नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 164, कुल 258 में से
संदर्भ में पढ़ें१४४ नलचम्पूः । १तरुशिरःस्थितशब्दानुमेयमाद्यन्मयूरमण्डलेषु मदनालसपुलिन्दराजसु- न्दरीशिक्ष्यमाणवनकपोतकुक्कुटकुक्कुहकुलकुहरितेषु कूजत्कुररपरिवा- रितसरःपरिसरेषु २चेलच्चकोरसारसरवरमणीयेषु विहरतु देवः सह सैन्येन नर्मदोर्मिमन्दानिलान्दोलितलतापल्लवेषु वनेषु ॥ क ॥ राजापि श्रुतशीलेन दर्शितांस्तांस्तान्३देशानवलोक्य चिन्तितवान् ॥ ख ॥ 'कृतक्रीडाः क्रोडैर्मदकलकुरङ्गी४हृतमृगाः परिभ्राम्यद्भृङ्गाः परभृतकुलाक्रान्ततरवः । वनोद्देशाः पौष्पैः सुरभितदिगन्ताः परिमलै- र्न चेतः कस्यैते विलसितविकारं विदधति ॥ ४८ ॥ इतश्च । वीचीनां निचयाः स्पृशन्ति जलदानुद्गन्धिसौगन्धिका नृत्यत्केकिकदम्बकानि विकसद्भीरुन्धि रोधांसि च । धत्ते सैकत५मुन्नदन्मदकल६क्रौञ्चावलीसारसा- नस्याः पद्मपरागपिञ्जरपयसः सेव्यं ७चँ सिन्धोर्न ८किम्॥४९॥ तदुचितमिहाद्य ९दिवसमावासं कर्तुम्' इति विचिन्त्य भ्रूकोणसं- ज्ञाज्ञापितसेनासंनिवेशस्तत्कालमेव 'विरचयत तुरङ्गममन्दुुराः सरस- दीर्घदूर्वा१०नलनीलनिम्नस्थलीषु, कुरुत कायमानानि सरित्सेव्यसैकतेषु, उन्नमयत पटकुटीः कूलकाननेषु, आलानयत ११मदमत्तमत्तङ्गजान्१२मर्दैके- ण्डूकपोलकाषसहेषु सरलसालसल्लकीसर्जार्जुनस्कन्धेषु, दूरमुत्सारयत शैवलशिलाजालकाष्ठकूटकण्टकपटलानि, समीकुरुत विषमभूभागान्' इति सेनापतिप्रमुखमुखरलोककलकल१३मुत्तालमुत्थितमसहमानस्तद्वि- भ्रान्त्या कुसुमिताशोककाननानि परिहृतानीति भावः ॥ क ॥ वीचीनामिति ॥ उद्गन्धिसौगन्धिका वीचिनिचया जलदान्स्पृशन्ति । रोधां- सि च स्पृशन्ति । तदेवं यस्याः सिन्धोः, किं वा न सेव्यम् । चकारो वार्थे ॥४९॥ तदुचितमिति ॥ मन्दुुरा वाजिहाला । कायो माल्यत्रेति कायमानं लोकप्र- सिद्ध्या रोहिषादितृणमयावासविशेषः । मदमत्तमत्तङ्गजानिति । मदेन वीर्यविपाकेन १ 'तरुशिखरशिरः'. २ 'चरत'. ३ 'प्रदेशान्'; 'उद्देशान्'. ४ 'वृत'. ५ 'मुन्नमन्'. ६ 'क्रौञ्चावलीः सालसास्तस्याः'. ७ 'न'. ८ 'किमु'. ९ 'समावासं'. १० 'नाल'. ११ 'समदमत्तङ्गा'. १२ 'मलकण्डूलकपोल'. १३ 'मुत्तुङ्गमत्थित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA