नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 175, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १५५ एताश्च मन्दायते दिनमिदं मदनोऽपि सज्ज- स्तत्किं न गच्छत गृहानिति पद्मिनीभिः । मीलत्सरोजगतभृङ्गरुतैरिवोक्ताः स्नात्वा शनैरनुसरन्ति तटं तरुण्यः' ॥ ६४ ॥ एवमनेकविधविलासासक्तशबरसुन्दरीदर्शनाह्लादपुलकिते विवि- धवितर्ककारिणि पङ्कनिमग्नरजत्करेणुकायमाननिःस्पन्ददृशि तत्काल- मुत्पन्नया मनाङ्जन्मथव्यथया धीरतया च स्पृहया च विचिकित्स- या च जिघृक्षया च जिहासया च समकालमाकुलितहृदये संकीर्ण- भावभाजि राजनि, राजीववनविराजिते तस्मिन्नर्मदाह्रदे सलिलक्रीडा- सुखमतिचिरमनुभूय तीरभुवि सेव्यसितसैकतस्थलीमलं कुर्वाणासु च तासु शवरराजसुन्दरीषु श्रुतशीलश्चिन्तितवान् ॥ क ॥ 'उन्मादि यौवनमिदं शवराङ्गनानां देवोऽप्ययं नववयाः कमनीयकान्तिः । रेवातटं चलचकोरमयूरहारि किं स्यान्न वेद्मि जयिनी च मनोभवाज्ञा ॥ ६५ ॥ तथाहि । विकलयति कलाकुशलं, हसति शुचिं, पण्डितं विडम्बयति । अधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ ६६ ॥ अपि च । मध्ये त्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् । छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ६७ ॥ तद्वस्तु प्रस्तुतसानुनयेनैव प्रभूणां मतयो निवर्त्यन्ते निषिद्धनिषे- वणात्, न प्रतिकूलतया' इत्यवधारयन्नवनिपेन्तिमवादीत् ॥ ख ॥ शेषं विलोक्य यदुत्पन्नं महाभयं तस्मात्त्वरितैरुत्तालैः पादक्रमैरसौ शबरसुन्दरी सरित उत्तीर्णा ॥ ६३ ॥ विकलयतीति ॥ अधरयति विधुरयतीत्यर्थः ॥ ६६ ॥ तदस्त्विति ॥ निषिद्धस्य निषेवणं सेवनमाग्रहस्तस्मात्सकाशात् प्रभूणां मतयः प्रकृतरसानुमत्तैव व्यावयंन्ते, न प्रतिकूलतया हठात् निषिद्धस्यानभि- जातसंगमादेराग्रहं कुर्वाणः प्रभुः सहायसंपदानुजीविना निवार्यः । परं तदभि- १ 'मत्तिभुवि', २ 'मध्यत्रिव', ३ 'अवन्तिपाल'.