भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

षष्ठ उच्छ्वासः। १६३ एवमभिवन्द्य देवं देवम्, समारुह्य विजयिवारणेन्द्रस्कन्धम्, अग्रतः प्रधावितानेककरितुरग परिजनः, पुरैः परोधसा निर्वर्तिते महानदीयागे युगसहस्रपरिवर्तवृत्तान्तसाक्षिणीम्, अनवरततपस्यद्ब्रह्मर्षिप्रतिष्ठितशि- वलिङ्गरुद्धरोधसम्, अनेकसुरैसुन्दरीसेविततीरसंकेतलतामण्डपाम्, अनवरतमज्जद्दनगजमदामोदसुरभिततरङ्गाम्, अपरगङ्गाम्, अपरसा- गरराजमहिषीम्, अपरमार्कण्डेयतपःसिद्धिसखीम्, समुत्तीर्य भगवतीं मेकलकन्याम्, उत्फुल्लपल्लविताङ्कोल्लसल्लकीसरलसालसर्जार्जुननिम्बक- दम्बजम्बूस्तम्बोदुम्बरखदिरकरञ्जा'जनाशोकंसौभाञ्जनकप्रायैस्तरु- भिराकीर्णम्, अभिमतं मतङ्गानाम्, अनुभूतसारं सारङ्गैः, शिशिरतरं तरङ्गानि लैः, स्वर्गवनसमं समञ्जरीकैर्लताजालकैरुलङ्घय दक्षिणं नर्म- दातीरैपुण्यारण्यम्, अग्रतो, गगनवीथिमिव सिंहराशिरानितामुत्पतङ्गा- मुत्थितवृश्चिकामाविर्भूतसार्द्ररोहिणीमूलां च, छन्दोजातिमिव शार्दूल- विक्रीडितमनोहरां हारिहरिणीमन्दाक्रान्तामनवरतवसन्ततिलकोद्भासि- तामतिविचित्रचम्पकमालां च, सीतामिव बहुकोटरावणवृतामुत्पन्नकु- शलवां च, लङ्कामिव संचरद्विगुणपञ्चाननविभीषणां चारुपुष्पकामका- एवमिति ॥ समुत्तीर्य भगवतीं मेकलकन्याम् । उत्फुल्लेत्यादौ लकारानुप्रासाद्धेतोः केचित् 'अङ्कोल' इति पठन्ति, तच्च प्राकृते । संस्कृते लङ्कोठ इति । तथा उल्लङ्घय- दक्षिणभागस्थितं मतङ्गानां गजानामभिमतं नर्मदातीरं पुण्यारण्यम्, अग्रतो विविधविन्ध्याटवीमवगाहमान इति संबन्धः । कथंभूतां विन्ध्याटवीम् । सिंहराशि- र्मृगेन्द्रवृन्दं ज्योतिषोक्तः पञ्चमो राशिश्च । तेन राजिताम् । तथा पतङ्गः शलभः सूर्यश्च । वृश्चिकोऽली अष्टमराशिश्च । पुनः किंभूताम् । आविर्भूता सह .आद्रेण शृङ्गवेरेण, रोहिणी ओषधिविशेषो, मूलो मूलकश्च यस्याम् । पक्षे आर्द्रा-रोहिणी मूलानि ताराः । शार्दूलविक्रीडितेन सिंहविलसितेन मनोहरा । तथा हारिणीमिश्रा- रुभिर्हरिणीभिर्मन्दमाक्रान्ताम् । सर्वदा वसन्तैस्तिलकैश्च तरुविशेषैर्भूषिताम् । तथा अतिविचित्रा चम्पकानां माला श्रेणी यस्याम् । पक्षे शार्दूलविक्रीडितं हरिणी मन्दा- क्रान्ता वसन्ततिलका चम्पकमाला च छन्दांसि । तथा बहुभिः कोटरावणैर्वृतां छन्नाम् । कोटराणां वनमिति कृत्वा 'वनगियोः संज्ञायाम् -' इति सूत्रेण पूर्वपदस्य दीर्घः । 'वनंपुरगा-' इति सूत्रेण णत्वम् । कुशो दर्भः । लवो लेशः । सीतां तु बहुकोटेन प्राज्यकौटिल्येन रावणेन रक्षसा प्रार्थिताम् । तथा उत्पन्नौ कुशलवौ खसुतौ यस्याः । तथा संचरद्भिर्द्विगुणैर्विंरज्जुभिः पञ्चाननैः सिंहैर्विशेषेण भीषणाम् । १ 'नन्द्य'. २ 'देवता:'. ३ 'पुरःसरपुरोध'. ४ 'सुरसिद्ध'. ५ 'सालेति नास्ति'. ६ 'अशोकसौभाञ्जनकेति नास्ति'. ७ 'तीरं पुण्या'. ८ 'मत्तमयूराक्रान्ताम्'. ९ 'राव- णैवृताम्', 'रावणान्विताम्'

१६४ नलचम्पूः । ण्डाडम्बरितमेघनादां च, गीतविद्यामिव ततावनद्धघनसुषिरवंशस्वनम- नोहरामनेकतालबेदां निषादऋषभमध्यमग्रामयुक्तां च, चित्रविद्यामि- वानेककण्टकपत्रलतास्थानकविषमामृज्वागततापसां च, कलियुगशिव- शासनस्थितिमिव महाव्रतिकान्तःपातिभिः कालमुखैर्वानरैः संकुलामने- तथा चारुपुष्पमर्थात् मनोहरसरोजं कं जलं यस्याम् । अतएवानवसरेऽपि आड- म्बरितो विस्तृतो मेघनादस्तण्डुलीयको यस्याम् । लङ्का तु द्वौ गुणौ येषां पञ्चानां ते द्विगुणा दशेत्यर्थः । तत्संख्यान्यानानानि यस्य स दशमुखो, विभीषणश्च तन्द्वाता संचरन्यस्याम् । पुष्पकं विमानम् । मेघनादो रावणात्मजः । गीतविद्यामिवेति । तता विस्तीर्णा अवनद्धाः सुश्लिष्टा घनसुषिरा बहुविवरा वंशा वैणवस्तेषां स्वनेन रम्याम् । तालस्तरुरविशेषाः । निषादाः शवराः । मध्ये भवो मध्यमः । ग्रामः खेटकम् । पक्षे ततेन तन्त्रीगतेन अवनद्धेन पौष्करेण च घनेन कांस्यकृतेन सुषिरसंज्ञकवंशस्वनेन च मनोज्ञाम् । यद्यपि 'ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्क- रम् । घनं कांस्यकृतं प्रोक्तं सुषिरं वांश्यमेव च' इति भरतः । तथाप्यत्रानेकविष- यत्वाद्दंशस्वनोपादानमसंदेहार्थमुचितमेव । अनेकतालभेदाश्चञ्चत्पुटादयो यस्याम् । तथा निषादेन स्वरेण मध्यमसंज्ञकग्रामेण युक्ताम् । चित्रविद्यामिवेति । कण्टकैः सूत्रैः पत्रैः पर्णैः, लताभिर्वल्लीभिः, शाखाभिर्वा स्थानकैश्चालवालैर्विषमाम् । तथा ऋज- वोऽकुटिला आगताः स्वापार्थे प्राप्तास्तापसा मुनयो यस्याम् । चित्रविद्यापक्षे क- लिका-कण्टक-शाखा-त्रिभङ्गि-संज्ञाभिश्चत्वारः पत्रावयवाः । एतैर्मिलित्वा शिशु- सकल-स्वस्तिक-वर्धमान-सर्वतोभद्राख्याणि पञ्च पत्राणि निष्पद्यन्ते । तदत्र शाखापर्यायो लताशब्दः । तथा स्थानकानि पार्श्वगत-ऋजु-ऋज्वागत-द्व्यर्धाक्ष- अर्धऋजु-गमनालीढ-त्वरित-त्रिभङ्गि-संज्ञानि । तैर्विषमाम् । स्थानकशब्देनैव ऋज्वागतं गतार्थमपि व्यापकत्वात्पृथगुक्तम् । प्रायो हि चित्रे ऋज्वागतमेव लि- ख्यते । तपसि भवानि तापसानि । मयूरासनोट्रासनादीनि करणानि तापसाह्या- नि । तत ऋज्वागते तापसानि यस्याम् । यद्वा ऋज्वागतेन तापं स्यतीति केचित् । ऋज्वागतेन दुःखहारिणीमित्यर्थः । कलियुगेति । अप्सु रतिरन्नतिः । महती अत्रतिर्येषां ते महाव्रतिका वृक्षास्तेषामन्तर्मध्ये पतन्त्यभीक्ष्णं तैः कृष्णमुखैर्मर्कटै- श्छन्नाम् । तथा स्फुटितप्रस्रवणाम् । पक्षे महाव्रतिकाः कापालिकाः । तदन्तःपाति- भिस्तदन्तर्भूतैः कालमुखैर्वा शैवदर्शनविशिष्टैर्नरैराचिताम् । बहुधा भिन्नप्रवाहाम् । स्रोतोऽत्र लक्षणया प्रवाहः । आम्नाय इति यावत् । कृतयुगे ह्येकमेव शिवशास- नमभूत्, कलौ तु वह्वाम्नायमिति भावः । श्लेषचित्रादिषु ववयोरैक्यम् । तथाहि 'मालामुत्पलकन्दलैः प्रविकचैरायोजितां बिभ्रती वक्रेणाससदृष्टिपातसुभगेनोद्दीपय- न्ती स्मरम् । काञ्चीदाम नितम्बसङ्गि दधती व्यालम्बिना वाससा मूर्तिः कामरिपोः सितांशुमधरा पायादुमाया जगत्' । अस्यार्थः-'कामरिपोः शिवस्य मूर्तिः पाया- १ 'ऋषमेति नास्ति' । २ 'मिच्छ्वागत'

षष्ठ उच्छ्वासः । १६५ कधाभिन्नस्रोतसं च, कापालिकखट्वाङ्गयष्टिमिव समुद्रोपकण्ठलग्नाम्, मायामिव शम्बराधिष्ठिताम्, मरुभूमिमिव करीरैः केसरिप्रसवैर्संचा- राम्, अतिचारुचन्दनैः कृतगोरोचनाविशेषकैरक्षतदूर्वावाहिभिरारब्ध- मङ्गलाचारैरिव तृणस्थलैरलंकृताम्, विविधव्याधां विन्ध्याटवीमवगाह- मानो मेषवृषमिथुनयुजः सधनुपः सकुम्भकन्यानेकत्रराशीभूतान्गिरि- ग्रामपामरलोकानालोकयन्, 'इयं गगनवीथीव चित्रशिखण्डिमण्डिता सरित्तीरभूमिः, इयं सरिदिव बहुतरङ्गोपशोभिता गोष्ठवसतिः, इयं च नक्षत्रमध्यगतापि न विशाखा तरुपङ्क्तिः, इयं पुष्पवत्यपि न दूषितस्प- त् । कीदृशी । विगतकेशैरुत्क्रान्तपलशिरोदलैरायोजितां मालां बिभ्रती । तथा विषमदृष्टिपातसुभगेन वक्रेण स्मरं दहन्ती । तथा नितम्बसङ्गि काञ्चीदामप्रायं व्यालं सर्पं दधती । तथा वाससा वस्त्रेण विना व्यतिरिक्ता । तथा सितांशुंकं चन्द्रं धर- तीति । पलं मांसम् । कमित्यव्ययं शिरोऽर्थम् । उमापक्षे व्यालम्बिना लम्बमानेन । शेषं सुगमम् । समुद्रस्याम्भोधेरुपकण्ठे कूले लग्नाम् । यष्टिस्तु समुद्रं मुद्रान्वितं यदुपकण्ठं गलसमीपं तत्र लग्ना । मुद्रा भूषणास्थिग्रन्थि । शम्बरः श्वापदविशेषो दानवविशेषश्च । शम्बरेण हि विनिर्मिता माया । अतएव शाम्बरीत्युच्यते । मरु- भूमिमिति । न संचारो गतिर्यस्याम् । केसरिणां सिंहानां प्रसवैः पोतैः । कीदृग्भिः । करिणमीरयन्ति तैः । पक्षे करीरैस्तरुविशेषैः । तथा केसरिणः किञ्जल्कोपेताः प्र- सवाः पुष्पाणि यत्र तथाविधैः । अतिचेति । चन्दनस्तरुस्तद्वत्प्रशस्तः । कृतो गवां रोच- नाविशेषोऽभिलाषातिशयो यैः । पक्षे गोरोचना गन्धद्रव्यविशेषः । सा चातीव मङ्गल्या तस्या विशेषस्तिलकम् । अक्षतामलग्नां दूर्वां वहन्त्यभीक्ष्णम् । पक्षेऽक्षतस्त- ण्डुलादिः । दूर्वेति समानम् । तथा एकस्मिन्स्थाने समूहीकृतनानानगग्रामप्राकृतज- नानवलोकयन् । कीदृशान् । मेषाणां वृषाणां मिथुनानि युञ्जन्ति धारयन्ति । तथा सह धनुषा कोदण्डेन सधनुपः । तथा सकुम्भा मङ्गलार्थं मस्तकन्यस्तकलशाः कु- मार्यो येषु । राशिसमूहो ज्योतिषोक्तो मेषादिश्च मेषवृषभमिथुनकुम्भकन्या राशिविशे- षसंज्ञाः । मन्त्रिसूनुना श्रुतशीलेन सह 'इयं च गगनवीथ्यादि' 'इमे च केचित्स- शिखण्डिनः' इत्यादि च विहितविदग्ध्यालापः प्रयाणविच्छेदमकरोत् । यदुक्तं तद्व्या- ख्यायते । तद्यथा । चित्राश्चित्रवर्णाः शिखण्डिनो मयूराः । पक्षे चित्रशिखण्डिनः सप्तर्षयः । बहुतरमिति क्रियाविशेषणम् । गोपैर्बल्लवैः शोभिता । सरित्तु बहुभिस्त- रङ्गैरुपशोभिता । गोष्ठं गोकुलम् । नक्षत्रमध्यं गता । न विगतशाखा च । एतेन तरूणामुच्चता साभोगता चोक्ता । विशाखा हि नक्षत्रमध्यं न गतेति विरोधसू- चकोऽपिशब्दः । पुष्पवती कुसुमिता रजस्वला च । न दूषितस्पर्शा मृदुत्वात् । रज- स्वला त्वस्पृश्येति विरोधः । संनिहितेभ्यो मधुदा क्षौद्रप्रदा । नवा अविच्छिन्ना । CC-0 Pt. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

र्शा वीरुत्, इयं संनिहितमधुदानवापि हरिप्रिया वंशजालिः, इयं कृ- तमातङ्गसङ्गापि न परिहृता द्विजैः सल्लकीसंततिः, इमे च केचित्स- शिखण्डिनो महाद्रुपदाः, केऽपि विच्छिन्नकीचकवंशा वृकोदराः, के- चित्सपुण्डरीकाक्षाः पाण्डुसंतानकाः, केऽप्युद्धृतभुवोमहावराहाः, के- प्युत्कृष्टसुरभिश्रीद्रुमावलिहरिकराकृष्टपन्नगनेत्राः स्फुरन्मणिभित्तयोऽ- मन्दरागाः, केऽपि सस्थाणवो दुर्गाश्रयाः श्रूयमाणगजवदनचीत्काराः सगुहाः कैलासकूटायमानाः सेव्याः खल्वमी विन्ध्यस्कन्धसंधिसा- नवः' इति मन्त्रिसूनुना श्रुतशीलेन सह विहितविदग्धालपः, कयापि वेलया कमप्यध्वानमतिक्रम्य काप्यापरिमितपतन्निर्झरजलतुषारस्पर्श- मञ्जरितपादपपुष्पपरिमलमिलन्मधुकरझङ्कारहारिणि रममाणशबरमि- थुनसंमर्दमृदितामन्दमृदुशाद्वले जलस्थलीप्रदेशे श्रान्तसैनिकानुकम्पया प्रयाणविच्छेदमकरोत् ॥ क ॥


हरिः सिंहः । या च हरेर्विष्णोः प्रिया वल्लभा सा कथमासन्नमधुसंज्ञकदैत्येति वि- रोधः । मातङ्गा गजाः श्वपचाश्च । द्विजाः पक्षिणो विप्राश्च । इमे चेति । महत् द्रुपदं वृक्षस्थानं येषु तथोक्ताः । तथा सह शिखण्डिभिर्मयूरैः । अथ च महाद्रुपदाः क्षत्रविशेषाः । द्रुपदतनयश्च शिखण्डी । चित्रशिखण्डिमण्डितेत्यनेन पूर्वमटव्यां मयूरसद्भाव उक्तः । इदानीं विन्ध्यस्कन्धेष्विति न पौनरुक्त्यम् । विच्छिन्नाः पृथ- ग्भूताः कीचकाः सच्छिद्रा वंशाश्च निश्छिद्रा येषु । वृका अरण्यश्वान उदरे मध्ये येषु । वृकोदरो भीमोऽपि । स च विशेषेण छिन्नकीचकाख्यराजान्वयः । पाण्डुः संतानकस्तरुविशेषो येषु । तथा पुण्डरीकैः सिताम्भोजैर्वृक्षैश्च विभीतकैः सह । पाण्डोः संताना एव संतानकाः सुताः पाण्डवास्ते तु पुण्डरीकाक्षेण विष्णुना सह महान्तो वराहा येषु । तथा उत्कर्षेण हृता विस्तारेण रुद्धा भूयैः । महावराहो विष्णुः । स चोत्क्षिप्तपृथ्वीकः । अमन्दो रागो येभ्यस्तेऽमन्दरागाः । तथा उत्कृ- ष्टा मनोज्ञाः सुरभयश्चम्पकाः श्रीद्रुमाश्च पिप्पलास्तेषामावलिस्तत्र हरयः कपयस्तै- राकृष्टानि पन्नगनेत्राणि सर्पाक्षीणि येषु । इत्यमन्दरागले हेतुः । पक्षे मन्दराख्यो- ऽगोऽद्रिः । तदा उत्कृष्टोद्गता सुरभिः श्रीर्लक्ष्मीर्द्रुमः पारिजातश्च यैः । मन्दरेण हि सुरभिप्रभृतीन्यम्भोधेरुद्धृतानि । सुरभिर्धेनुः । इह तु प्रस्तावात्कामधेनुः । यद्विश्वप्रकाशः—'सुरभिश्चम्पके स्वर्णजातीफलवसन्त्योः । संधौ पले सौरभेय्याम्' इति । तथा बलेर्दैत्यस्य हरेर्विष्णोश्च करैराकृष्टं आमितं पन्नगो वासुकिलक्षणं नेत्रं मन्थानमाकर्षणरज्जुर्यत्र । कैलासकूटा इवाचरन्तः । स्थाणुः स्थिरपदार्थः शिवश्च । दुर्गा विन्ध्यवासिनी देवी गौरी च । दुर्गे आश्रयो येषामिति वा । तथा आकर्ण्य-


१ 'कैकार'.

तैस्तैश्चिरन्तनवासरव्यापारैरहःशेषसहितामतिवाह्य तामपि निशा- मनन्तरमुन्मिषत्पक्ष्मपक्षिपाक्षावधूनितपवनैरिवापनीयमानेषु गगनच- त्चरचर्चाप्रकरपाण्डुपुष्पपुञ्जेकेषु नक्षत्रेषु, स्वविरहोत्पन्नतमःकलङ्क- लुपितानि मनाङ्कुङ्कुमपङ्कपिञ्जरैः करैः परामृश्य प्रसादयति दिननाथे दिग्मुखानि, पुनः पूर्वक्रमेण प्रस्थानमकरोत् ॥ क ॥ एवमपसरन्मार्गान्मागान्नीवारीणि वारीणि सहंसनिनदान्नदान् स- करेणु रेणुस्थलमाच्छादितदिशि खराणि शिखराणि लङ्घयन् सुनीरा- गान् गिरिगहनग्रामाँस्तपस्विनश्च मानयन्नेकदा नातिदूर इवोत्ककाद्- म्बकदम्बचुम्ब्यमानाम्बुजराजिरजोरञ्जिताम्भसि सरित्तीरे तरुतलो- पविष्टमेकमध्वश्रान्तमध्वनीनमिदं चारुश्लोकयुगलमतिमधुरगीततरङ्ग- रङ्गिताक्षरं गायन्तमद्राक्षीत् ॥ ख ॥ तव सुहृदुपैतुमुक्तश्रीफलः कामकेलिं जनयति वनितानां कुङ्कुमालोहितानाम्। श्रयति स च समूहो मेखलाभूषितः सन् जनयति वनितानां कुंकुमालोऽहितानाम् ॥ १२ ॥

मानो गजानां वदनचीत्कारा बृंहितानि येषु । कैलासे च । गजवदनो हेरम्बः । गुहा पाषाणसंधिः । गुहः कार्त्तिकेयः ॥ क ॥ एवमिति ॥ मार्गादीनां लङ्घनादिकं कुर्वन् । अध्वानमलंगाभी इत्यध्वनीनस्तं चाटु श्लोकयुगं गायन्तमद्राक्षीत् । अपसरतसैन्यभयान्निवर्तमानं मार्गे मृगसमूहो येभ्यस्तांस्तथोक्तान् । नीवारोऽस्लेष्विति । सह हंसनिनदैः । नदो जलाशयः । सह करेणुभिर्गजैः । आच्छादिता दिशो यैस्तान्याच्छादितदिशि । खराणि तीक्ष्णानि । सुष्ठु नीरं जलमगाश्च तरवो येष्विति । पक्षे सुष्ठु निर्गतरागान् । मानयन्निति मानिरु- पभोगार्थः पूजार्थश्च । उपभोगे यथा 'मानयिष्यन्ति सिद्धाः सोत्कण्ठानि प्रियसह- चरीसंभ्रमालिङ्गितानि' ॥ ख ॥ तवेति ॥ तव संबन्धी सुहृन्मित्रजनो भुक्तलक्ष्मीफलः कुङ्कुमेन आ ईषल्लोहि- तानां वनितानां जनितात्यर्थरागाणां योषितां मन्मथलीलां जनयति । 'वनिता ज- नितात्यर्थरागयोषित्' इति विश्वप्रकाशः । तथा अहितानां समूहो मेखलाभुवि गिरिमध्यभुवि उषितः कुमालः कुत्सितत्सक् सन् वैरत्यागात्सज्जनतायाः ब्रह्मचर्या- दियोगाद्यतिताया वह्निपत्रवसनादिसंबन्धाद्वनितायाः शवरलस्य कुं भूमिकां श्रयति।

१ 'अपीति नास्ति'. २ 'धूनन'. ३ 'पङ्कजेषु'. ४ 'पिञ्जरकरैः'. ५ 'आच्छा- दितरविकराणि दीर्घतरशिखराणि'. ६ 'सरिति तीरतरु'. ७ 'इमं चाटु'. ८ 'गीततरं तरङ्गिता'. ९ 'अनु'.

१६८ नलचम्पूः । अपि च । त्वत्तो भयेन नृप पश्य जनो वनेषु कान्त्या जितस्मर तिरोहितवानरीणाम् । शाखामृगश्चपल एष गिरेरुपत्य- कां त्याजितः स्मरति रोहितवानरीणाम् ॥ १३ ॥ 'अहो नु खल्वयमनल्पशास्त्रीयसंस्कारामृतसंपर्कपल्लवितप्रज्ञाङ्कुरः कोऽपि कुशलः काव्यवक्रोक्तिषु पथिकयुवा योग्यः संभाषणस्य' इत्य- वधारयति राजनि ससंभ्रममुत्थाय स्थित्वा च पुरः स पान्थः सप्रणा- ममिमं श्लोकमपाठीत् ॥ क ॥ 'वेधा वेदनयाश्लिष्टो गोविन्दश्च गदाधरः । शंभुः शूली विषादी च देव केनोपमीयसे' ॥ १४ ॥ राजा तु तदाकर्ण्य क्षणमात्रमहोपरोधविस्मयहर्षरसैः समकालमाप्ला- वितमनाः, प्रथममुत्फुल्लया दृशा, ततो मुग्धस्मितार्घ्येण, तदनु सर्वा- ङ्गीणभूषणप्रदानेन, तमभ्यर्च्य 'पान्थ, कथय केयमुत्तुङ्गकलोलदोला- स चेति चकारात् सुहृदहितसमूहयोरन्योन्यमयमक्तिपादस्थितविशेषणाभ्यां शब्द- श्लेषद्वारेण संबन्धः । तथथा, मेखलया कटिपट्टिकया भूषितः सुहृत् अहितसमू- होऽपि अनुमुक्तविल्वः । अत्र प्रथमतृतीयपादौ विशेषणगतश्लेषेणालंकृतौ द्विती- यचतुर्थौ तु संपूर्णयमकेन ॥ १२ ॥ त्वत्त इति ॥ नृपेति संबोधनम् । कान्त्या सौन्दर्येण जितस्मरेति तद्विशेषणम्। पश्येत्याभिमुख्यकरणे । अरीणां जनस्त्वद्भयेन वनेषु तिरोहितवान् । जितस्मरेत्य- नेन 'स्मरोऽपि किल त्वया जित इति तिरोहितोऽभूत्' इति प्रतीयते स्मृतिगो- चर एव नतु दृश्यते इत्यन्वर्थात् । तथा एष प्रत्यक्षवर्ती शाखामृगो वानरश्च- पलो लोलः । अनेनैव वनवासिना रिपुजनेन गिरेरुपत्यकामधोभूमिकां त्याजितो रोहितवानरीणां मर्कटीनां स्मरति । वानरीणामिति 'अधीगर्थ-' इति सूत्रेण क- र्मणि षष्ठी ॥ १३ ॥ वेधा इति ॥ वेदनया पीडया आश्लिष्टः संबद्धः । गदेन रोगेण अधरो वि- धुरः । शूलं रुग्विशेषोऽस्य । अतएव विषादान्वितः । तस्माद्देव केनोपमीयसे त्वमिति बाह्योऽर्थः । तत्त्वतस्तु वेदानां नयेन मतेनाश्लिष्टः । गदा कौमोदकी । अथवा गदो भ्राता सोऽधरोऽनुजो यस्य । शूलमायुधम् । विषमत्तीति विषादी नी- लकण्ठत्वात् ॥ १४ ॥ राजा त्विति ॥ मृणालवलयानामक्षसूत्रम्, उत्कूजनस्य ब्रह्मयज्ञोद्गारः, राज- १ 'उभय'. २ 'गदान्वितः'.

षष्ठ उच्छ्वासः । १६९ धिरूढानुच्चवधूत्क्षिप्तमृदुमृणालवलयान्कूजतः कलहंसानक्षसूत्रिणः प्रवर्तितब्रह्मयज्ञोद्गारमुखरमुखांस्तीरतापसानिव दिवमारोपयितुमुद्वह- न्ती सरित्, तरुणतरुतलमलंकुर्वाणः प्रसन्नसरस्वतीकः कश्च भवान्' इति सप्रणयमपृच्छत् ॥ क ॥ सोऽपि । 'सभ्रमरया कूलकीचकवेणुलतया सदृशी नावातरण- योग्या किमियमप्रसिद्धा महानदी देवस्य' इत्यभिधाय कथयितुमार- ब्धवान् ॥ ख ॥ 'भानोः सुता संवरणस्य भार्या तापी सरित्सेयमघस्य हन्त्री । यस्याः कुरुः सूनुरभूत्स यस्य नाम्ना कुरुक्षेत्रमुदाहरन्ति ॥ १५ ॥ एतस्याः सलिलावगाहसमये कुर्वन्ति नित्यं नृणां नीरन्ध्रोन्नतकर्कशस्तनतटीसंघट्टपिष्टोर्मयः । भ्राम्यद्भङ्गिनिभालकैः क्षणमिव व्यालोलनेत्रैर्मुखै- रुत्फुल्लोत्पलगर्भपङ्कजवनभ्रान्तिं महाराष्ट्रियाः ॥ १६ ॥ अपिच । यद्येतस्याः सकृदपि मरुन्नर्तिताम्भोजराजि- प्रेङ्खत्पत्रव्यजनविधुतं वारि नीहारहारि । रोधोभाजां पिवति कुसुमैर्वासितं पादपानां पीयूषाय स्पृहयति ततः किं क्वचिन्नाकलोकः ॥ १७ ॥ मामपि पुष्कराक्षनामानं वार्तिकमवगच्छतु देवः ॥ ग ॥ तथाहि ।


हंसानां तापसा उपमानम् । ब्रह्मयज्ञो वेदाध्ययनम् ॥ क ॥ सोऽपीति ॥ किमियं सरिद्देवस्य न विदिता, यासौ नावा वेडया तरण- योग्या । शब्दायमानकीचकवंशवह्लया । सभ्रमरया सन्दृष्ट्या । सदृशी । वंशवह्लयपि अवाते वाताभावे रणंस्य शब्दस्य योग्या न भवति । सरिदपि सभ्रमः सावर्ती रयो जवो यस्या इति सभ्रमरया ॥ ख ॥ भानोरिति ॥ संवरणः क्षत्रियविशेषः ॥ १५ ॥ एतस्या इति ॥ उत्फुल्लोत्पलानि गर्भे मध्ये यस्य पङ्कजवनस्य । महाराष्ट्रियाः स्त्रियः ॥ १६ ॥ मामिति ॥ वार्तायां नियुक्तो वार्तिकः ॥ ग ॥


१ 'उत्कूजतः'.

१७० नलचम्पूः । स्थित्वा त्वदागमनमार्गमुखे गवाक्षे वार्ताविशेषमधिगन्तुमिहायताक्ष्या । संप्रेषितो निषधनाथ तयास्मि यस्याः क्रीडागिरिस्त्वमसि मुग्धमनोमृगस्य ॥ १८ ॥ एष्यति च श्वस्तनेऽहनि मार्गश्रमक्लान्तमितो नातिदूर इवोत्तुङ्गस- रलसालसर्जार्जुननिचुलनिचयान्तरचलद्दुलचकोरमयूरहारीतहंसकु- लकोलाहलिनि पयोष्णीपुलिनपरिसरे स्थितं तया प्रहितमात्रं क्रीडा- किंनरमिथुनम् ॥ क ॥ 'इयं च वाच्यतां तया स्वहस्तकिसलयलिखिताक्षरगर्भा भूर्जपत्रि- का' इत्यभिधाय पुरोऽस्य लेखपत्रिकां व्यसृजत् ॥ ख ॥ राजापि पार्श्वपरिजनेनोत्क्षिप्यार्पितां तामतिबहुलपुलकाङ्कुरकण्ट- कितप्रकोष्ठकाण्डेन पाणिना स्वयमुन्मुच्य सादरमवाचयत् ॥ ग ॥ 'नलोऽपि मां प्रत्यनलोऽसि यत्त- द्भवादृशां नैषध नैष धर्मः । तथाबलानां बलवद्ग्रहीतुं न मानसं मानसमुद्रयुक्तम् ॥ १९ ॥ अपि च । निपतति किल दुर्बलेषु दैवं तद्वितथं ननु येन कारणेन । बलवति न यथा तथाबलानां प्रभवति कृष्टशरासनो मनोभूः ॥ २० ॥ अपि च ।

स्थित्वेति ॥ गवाक्षे स्थित्वा तया आयताक्ष्या दीर्घदृशा वार्तान्तरं ज्ञातुमिह
प्रेषितोऽहम् । यस्या मुग्धमनोमृगस्य त्वं क्रीडागिरिः मृगो हि गिरौ मनस्त्वयि
रमते ॥ १८ ॥
नल इति ॥ नैषध इत्यभिजनान्तामन्त्रणेन कुलीनत्वोल्लिखनम् । मानसमुद्रे-
ल्यनेन च सबलानामेव पराजयो नावलानाम् । मां प्रति त्वं नलाख्योऽपि सन्ननलो
वह्निरुत्कण्ठाजनकत्वेन संतापक इत्यर्थः । न नलोऽनल इति विरोधः । परिहा-
रस्तु प्रागेव व्याख्यातः । न चैष भवादृशां धर्मो यस्मादहमबला तस्मात्तवाव-
लानां दुर्बलानां मानसं चेतो ग्रहीतुं न युक्तम् । बलवदिति क्रियाविशेषणं हठादि-
त्यर्थेऽव्ययम् ॥ १९ ॥
निपततीति ॥ अबलाः स्त्रियोऽशक्ताश्च ॥ २० ॥

षष्ठ उच्छ्वासः । १७१ कदा किल भविष्यन्ति कुण्डिनोद्यानभूमयः । उत्फुल्लस्थलपद्माभभवच्चरणभूषिताः ॥ २१ ॥' इति लेखलिखितप्रणयसुभाषितामृतरसप्लवेनाप्लावितहृदयः, 'विधे, विधेहि मे पक्षिण इव पक्षयुगलमुड्डीय येन तां पश्यामि' इति चिन्त- यन्नरंपतिः पुरतः स्थितं तं प्रियावार्तिकमाश्लिष्यन्निवोद्गतर रोमाञ्चनिच- येन, पिवन्निवाभिलाषतृषितया दृशा, स्नपयन्निव मधुरस्मितामृतर- सेन, पुनः पुनः सादरमभाषत ॥ क ॥ 'पुष्कराक्ष, सा सर्वथा विजयते राजपुत्री । यस्याः प्रसन्नमुदारस- त्कान्तिश्लिष्टं सुकुमारमनेकालंकारभाजनं वयो वचनं च, सप्रश्रयः प्रगल्भो विवेकवान्विदग्धबुद्धिर्भवद्विधः परिजनश्च ॥ ख ॥ तत्कथय 'कथनीयकीर्तिः क्वास्ते कथमास्ते कं विनोदमनुतिष्ठति केन व्यापारेण परिणामयति वासरं वाऽसौ भवत्स्वामिसुता' इत्येवमुक्तः स पुनः पल्लवयन्ननुरागकन्दलं नलमलपत् ॥ ग ॥ 'त्वद्देशागतवायसाय ददती दध्योदनं पिण्डितं त्वन्नाम्नः सदृशे दृशं निदधती वन्येऽपि मुग्धा नले । त्वत्संदेशकथार्थिनी मृगयते तान्राजहंसान्पुनः क्रीडोद्यानतरङ्गिणीतरुतलच्छायासु वापीषु च ॥ २२ ॥ अपिच । सांप्रतं तया त्वद्देशागतमारुतेन मृदुना संजांतरोमाञ्चया त्वद्रूपाञ्चितचारुचित्रफलके निर्वापयन्त्या दृशम् । त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने नीचैः पञ्चमगीतिगर्भितगिरा नक्तंदिनं स्थीयते ॥ २३ ॥' पुष्करेति ॥ प्रसन्नं निर्मलम् । उदारं रम्यम् । सत्कान्ति तेजस्वि । श्लिष्टं सुघटि- तसर्वावयवम् । कुमारं मृदु । अनेकालंकारभाजनं बहुभूषणपात्रम् । वयःशब्देन तदाधारभूतं शरीरमुच्यते । पक्षे प्रसन्नं झटित्यर्थप्रतीतिकृत् । महार्थमुदारम् । औज्ज्वल्यं कान्तिः । मसृणत्वं श्लेषः । अजरठं सुकुमारम् । अनुप्रासोपमादयोऽलं- काराः ॥ ख ॥ त्वद्देशेति ॥ तव नामापि दुर्लभं ततोऽस्य सदृशे समुचिते । 'नाम्ना त्वत्स- दृशे' इत्यायः पाठः । सतु स्पष्ट एव ॥ २२ ॥ त्वद्देशागतेति ॥ नीचैरिति निभृतम् । प्रच्छन्नरागत्वात् ॥ २३ ॥ १ 'नरपतिरग्रतः'. २ 'मुदारकान्ति'. ३ 'पुत्री'.

१७२ नलचम्पूः । एवमेनुगुणमनुरागस्य, सदृशं शृङ्गारस्य, सहोदरमादरस्य, प्रियं प्रेमप्रपञ्चस्य, प्रोत्साहनमनङ्गस्य, अनुकूलमुत्कण्ठायाः, समुचितम- भिनिवेशस्य, कौतुकजननं जल्पति पुष्कराक्षे, श्रवणकुतूहलिनि वि- स्मृतान्यव्यापारे तन्मयतामिवानुभवति भूभुजि, जरठीभवत्सु पूर्वा- ह्णवेलालवेषु, गगनमध्यासन्नवर्तिनि व्रजति तीव्रतां ब्रध्नमण्डले, स्व- लयति पथि पथिकानसह्योर्मिणि घर्मजले, जलाशयाननुसरत्सु पि- पासाकूततरलिततारकेषु श्वासिषु श्वापदेषु, पङ्किलकूलकर्दमविमर्दौद्य- तेषु सरित्परिसरवनविहारिकरिवराहमहिषमण्डलेषु, विटपिकोटरकु- टीरनीडनिलयनितीयमानेषु संपुटितपक्षेषु पक्षिषु, कूलकुलायकोणकू- णितकोकूयमानकुकुहेषु गिरिसरित्सुरङ्गाङ्गणेपु, रङ्गतकुरङ्गचर्वितखर्व- दूर्वानलनीलनिम्रशाद्वलस्थलस्थितये हिण्डमानासु कारण्डवशिखण्डिम- ण्डलीषु, शिशिरनिवासवाञ्छया कूजत्सु करञ्जनिकुञ्जोपजितकपिञ्ज- लकपोतपोतकेषु, वहति मनाङ्म्लानकोमलकुसुमकोशकोष्णामेन्दम- करन्दबिन्दूद्गारिणि तापीतीरतरङ्गस्पर्शसेव्ये मध्याह्नमरुति, श्रमवश- विलोलमीलन्नयननीलोत्पलासु बहलतरुतलच्छायामाश्रयन्तीषु सीद्- त्सैनिकनितम्बिनीषु प्रस्तावपाठकः पपाठ ॥ क ॥ 'विचित्राः पत्रालोर्दलयति गलत्स्वेदसलिलै- रमन्दं मृद्नाति प्रमदकरिकुम्भस्तनतटीः । प्रबन्धेनाक्रामन्जनजघनजङ्घोरुयुगलं श्रमः सेनाङ्गेषु प्रसरति शनैः कामुक इव ॥ २४ ॥ अपि च । एवमिति ॥ एवं ब्रघ्नमण्डलादिग्विदृशेषु सत्सु प्रस्तावपाठकः पपाठ । पिपा- साया आकूतेनाभिप्रायेण तरलिता तारा कनीनिका यैः । श्वासान्वितश्वापदैः । गिरिसरितां सुरङ्गाः संधयस्तदङ्गणेपु ॥ क ॥ विचित्रा इति ॥ अनेकविधाः पत्रालोर्वाहनश्रेणीर्विलेपनपञ्चवल्लीश्च दलयति । तथा मत्तकरिकुम्भानेव स्तनतटीरमन्दं खेदयति । प्रबन्धेन सातत्येन प्रकृष्टबन्ध- नेन च । करणविशेषेण । प्रयाणारूढत्वात्कंदर्पभावाच्च । जघनं च जङ्घे चोरुयुगलं च प्राण्यङ्गत्वात्समाहारः । ततः कर्मधारयः । तदाक्रामन्कामीव श्रमः सेनाया अङ्गेषु हस्त्यश्वादिषु प्रसरति ॥ २४ ॥ १ 'मुक्त'. २ 'कौतूहलिनि'. ३ 'असह्योष्मणि'. ४ 'जले'. ५ 'श्वसु'; 'श्वासिश्वाप- देपु'. ६ 'कूलप्रौढकर्दम'. ७ 'समङ्गाङ्गणे'; 'तरङ्गाङ्गणे'. ८ 'खर्वेति नास्ति'. ९ 'अमन्देति नास्ति'. १० 'प्रमदेन'

षष्ठ उच्छ्वासः । १७३ कूजत्क्रौञ्चं चटुलकुररद्वन्द्वमुन्नादिहंसं क्रीडत्क्रोडं निपतितलतापुष्पकिञ्जल्कहारि । अस्याः सान्द्रद्रुमवनतलश्रान्तसुप्ताध्वनीनं रोधः सिन्धोः स्खलयति भवत्सैनिकानां प्रयाणम् ॥ २५ ॥ राजा तु तदाकर्ण्य 'बाहुक, बहूनां बहुमतो बाहुल्यादिहैव वासः, तद्ब्रूहि सैनिकान्, अवतरत तापीतीरतरुतलाश्रयान्, आश्रयत श्रम- च्छिद्दच्छायाः, कुरुत पटकुटीः, कारयत कायमानानि, मुञ्चतामन्द- मृदुशाद्वलेष्ववलान्वलीवर्दकान्, कूर्दयत कर्द्दमे महिषान्, खादयत वेसरीभिर्वशकरीराङ्कुरान्, प्रचारयत क्रमेण क्रमेलकान्, अवगाहाव- साने पृष्ठावकीर्णपुलिनपङ्कपांसवो विहरन्तु स्ववशं वंशस्तम्बेषु स्तम्बे- रमाः, तरुबुध्नेषु बध्नीत तीव्रवेगान्वेगसेरान्, अवतरन्तु तापीतीरंतर- ङ्गेषु तुरंगाः, शिशिरतरङ्गानिलान्दोलितविविधविकचमञ्जरीराजिर्ज- टितेषूत्फुल्लताखण्डमण्डपेषु मध्याह्नसमयमतिवाहयन्तु किंनरमिथु- नानि' इति सेनापतिमादिदेश ॥ क ॥ स्वयमपि पुष्कराक्षसूचितार्धपथश्रमखिन्नकिंनरमिथुनदिदृक्षया कृ- तमृगयाविनोदव्यपदेशो दिशि दक्षिणस्यामाप्तस्तोकैःपरिवारपरिवृतो झरैर्निर्झरझत्कारिवारिरमणायासु विहितविहारहारिहरिणीनेत्रोत्पल- स्तबकितासु रममाणपुलिन्दनितम्बिनीवदनविम्बचन्द्रितासु सान्द्र- द्रुमद्रोणीषु विचरितुमारभत ॥ ख ॥ पुरःस्थितश्चास्य वर्त्म दर्शयन् जात्यतरतुरंगमारोपितः पुष्कराक्षो- ऽप्यभाषत ॥ ग ॥ 'देव, मार्कण्डेयप्रमुखमहामुनिनिवासपवित्रीताः पुण्याः खल्वि- माः पयोष्णीपरिसरवनभूमयः ॥ घ ॥ तथाहि । कूजदिति ॥ क्रौञ्चकूजनादीनि विशेषणानि रोधसो रम्यताहेतुत्वात्सैन्यप्रया- णस्खलनसाधनानि ॥ २५ ॥ राजा त्विति ॥ कायमानानि तृणमयगृहाणि । वंशानां करीराणामङ्कुराः॥क॥ १ 'स्खलयति'. २ 'तरुतलमाश्रयत'. ३ 'श्रमच्छिदच्छायाः'. ४ 'शाद्वले'. ५ 'बलीवर्दान्'. ६ 'माहिषकम्'. ७ 'वेसरीः'. ८ 'करीरान्'. ९ 'वेसरान्'. १० 'तीरेति- नास्ति'. ११ 'जटिलेपूतपल्लवलता'; 'जटिलेषूत्फुल्लतामण्डपेषु'. १२ 'मावाहय'. १३ 'व्यपदेशो'. १४ 'स्तोकपरिवृतः'. १५ 'सरिन्'. १६ 'दर्शनीयजात्यतरतुरङ्गतुरङ्ग'.

१७४ नलचम्पूः । श्रूयते किलास्मादुद्देशात्पूर्वदिग्भागे भगवतः पुराणपुरुषावतारस्य परशुरामस्य जनयितुर्जमदग्नेराश्रमः । ततोऽपि १नातिदूरेण सुरासुर- मौलिमालामुकुलमुक्तमकरन्दबिन्दुस्नपितपादारविन्दस्य भगवतः स्व- स्वेदप्रसरप्रवर्तितपयोष्णीप्रवाहस्य महावराहस्यायतनम् ॥ क ॥ इतोऽप्यवलोकयतु देवः । सैषा चलच्चन्द्रकिचक्रवाक- चञ्चच्चकोराकुलकूलकच्छा । स्वःसीमसोपानसहक्तरङ्गा गङ्गाप्रतिस्पर्धिपयाः पयोष्णी ॥ २६ ॥ यस्याः पश्यैते मुक्तास्रैः श्रूयमाणं सिकतिलपुलिनप्रान्तविश्रान्तपान्थै- रुन्धानं मञ्जुगीतप्रियहरिणकुलान्यम्बुपानागतानि । सांध्यध्यानावसाने क्षणमिव मुनयः संनिधौ पङ्कजाना- मोंकारोच्चाररम्यं मधुकरमधुरध्वानमाकर्णयन्ति' ॥ २७ ॥ राजा तु 'नमस्याः खल्वमी महानुभावाः ॥ ख ॥ तथाहि । मृगेषु मैत्री मुदितात्मदृष्टौ कृपा मुहुः प्राणिषु दुःखितेषु । येषां न ते कस्य भवन्ति वन्द्याः कौशेयकौपीनभृतो मुनीन्द्राः' ॥ २८ ॥ इत्यवधारयँस्तानवन्दे ॥ सैषेति ॥ चन्द्रकी मयूरः । कच्छाः काशादिक्षेत्रप्रदेशाः । खःसीमेत्यत्र खरि- त्यव्ययं स्वर्गार्थम् ॥ २६ ॥ मुक्तेति ॥ सिकतास्यास्तीत्यर्थे इलच् । मधुकरध्वानस्योत्कण्ठाजनकत्वात्पा- न्थानां मुक्ताश्रुत्वम् । गीतप्रियत्वाद्वरिणानां रोधः मुनीनां च देवत्रयीवेदत्रयीवा- चिन्योंकारे लीनत्वात् । तत्प्रतिनिधौ मधुकरध्वाने बहुमानः । तथा च 'त्रयीं ति- स्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति प- दम्' ॥ २७ ॥ मृगेष्विति ॥ मैत्री मुदिता करुणा इति तिस्रोऽपि चेतःप्रसादिन्यो भावनाः । कौशेयकौपीनभृत इति निःसङ्गत्वोक्त्या पापकारिषूपेक्षाप्यभिहिता ॥ २८ ॥ १ 'नातिदूरे प्रणतसुरा'.

