नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 183, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः। १६३ एवमभिवन्द्य देवं देवम्, समारुह्य विजयिवारणेन्द्रस्कन्धम्, अग्रतः प्रधावितानेककरितुरग परिजनः, पुरैः परोधसा निर्वर्तिते महानदीयागे युगसहस्रपरिवर्तवृत्तान्तसाक्षिणीम्, अनवरततपस्यद्ब्रह्मर्षिप्रतिष्ठितशि- वलिङ्गरुद्धरोधसम्, अनेकसुरैसुन्दरीसेविततीरसंकेतलतामण्डपाम्, अनवरतमज्जद्दनगजमदामोदसुरभिततरङ्गाम्, अपरगङ्गाम्, अपरसा- गरराजमहिषीम्, अपरमार्कण्डेयतपःसिद्धिसखीम्, समुत्तीर्य भगवतीं मेकलकन्याम्, उत्फुल्लपल्लविताङ्कोल्लसल्लकीसरलसालसर्जार्जुननिम्बक- दम्बजम्बूस्तम्बोदुम्बरखदिरकरञ्जा'जनाशोकंसौभाञ्जनकप्रायैस्तरु- भिराकीर्णम्, अभिमतं मतङ्गानाम्, अनुभूतसारं सारङ्गैः, शिशिरतरं तरङ्गानि लैः, स्वर्गवनसमं समञ्जरीकैर्लताजालकैरुलङ्घय दक्षिणं नर्म- दातीरैपुण्यारण्यम्, अग्रतो, गगनवीथिमिव सिंहराशिरानितामुत्पतङ्गा- मुत्थितवृश्चिकामाविर्भूतसार्द्ररोहिणीमूलां च, छन्दोजातिमिव शार्दूल- विक्रीडितमनोहरां हारिहरिणीमन्दाक्रान्तामनवरतवसन्ततिलकोद्भासि- तामतिविचित्रचम्पकमालां च, सीतामिव बहुकोटरावणवृतामुत्पन्नकु- शलवां च, लङ्कामिव संचरद्विगुणपञ्चाननविभीषणां चारुपुष्पकामका- एवमिति ॥ समुत्तीर्य भगवतीं मेकलकन्याम् । उत्फुल्लेत्यादौ लकारानुप्रासाद्धेतोः केचित् 'अङ्कोल' इति पठन्ति, तच्च प्राकृते । संस्कृते लङ्कोठ इति । तथा उल्लङ्घय- दक्षिणभागस्थितं मतङ्गानां गजानामभिमतं नर्मदातीरं पुण्यारण्यम्, अग्रतो विविधविन्ध्याटवीमवगाहमान इति संबन्धः । कथंभूतां विन्ध्याटवीम् । सिंहराशि- र्मृगेन्द्रवृन्दं ज्योतिषोक्तः पञ्चमो राशिश्च । तेन राजिताम् । तथा पतङ्गः शलभः सूर्यश्च । वृश्चिकोऽली अष्टमराशिश्च । पुनः किंभूताम् । आविर्भूता सह .आद्रेण शृङ्गवेरेण, रोहिणी ओषधिविशेषो, मूलो मूलकश्च यस्याम् । पक्षे आर्द्रा-रोहिणी मूलानि ताराः । शार्दूलविक्रीडितेन सिंहविलसितेन मनोहरा । तथा हारिणीमिश्रा- रुभिर्हरिणीभिर्मन्दमाक्रान्ताम् । सर्वदा वसन्तैस्तिलकैश्च तरुविशेषैर्भूषिताम् । तथा अतिविचित्रा चम्पकानां माला श्रेणी यस्याम् । पक्षे शार्दूलविक्रीडितं हरिणी मन्दा- क्रान्ता वसन्ततिलका चम्पकमाला च छन्दांसि । तथा बहुभिः कोटरावणैर्वृतां छन्नाम् । कोटराणां वनमिति कृत्वा 'वनगियोः संज्ञायाम् -' इति सूत्रेण पूर्वपदस्य दीर्घः । 'वनंपुरगा-' इति सूत्रेण णत्वम् । कुशो दर्भः । लवो लेशः । सीतां तु बहुकोटेन प्राज्यकौटिल्येन रावणेन रक्षसा प्रार्थिताम् । तथा उत्पन्नौ कुशलवौ खसुतौ यस्याः । तथा संचरद्भिर्द्विगुणैर्विंरज्जुभिः पञ्चाननैः सिंहैर्विशेषेण भीषणाम् । १ 'नन्द्य'. २ 'देवता:'. ३ 'पुरःसरपुरोध'. ४ 'सुरसिद्ध'. ५ 'सालेति नास्ति'. ६ 'अशोकसौभाञ्जनकेति नास्ति'. ७ 'तीरं पुण्या'. ८ 'मत्तमयूराक्रान्ताम्'. ९ 'राव- णैवृताम्', 'रावणान्विताम्'