमध्यो विचि- १ 'या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् । हृदि नः संनिधत्तां सा सूक्तिधेनुः सरस्वती ॥' इति श्लोकः क्वचित्पुस्तके दृश्यते.