षष्ठ उच्छ्वासः । १७५ मुनयोऽपि 'सोऽयं सोमपीथी निषधनाथः' इत्यनुध्यानादवगम्यः प्रयुक्तब्रह्मोक्ताशिषः, अनुगृह्णन्त इवार्द्राईदृष्टिपातैः, आश्वासयन्त इव प्रियस्वागतप्रश्नालापेन, स्नपयन्त इव दरहसितदन्तज्योत्स्नामृतप्लवेन, आह्लादयन्त इवादरेण, दत्त्वार्घ्यमनन्तरमिदमवोचन् ॥ क ॥ 'आयुष्मन्, अस्मदीयमिह धर्मोपदेशप्रदानमेव प्रथमातिथेयम- तिथिजेनेष्वतोऽभिधीयसे । पुण्यं पयोऽस्याः सरितः तदेतदवगाह्य कुरु पुण्यमयमात्मानम् ॥ ख ॥ तथाहि । पर्वतभेदिपवित्रं जैत्रं नरकस्य बहुमतङ्गहनम् । हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी' ॥ २९ ॥ राजापि 'एवमेतत् । महावराहाङ्गविनिर्गतायाः किमन्यदस्याः पैरतः पवित्रम् । यदीयमालोकनमध्यघानि निहन्ति पुंसां चिरसंचितानि ॥ ३० ॥ तदेष करोमि भवतामादेशम्' इत्यभिधाय यथाविधि स्नानाय सरिन्मध्यमवातरत् ॥ ग ॥ मुनयोऽपीति ॥ दर अर्धे यद्धसितं तेन दन्तज्योत्स्ना सैवामृतप्लवस्तेन । द- रित्यव्ययमीषदर्थे ॥ क ॥ पर्वतेति ॥ राजन् । पश्यत यूयमवलोकयत । पर्वतविदारकं पावनं नरकस्य दुर्गतेजैत्रं पराभविष्णु । अत एव बहुमतं बहुमाननीयम् । गहनमगाधम् । पयः पाथः । कर्मभूतम् । पयोष्णी वहति धारयति । उपमाने हरिशब्दत्रयमिन्द्रविष्णु- सिंहार्थम् । तत्क्रमेण विशिष्यते । तथथा पर्वतभेदी गिरिविदारको यः पविर्वज्रं तं त्रायते धारयति वज्रधरम् । नरकस्य भौमासुरस्य जैत्रमभिभावुकं विष्णुम् । म- तङ्गान्सुनिविशेषादीपदूना बहुमतङ्गा गजा मतङ्गादुत्पन्नत्वात् । तान् हन्तीत्यच् । क्विब्या । अथवा बहून्मतङ्गान्हन्तीति सिंहम् ॥ २९ ॥ महावेति ॥ आदिवराहाद्विनिःसृताया अमुष्याः परतः परमन्यदपरं किं प- वित्रं न किमपीत्यर्थः ॥ ३० ॥ १ 'निषधाधिपः' । २ 'आर्द्राईदृष्टिपातैः' । ३ 'मेव' । ४ 'विनिर्मितायाः' । ५ 'सरितः' । ६ 'अथ नृपतिर्यथाविधि'

१७६ नलचम्पूः । अवतीर्य च मन्त्रमार्जनप्राणै¹संयमसंध्यासूक्तजपपितृतर्पणादिसमु- चिताह्निकायसाने रक्तकमलगर्भमर्घ्या²ञ्जलिमुत्क्षिप्य भगवतो भास्कर- स्य स्तुतिमकरोत् ॥ क ॥ जयति जगदेकचक्षुर्विश्वात्मा वेदै³मन्त्रमयमूर्तिः । तरणिस्तरणतरण्डकमघपटलपयोनिधौ पुंसाम् ॥ ३१ ॥ तदनु च चटुलचञ्चरीककुलाकुलितकमलैकुकुङ्गल⁴गलद्बृहन्मकर- न्दसुरभिततरङ्गतुमुतपतत्कपिञ्जलं जलमवगाह्य चिरमुत्तीर्यतीरमापृ- च्छथ मुनिजनमभिवाद्य च पुनः पुलिनपालिपर्यटनाय प्रस्थितः प्रण- यादनुव्रजतो मुनीन्निवर्तयन्निदमवादीत् ॥ ख ॥ 'चक्रधरं विषमाक्षं कृतमदकैल⁵राजहंससंचारम् । हरिहरविरञ्चिसदृशं भजत पयोष्णीततं मुनयः' ॥ ३२ ॥ एवमुक्तास्तेऽप्यार्द्रहृर्दयाः⁶ स्वल्पपरिचयेनाप्यु॑पचितोचितप्रणयाः प्रियंवदतथा प्रियमाशशंसुः ॥ ग ॥ 'सुगमस्तवास्तु पन्थाः क्षेमा दिग्देवताः शिवाः शकुनाः । अभिलषितमर्थमचिरात्साधयतु भवानविघ्नेन' ॥ ३३ ॥ इत्यभिधाय व्यावृत्तेषु मुनिषु कौतुकादितस्ततः संचरच्चटुलषट्चर- णचक्रचुम्बनाकूततरलितपुष्पपरागपटलपांसुलिततरुतलेषु वहत्सुरभि- शिशिरकोमलपवनेषु वनेषु, वनेचरमिथुनमन्मथक्रीडानुकूलेषु कूलेषु, पुलिन्दडिम्भकाध्यासितफलितबदरीषु दरीषु, पुजितकुञ्जरेषु निकु- ञ्जेषु, दुर्दर्शभानुषु सानुषु, सानुचरश्चरन्नेकस्मिन्नतिनिबिडसंधिसंनि-

अवतीर्येति ॥ मन्त्रमार्जनं मन्त्रस्नानम् । प्राणसंयमः श्वासप्रश्वासरोधने करन्यासोऽङ्गन्यासश्च विद्यते यत्र तत् संध्यासूक्तम् ॥ क ॥ चक्रेति ॥ चक्रवाकधरम् । विषमविभीतकम् । तथा कृतो मदकलराजहंसा- नां संचारो येन तथाविधम् । पयोष्णीतटं यूयं भजत । मुनय इति संबोधनम् । हरिहरविरञ्चिसादृश्यं विशेषणत्रयेण । तदा चक्रं सुदर्शनं धारयति विष्णुः । विषमा- ण्यक्षीण्यस्य त्रिनेत्रत्वाद्वरः । कृतो मदकलराजहंसेन कृत्वा संचारो येन स ब्रह्मा, हंसवाहनत्वात् ॥ ३२ ॥ इत्यभिधायेति ॥ पुलिन्दडिम्भैरध्यासितासु कासु फलवद्बदरीषु, न केवलं फलवद्बदरीषु, तथा दरीषु । चकारादिमन्तरेणापि समुच्चयः स्यादेव । तथथा (मा- घे दशमसर्गे, — सावशेषपदमुक्तमुपेक्षा ग्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थितमका-

१ 'संयमनमायतप्राणं संयम्य संध्यासूक्तं प्रतिजप्य'. २ 'अर्थाञ्जलि'. ३ 'वेदमयमूर्तिः'. ४ 'कमलकुमुदकुड्मल'. ५ 'कलहंससंचारं'. ६ 'आर्द्रहृदयतया'. ७ 'प्युचितोचितप्र'

[Header] षष्ठ उच्छ्वासः । १७७

वेशे शिलान्तरालप्रदेशे, प्रियतममुद्दिश्य पठन्त्याः किंनर्याः साश्चर्य- मार्यागीतिमिमामशृणोत् ॥ क ॥ 'विपिनोद्देशं सरसं केतकमकरन्दवासितवियत्ककुभम् । ग्राममिमं वा सर संकेतकमकरन्दवासितवियत्ककुभम्' ॥३४॥ तदनु पुनस्तत्प्रतिवादिना किंनरेण च पठ्यमानामिमामार्यामाश्रौ- षीत् ॥ ख ॥ 'अजनि रजनिः किमन्यत्तरणिस्तरतीव पश्चिमपयोधौ । घनतरुणि तरुणि विपिने क्वचिदस्मिन्नेव निवसामः' ॥ ३५ ॥ एवमन्योन्यालापमाकर्ण्य किंनरमिथुनस्य विस्मितो नरपतिः 'अ- हो माननीयमहिमोद्दामा दमयन्ती यस्याः परिचारिणः पक्षिणोऽपि श्रवणस्पृहणीयामेवंविधसुभाषितामृतमुचं वाचमुच्चारयन्ति ॥ ग ॥ प्रथममिह तावदभिजात्यवित्तविद्याविवेकविभवैरनाकुले कुले जन्म ततोऽप्यनुरूपरूपसंपत्तिस्तदनु श्लाघ्यानुगुणगुणलाभस्ततोऽपिच शुचि- विदग्धस्निग्धपरिजनवाप्तिरिति महती भाग्यपरम्परा' इति चिन्तय- न्नातिक्षूरवर्तिनः पुष्कराक्षस्य मुखमवलोकयांचकार ॥ घ ॥

रणतः स्म द्योतयन्ति मदविभ्रममासाम्' । अध्यासितास्विति व्यस्तमेव । न च फ- लन्त्यो बदर्यो यास्विति दरीविशेषणम् । 'नद्यृतश्च' इति कप्प्रत्ययस्य दुर्निवारत्वात् । बाहुलकाश्रयणात्कप्प्रत्ययाभाव इति तु न युक्तम् ॥ क ॥ विपिनेति ॥ सरसं सजलम् । तथा केतकमकरन्देन वासितं वियन्नभः क- कुभश्च दिशो येन तथाभूतम् । विपिनप्रदेशम् । अथवा इमं पुरोवर्तिनं ग्रामं सर व्रज । कीदृशं ग्रामम् । संकेतयति निवासयति अनुकूलत्वान्निवासहेतुर्भवतीति सं- केतकम् । तदेवानुकूल्यमाह—अकरमिति । न विद्यते करो राजग्राह्योऽंशो यत्र । पार्वतीयत्वादकरम् । आसनमासितं सद्भावः । दवस्यासिताद्वियन्तो विश्लिष्यन्तः कंकुभास्तरवो यत्र । यदि वा 'षिञ् बन्धने' आङ्पूर्वस्य आसयनमासितम् । आ- बन्ध इत्यर्थः । यद्वा सिताः संबद्धाः । दवेन असिता असंबद्धा वयः पक्षिणो यत्र। तथा यद् वहत् कं पयो यस्यां सा चासौ कुश्च तया भातीति । इणः शतरि यद्- ह्दित्यर्थः ॥ ३४ ॥ तदिति ॥ किंचिन्नराः किंचित्पक्ष्यादिरूपमिश्राः किंनराः ॥ ख ॥ अजनीति ॥ घनास्तरवो यस्मिन् तस्मिन्विपिने । तरुणीति संबोधनम्॥३५॥ प्रथममिति ॥ आभिजात्यादीनि अहंकारकृतवैकल्यस्य कारणानि । कुले ले- भिरनाकुले । अनुगुणोऽनुरूपः ॥ घ ॥

