नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 191, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १७१ कदा किल भविष्यन्ति कुण्डिनोद्यानभूमयः । उत्फुल्लस्थलपद्माभभवच्चरणभूषिताः ॥ २१ ॥' इति लेखलिखितप्रणयसुभाषितामृतरसप्लवेनाप्लावितहृदयः, 'विधे, विधेहि मे पक्षिण इव पक्षयुगलमुड्डीय येन तां पश्यामि' इति चिन्त- यन्नरंपतिः पुरतः स्थितं तं प्रियावार्तिकमाश्लिष्यन्निवोद्गतर रोमाञ्चनिच- येन, पिवन्निवाभिलाषतृषितया दृशा, स्नपयन्निव मधुरस्मितामृतर- सेन, पुनः पुनः सादरमभाषत ॥ क ॥ 'पुष्कराक्ष, सा सर्वथा विजयते राजपुत्री । यस्याः प्रसन्नमुदारस- त्कान्तिश्लिष्टं सुकुमारमनेकालंकारभाजनं वयो वचनं च, सप्रश्रयः प्रगल्भो विवेकवान्विदग्धबुद्धिर्भवद्विधः परिजनश्च ॥ ख ॥ तत्कथय 'कथनीयकीर्तिः क्वास्ते कथमास्ते कं विनोदमनुतिष्ठति केन व्यापारेण परिणामयति वासरं वाऽसौ भवत्स्वामिसुता' इत्येवमुक्तः स पुनः पल्लवयन्ननुरागकन्दलं नलमलपत् ॥ ग ॥ 'त्वद्देशागतवायसाय ददती दध्योदनं पिण्डितं त्वन्नाम्नः सदृशे दृशं निदधती वन्येऽपि मुग्धा नले । त्वत्संदेशकथार्थिनी मृगयते तान्राजहंसान्पुनः क्रीडोद्यानतरङ्गिणीतरुतलच्छायासु वापीषु च ॥ २२ ॥ अपिच । सांप्रतं तया त्वद्देशागतमारुतेन मृदुना संजांतरोमाञ्चया त्वद्रूपाञ्चितचारुचित्रफलके निर्वापयन्त्या दृशम् । त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने नीचैः पञ्चमगीतिगर्भितगिरा नक्तंदिनं स्थीयते ॥ २३ ॥' पुष्करेति ॥ प्रसन्नं निर्मलम् । उदारं रम्यम् । सत्कान्ति तेजस्वि । श्लिष्टं सुघटि- तसर्वावयवम् । कुमारं मृदु । अनेकालंकारभाजनं बहुभूषणपात्रम् । वयःशब्देन तदाधारभूतं शरीरमुच्यते । पक्षे प्रसन्नं झटित्यर्थप्रतीतिकृत् । महार्थमुदारम् । औज्ज्वल्यं कान्तिः । मसृणत्वं श्लेषः । अजरठं सुकुमारम् । अनुप्रासोपमादयोऽलं- काराः ॥ ख ॥ त्वद्देशेति ॥ तव नामापि दुर्लभं ततोऽस्य सदृशे समुचिते । 'नाम्ना त्वत्स- दृशे' इत्यायः पाठः । सतु स्पष्ट एव ॥ २२ ॥ त्वद्देशागतेति ॥ नीचैरिति निभृतम् । प्रच्छन्नरागत्वात् ॥ २३ ॥ १ 'नरपतिरग्रतः'. २ 'मुदारकान्ति'. ३ 'पुत्री'.