नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 184, कुल 258 में से
संदर्भ में पढ़ें१६४ नलचम्पूः । ण्डाडम्बरितमेघनादां च, गीतविद्यामिव ततावनद्धघनसुषिरवंशस्वनम- नोहरामनेकतालबेदां निषादऋषभमध्यमग्रामयुक्तां च, चित्रविद्यामि- वानेककण्टकपत्रलतास्थानकविषमामृज्वागततापसां च, कलियुगशिव- शासनस्थितिमिव महाव्रतिकान्तःपातिभिः कालमुखैर्वानरैः संकुलामने- तथा चारुपुष्पमर्थात् मनोहरसरोजं कं जलं यस्याम् । अतएवानवसरेऽपि आड- म्बरितो विस्तृतो मेघनादस्तण्डुलीयको यस्याम् । लङ्का तु द्वौ गुणौ येषां पञ्चानां ते द्विगुणा दशेत्यर्थः । तत्संख्यान्यानानानि यस्य स दशमुखो, विभीषणश्च तन्द्वाता संचरन्यस्याम् । पुष्पकं विमानम् । मेघनादो रावणात्मजः । गीतविद्यामिवेति । तता विस्तीर्णा अवनद्धाः सुश्लिष्टा घनसुषिरा बहुविवरा वंशा वैणवस्तेषां स्वनेन रम्याम् । तालस्तरुरविशेषाः । निषादाः शवराः । मध्ये भवो मध्यमः । ग्रामः खेटकम् । पक्षे ततेन तन्त्रीगतेन अवनद्धेन पौष्करेण च घनेन कांस्यकृतेन सुषिरसंज्ञकवंशस्वनेन च मनोज्ञाम् । यद्यपि 'ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्क- रम् । घनं कांस्यकृतं प्रोक्तं सुषिरं वांश्यमेव च' इति भरतः । तथाप्यत्रानेकविष- यत्वाद्दंशस्वनोपादानमसंदेहार्थमुचितमेव । अनेकतालभेदाश्चञ्चत्पुटादयो यस्याम् । तथा निषादेन स्वरेण मध्यमसंज्ञकग्रामेण युक्ताम् । चित्रविद्यामिवेति । कण्टकैः सूत्रैः पत्रैः पर्णैः, लताभिर्वल्लीभिः, शाखाभिर्वा स्थानकैश्चालवालैर्विषमाम् । तथा ऋज- वोऽकुटिला आगताः स्वापार्थे प्राप्तास्तापसा मुनयो यस्याम् । चित्रविद्यापक्षे क- लिका-कण्टक-शाखा-त्रिभङ्गि-संज्ञाभिश्चत्वारः पत्रावयवाः । एतैर्मिलित्वा शिशु- सकल-स्वस्तिक-वर्धमान-सर्वतोभद्राख्याणि पञ्च पत्राणि निष्पद्यन्ते । तदत्र शाखापर्यायो लताशब्दः । तथा स्थानकानि पार्श्वगत-ऋजु-ऋज्वागत-द्व्यर्धाक्ष- अर्धऋजु-गमनालीढ-त्वरित-त्रिभङ्गि-संज्ञानि । तैर्विषमाम् । स्थानकशब्देनैव ऋज्वागतं गतार्थमपि व्यापकत्वात्पृथगुक्तम् । प्रायो हि चित्रे ऋज्वागतमेव लि- ख्यते । तपसि भवानि तापसानि । मयूरासनोट्रासनादीनि करणानि तापसाह्या- नि । तत ऋज्वागते तापसानि यस्याम् । यद्वा ऋज्वागतेन तापं स्यतीति केचित् । ऋज्वागतेन दुःखहारिणीमित्यर्थः । कलियुगेति । अप्सु रतिरन्नतिः । महती अत्रतिर्येषां ते महाव्रतिका वृक्षास्तेषामन्तर्मध्ये पतन्त्यभीक्ष्णं तैः कृष्णमुखैर्मर्कटै- श्छन्नाम् । तथा स्फुटितप्रस्रवणाम् । पक्षे महाव्रतिकाः कापालिकाः । तदन्तःपाति- भिस्तदन्तर्भूतैः कालमुखैर्वा शैवदर्शनविशिष्टैर्नरैराचिताम् । बहुधा भिन्नप्रवाहाम् । स्रोतोऽत्र लक्षणया प्रवाहः । आम्नाय इति यावत् । कृतयुगे ह्येकमेव शिवशास- नमभूत्, कलौ तु वह्वाम्नायमिति भावः । श्लेषचित्रादिषु ववयोरैक्यम् । तथाहि 'मालामुत्पलकन्दलैः प्रविकचैरायोजितां बिभ्रती वक्रेणाससदृष्टिपातसुभगेनोद्दीपय- न्ती स्मरम् । काञ्चीदाम नितम्बसङ्गि दधती व्यालम्बिना वाससा मूर्तिः कामरिपोः सितांशुमधरा पायादुमाया जगत्' । अस्यार्थः-'कामरिपोः शिवस्य मूर्तिः पाया- १ 'ऋषमेति नास्ति' । २ 'मिच्छ्वागत'