१. 'चित्र' २ 'श्लाघ्यान्' ३ 'अदूरवर्तिनः' ; 'नातिदूरव'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१७८ नलचम्पूः । पुष्कराक्षोऽपि पुरःसृत्य तं किंनरमभाषत ॥ क ॥ 'सुन्दरक, कान्तामुखावलोकनासक्तः समीपमागतानप्यस्मान्न प- श्यसि ॥ ख ॥ तदितो दत्तदृष्टिर्भव ॥ ग ॥ स एष निषेधेश्वरः कुसुमचापचक्रं विना प्रसादितमहेश्वरः स्मर इवागतो मूर्तिमान् । विलोकय विलोचनामृतसमुद्रमेनं नृपं विधेहि नयनोत्सवं कुरु कृतार्थतामात्मनः ॥ ३६ ॥ त्वमपि विहंगवागुरे, परमरहस्यसखी देव्याः सा हि त्वच्चक्षुषा प- श्यति, त्वत्कर्णाभ्यामाकर्णयति, त्वन्मनसा मनुते ॥ घ ॥ तदिह दमयन्तीमनोरथपान्थपिपासाच्छिदि लावण्यपुण्यह्रदेऽस्मि- न्राजनि निर्वापय चक्षुः' इति किंनरमिथुनमभिमुखीकृत्य नरपतिम- वादीत् ॥ ङ ॥ 'देव, तदेतत्किंनरमिथुनम्, इदं हि द्वितीयमिव हृदयं देव्याः, प्रियं प्राणेभ्योऽपि प्रेम्णा प्राभृतमेतत्प्रहितं तुहिनाचलचक्रवर्तिना देवस्य, देवेन देव्यै दत्तम् । तया च दमयन्त्याः समर्पितं परं पात्रं मन्त्रगी- तेः ॥ च ॥ तथाहि । जातख्याति जातिषु, गीतयशो गीतकेषु, वर्धितमानं व- र्धमानेषु, सारमासारितकेषु, निपुणं पाणिकासु, धाम साम्नाम्, आचा- र्यकमृचाम्, आलयः कलादिभेदानाम्, रसगीतायामपि सुस्वरं स्वरा- स एषेति ॥ एष निषेधेश्वरो नलः कुसुमचापचक्रं विनाभूतो मूर्तिमान् प्रसा- दितमहेश्वरः स्मरः । एतावता पूर्वस्मराद्व्यतिरेकोक्तिः । यतः पूर्वः कुसुमचापचक्रं धत्ते । नच मूर्तिमान् दग्धाङ्गत्वात् । तथा प्रकोपितमहेश्वरः । यदा तु प्रसाधि- तेति पाठः, तदा प्रसाधिता अलंकृता महान्त ईश्वरा बाणादिना येन तादृग् निष्- धेश्वरः । स्मरस्तु साधयितुं वशीकर्तुं प्रारब्धो महेश्वरः शिवो येन । कुसुमान्येव चापचक्रं धनुर्मण्डलम् ॥ ३६ ॥ देवेति ॥ तुहिनाचलस्य हिमाचलस्य चक्रवर्तिना नृपेण प्राभृतं प्रहितमेतत् । भीमायेति शेषः । मन्त्रा गीयन्तेऽस्यामिति मन्त्रगीतिः ॥ च ॥ जातेति ॥ जातयो नन्दयन्तीप्रभृतयः । वर्धमानान्यसारितानि पाणिकाः सामानि ऋचः कलादिभेदा गीतविषया भरतशास्त्राद्गम्याः । मध्यमादयः सप्तस्व- १ 'उपसृत्य'; 'पुरोऽपसृत्य'. २ 'तदेहि'. ३ 'तया च देव्या'. ४ 'सरसं गीत्यामपि'.

षष्ठ उच्छ्वासः । १७९ लापेषु, अवग्राम्यं ग्रामरागेषु, विचित्रभाषं भाषासु, प्रवर्त्तकं नर्त्तनानाम्, कारणं करणमार्गस्य, वाद्येष्वपि प्रवीणं वीणावेणुषु, लब्धपाटवं पट- हेषु, अप्रतिमल्लं झल्लरीषु ॥ क ॥ किंबहुना । कालमिव कलावहुलं सर्वरसानुप्रवेशि लवणमिव । तव नृप सेवां कर्तुं किंनरयुगलं तया प्रहितम् ॥ ३७ ॥ तदेतदात्मपरिग्रहेणानुगृह्यताम्' इत्यभिधाय विश्रान्तवाचि तस्मि- न्स किंनरयुवा किमप्युपसृत्य मृगमदमिलन्मलयजरसोल्लासिलेखाला- ञ्छितललाटपट्टार्पितकरकमलमुकुलं प्रणतिप्रेङ्खितमणिकर्णावतंसया सह प्रियया प्रणाममकरोत् ॥ ख ॥ उक्तवांश्च । 'लब्धार्धचन्द्र ईशः कृतकंसभयं च पौरुषं विष्णोः । ब्रह्मापि नाभिजानः केनोपमिमीमहे नृप भवन्तम् ॥ ३८ ॥ इदं च । अरुणमणिकिरणरञ्जितलिखिताक्षरमङ्गुलीकाभरणम् । तस्याः करकिसलयमिव तव करकमले चिरं लगतु ॥ ३९ ॥ अनया च । राः। षड्जमध्यमगान्धाराख्ययो ग्रामाः । भाषाः षट्त्रिंशत् । कला गीतवाद्याद्या मुहूर्त्तभेदाश्च । करणानि तलपुष्पपुटादीन्यष्टोत्तरशतसंख्यानि ॥ क ॥ कालमिति ॥ कला गीतवाद्याद्या मुहूर्त्तभेदाश्च विदन्त्यधीयते वा कालाः कलाविदः । तेषां समूहः कालम् । तद्यथा । कलाशास्त्रविषये बहुलं तन्निष्ठं भव- ति । तथेदमपि समग्रकलाप्रवीणम् । रसाः शृङ्गाराद्यास्तिक्ताद्याश्च । समयार्थे तु कालशब्दे पुंस्त्वं स्यात् । यदा तु 'काल इव कलाबहुलम्' इति पाठः । तदा का- लः कलाभिर्निमेषोन्मेषाद्यंशरूपाभिर्बहुलो व्यासः । इदं तु कलाभिर्गीतनृत्यादिभि- र्व्याप्तम् । कालोऽवसरः आत्मसमर्पणायावसर इव प्रेषित इति भावः ॥ ३७ ॥ लब्धेति ॥ अर्धं चन्द्रस्य अर्धचन्द्रः शशिकला गलापहस्तनं च । तत्तु निन्दा- भासे । तद्युक्त ईश्वरः । कृतं कंसस्य भयं येन तत्पौरुषं विष्णोः । निन्दाभासे तु कृतकं कृत्रिमम् । सभयं भयान्वितम् । वैष्णवतो नाभेर्जातो ब्रह्मा । निन्दाभासे तु अभिजातः कुलीनः पश्चान्नञ्योगः ॥ ३८ ॥ अरुणेति ॥ अनयाशिषा पाणिग्रहणं सूचितम् । अरुणमणिः पद्मरागादिः । लिखितान्यक्षराणि यस्मिन् । करकिसलयं तरुणम् । तथा मणिकिरणैराभरणरत्न- कान्तिभिः कलितम् । तथा लिखितान्यक्षराणि येन ॥ ३९ ॥

