नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 165, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १४५ रामावसरं प्रतिपालयन्नेकान्तेऽन्यतमप्रदेशे तस्याः सरितः सूक्ष्ममुक्ता- फलक्षोदधवलवालुकापुलिनपृष्ठ एवास्थानगोष्ठीं बबन्ध ॥ क ॥ अथ नातिदूरे पुरोऽस्य शीतशैवलचक्रवाले चरतश्चक्रवाककदम्ब- कस्य मध्ये कोऽप्युत्क्षिप्य पक्षपुटम्, उन्नमय्य ग्रीवाग्रम्, अनङ्गपर- वशो दूरादुपसर्पन्ननुरागिणीं कांचिच्चक्रवाकीं, दर्शितचाटुचातुर्यश्चक्र- वाकयुवा दृष्टिपथमवातरत् ॥ ख ॥ अपरे च चत्वारो राजहंसास्तामेव चक्रवाकीं कामयमानास्तमाप- तन्तमन्तरान्तरा निपत्य स्खलयांबभूवुः ॥ ग ॥ तांश्चावलोक्य राजा विहसन्नासन्नवर्तिनं श्रुतशीलमावभाषे ॥ घ ॥ 'वयस्य, विलोक्यतामिदमसमञ्जसम् ॥ ङ ॥ अमी राजहंसाः सतीष्वपि स्वजात्युचितानुचरीषु कथमण्यासक्ता- मपीमां चक्रवाककामिनीं कामयन्ते ॥ च ॥ न खल्वेषामियमनङ्गभूमिः ॥ छ ॥ अथवा किमु कुवलयनेत्राः सन्ति नो नाकनार्य- स्त्रिदिवपतिरहल्यां तापसीं यत्सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना- वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ ५० ॥ एवंवादिनि राजनि, अकस्मात्कोमलकण्ठकुहरप्रेङ्खोलनालंकारसु- न्दरोऽमन्दमूर्छनावच्छिन्नसरसस्वरस्वरूपः प्रसन्नप्रयुज्यमानतानविशे- षोभिव्यक्तिस्पष्टश्रुतिसुभगो गगने गान्धारग्रामगामी गीतध्वनिरुदच- रत् ॥ ज ॥ मत्ता नलोषधादिप्रयोगात् । जालानि मर्कडिकाख्यकृमिकृतगृहाणि । कूटं वप्रम् ॥ क ॥ न खल्विति ॥ यथा चक्रवाकी चक्रवाकस्य सजातीया, एवं मनुष्यजातेर्न- लस्य मानुषी दमयन्त्युचिता । यथा हंसानां सानुचिता, एवं लोकपालानामति दमयन्तीति ॥ छ ॥ किमु इति ॥ ह्रस्वा कुटी कुटीरः । 'ह्रस्वे' इत्यधिकारे 'कुटीशमी-' इति सूत्रेण रप्रत्ययः ॥ ५० ॥ १ 'अन्तरा'. २ 'तां च'. ३ 'एतेषाम्'. ४ 'अनङ्गक्रीडाभूमिः'. ५ 'त्रिदश'. ६ 'अभिव्यक्त'. १९