१७८ नलचम्पूः। पुष्कराक्षोऽपि पुरःसृत्य तं किंनरमभाषत ॥ क ॥ 'सुन्दरक, कान्तामुखावलोकनासक्तः समीपमागतानप्यस्मान्न प- श्यसि ॥ ख ॥ तदितो दत्तदृष्टिर्भव ॥ ग ॥ स एष निषधेश्वरः कुसुमचापचक्रं विना प्रसादितमहेश्वरः स्मर इवागतो मूर्त्तिमान् । विलोकय विलोचनामृतसमुद्रमेनं नृपं विधेहि नयनोत्सवं कुरु कृतार्थतामात्मनः ॥ ३६ ॥ त्वमपि विहंगवागुरे, परमरहस्यसखी देव्याः सा हि त्वच्चक्षुषा प- श्यति, त्वत्कर्णाभ्यामाकर्णयति, त्वन्मनसा मनुते ॥ घ ॥ तदिह दमयन्तीमनोरथपान्थपिपासाच्छिदि लावण्यपुण्यह्रदेऽस्मि- न्राजनि निर्वापय चक्षुः' इति किंनरमिथुनमभिमुखीकृत्य नरपतिम- वादीत् ॥ ङ ॥ 'देव, तदेतत्किंनरमिथुनम्, इदं हि द्वितीयमिव हृदयं देव्याः, प्रियं प्राणेभ्योऽपि प्रेम्णा प्राभृतमेतत्प्रहितं तुहिनाचलचक्रवर्तिना देवस्य, देवेन देव्यै दत्तम् । तयो च दमयन्त्याः समर्पितं परं पात्रं मन्त्रगी- तेः ॥ च ॥ तथाहि । जातख्याति जातिषु, गीतयशो गीतकेषु, वर्धितमानं व- र्धमानेषु, सारमासारितकेषु, निपुणं पाणिकासु, धाम साम्नाम्, आचा- र्यकमृचाम्, आलयः कलादिभेदानाम्, रसगीत्यामपि सुस्वरं स्वरा- स एषेति ॥ एष निषधेश्वरो नलः कुसुमचापचक्रं विनाभूतो मूर्त्तिमान् प्रसा- दितमहेश्वरः स्मरः । एतावता पूर्वस्मराद्व्यतिरेकोक्तिः । यतः पूर्वः कुसुमचापचक्रं धत्ते । नच मूर्त्तिमान् दग्धाङ्गत्वात् । तथा प्रकोपितमहेश्वरः । यदा तु प्रसाधि- तेति पाठः, तदा प्रसाधिता अलंकृता महान्त ईश्वराश्चाणादिना येन तादृग् निष्- धेश्वरः । स्मरस्तु साधयितुं वशीकर्तुं प्रारब्धो महेश्वरः शिवो येन । कुसुमान्येव चापचक्रं धनुर्मण्डलम् ॥ ३६ ॥ देवेति ॥ तुहिनाचलस्य हिमाचलस्य चक्रवर्तिना नृपेण प्राभृतं प्रहितमेतत् । भीमायेति शेषः । मन्त्रा गीयन्तेऽस्यामिति मन्त्रगीतिः ॥ च ॥ जातेति ॥ जातयो नन्दयन्तीप्रभृतयः । वर्धमानान्यासारीतकानि पाणिकाः सामानि ऋचः कलादिभेदा गीतविषया भरतशास्त्राद्गम्याः । मध्यमादयः सप्तस्व- १ 'उपसृत्य'; 'पुरोऽपसृत्य'. २ 'तदेहि'. ३ 'तया च देव्या'. ४ 'सरसं गीत्यामपि'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

तेन च संवलितानि विजृम्भितुमारभन्त जम्भनिसुम्भनककुभि वि- पिनंजरत्कृकवाकुकंधरारोमरोचींषि तमांसि ॥ क ॥ ततश्च नष्टचर्याक्रीडयेवादर्शनमायान्तीषु दिक्कन्यकासु, वनमुनि- होमधूमगन्धेन संतर्प्यमाणासु वनदेवतासु, निद्रान्धसिन्धुरयूथेष्विवो- न्नातवप्रस्थलीषु परिणमत्सु शनैस्तिमिरेषु, जाते मनागभिन्नाञ्जनपत्र- स्तवकिते निशामुखे, नरपतिस्तेन किन्नरमिथुनेन सार्धमर्धपथायातप्र- ज्वलितदीपिकापाणिपरिजनपरिकरितः शरणागतकपोतमुत्पतितोलूक- कृतशब्दं शिविमिव शिविरसंनिवेशमविशत् ॥ ख ॥ तत्र च क्रमेण कृतकरणीयस्त्वरमाणपाचकवृन्दोपनीतमुत्पतत्पाक- परिमलस्पृहणीयमत्युष्णमेदुरमांसोपदेशमाज्यप्राज्यमुपभुज्य पुष्करा- क्षकिन्नरमिथुनाग्रजनैः सह मधुररससारमाहारम्, अनन्तरमाचान्तः शुचिचन्दनोद्वर्त्तितकरः कर्पूरपारीपरिकरितताम्बूलोज्ज्वलवदनारविन्दः 'सुन्दरक, कमपि प्रस्तारय विद्याविनोदं त्वयापि विहंगवागुरिके, गीयतां किमपि मधुरम्' इति मृदुमणिपर्यङ्किकासुखासीनः किन्नरमि- थुनमादिदेश ॥ ग ॥ दर्शिते च वांशिकेन वंशमुखोत्तीर्णगान्धारपञ्चमरागस्थानके स्थिरीकृ- तमध्यमश्रुतिप्रसन्नप्रेङ्खोलनाप्रयोगमुचितस्थानकृतकांस्यतालमकठो- रतारस्वरम्, आकर्षन्निव हृदयम्, अभिषिञ्चन्दिवामृतेन श्रवणेन्द्रियम्, अस्तं नयन्दिवान्यविषयसंधानम्, अनुच्चप्रपञ्चितपञ्चमं विपञ्चीस्वर- संदर्भिंतमभूत्तत्किमपि गीतम् ॥ घ ॥ यत्र प्रसरति रणरणकरसः कुण्ठयति हठेन चित्तमुत्कण्ठा । स्मरति स्मरोऽपि धनुषः प्रगुणीकृतनिशितवाणस्य ॥ ४३ ॥ एवंविधे च व्यतिकरे वैतालिकः पपाठ ॥ तेन चेति ॥ जम्भनिसुम्भन इन्द्रः ॥ क ॥ ततश्चेति ॥ नष्टचर्या शिशुक्क्रीडाविशेषः । निद्रान्ध्येत्यादौ परिणामः परिपाक- स्तिर्यक्प्रहारदानं वा । निशासु हि कपोताः पारावताः शरणं नीडमागच्छन्ति, उलूकाश्च घूका उड्डीयन्ते । उपमाने तु 'नारदकृतां शिविप्रशंसामसूयन्तौ कपोतो- लूकरूपधारिणौ सुरौ सत्त्वं जिज्ञासमानौ शिविनुपमागतौ' इत्यागमः ॥ ख ॥ तत्र चेति ॥ कर्पूरस्य पारी शकलम् ॥ ग ॥ १ 'विपिनेति नास्ति'. २ 'पाचिकावृन्दारिकोप'. ३ 'दि'. ४ 'माहारमकरोद- नन्तरं'; 'माहारमाहारयांचकार'. ५ 'संवेदनं'.

१८० नलचम्पूः । तव सुभग रम्यदशया तयैव रक्तान्तनेत्रमण्डनया । चीनांशुकयुगलिकया क्रियतामङ्गे परिष्वङ्गः ॥ ४० ॥ अयं च । उज्ज्वलसुवर्णपदकस्तस्याः संदेशकथनदूत इव । रुचिरमणिकर्णपूरः श्रयतु श्रवणान्तिकं भवतः ॥ ४१ ॥ किंचान्यत् । आनन्ददायिनस्ते कुण्डिननगरे कदा भविष्यन्ति । त्वन्मुखकमलविलोलनागरिकानयनषट्पदा दिवसाः ॥ ४२ ॥ एवमाविर्भावितप्रश्रयमुज्ज्वलितानुरागमुँ¹दीरितादरमो²प्यायितप्रणय- मभिधाय स्थितवति किंनरे, नरेश्वरो दमयन्तीप्रहितप्राभृतानि स्वयमा- दरेण गृहीत्वा, 'सुन्दरक, तस्याः संदेश एवास्माकं कर्णपूरः, परिकरोऽयं मणिकर्णावतंसः । तस्याः सुगृहीतेन नाम्नैव वयं मुद्रिताः प्रपञ्चोऽय- मङ्गुलिमुद्रालंकारः । तदनुरागेणैव वयमाच्छादिताः पुनरुक्तमाच्छाद- नयुगलमपरं च युवां प्रेषयन्त्या तया किं न प्रहितमस्माकम्, किम- न्यत्त्वत्तोऽपि प्रियं प्राभृतं भविष्यतीति । तदेहि शिविरमनुसरामः' इत्यभिधाय बहु मानयं³न्किंनरमिथुनमतिचपलकपि⁴कुलान्दोलिततरुशि- खराग्रगलित⁵शिलास्फालनस्फुटत्फलरससुगन्धिना स्रवत्कुसुममकरन्द- द्रवार्द्रितपांसुपटलेन वर्त्मना निजावासमुदचलत् ॥ क ॥ उच्छलिते च पश्चिमाम्भोनिधिसलिलक्षालितपादपल्लवे वासार्थिनी- वास्तगिरिगह्वरं विशति वियद्वीथीपान्थे विवस्वति, क्रमेण तस्यां दिशि दिनकररथचक्रचङ्क्रमणचूर्णनोच्चलन्मन्दरगिरिगैरिकाधूलिपटलोल्लोल इवोह्लास संध्यारागः ॥ ख ॥ तवेति ॥ दशा वस्त्रान्तसूत्रमवस्था च । नेत्रं चित्रवस्त्रविशेषोऽक्षि च ॥४०॥ उज्ज्वलेति ॥ उज्ज्वलं सुवर्णं पदं यस्य । पक्षे उज्ज्वलान्यग्राम्याणि शोभ- नवर्णानि पदानि वचनानि यत्र ॥ ४१ ॥ एवमिति ॥ कर्णपूरोऽवतंसः कर्णयोः पूरणं च । मुद्रिता अपरस्त्रीनाम्नो दु- ष्करप्रवेशा कृता ॥ क ॥ उच्छलित इति ॥ पान्थो हि सलिलेन चरणौ प्रक्षाल्य वासागारं प्रविश- ति ॥ ख ॥ १ 'मुद्दीपितादर'. २ 'आप्यायितप्राण'. ३ 'मानयंश्च तत्किं'. ४ 'करा'. ५ 'गलि- ततलशिला'.