नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 192, कुल 258 में से
संदर्भ में पढ़ें१७२ नलचम्पूः । एवमेनुगुणमनुरागस्य, सदृशं शृङ्गारस्य, सहोदरमादरस्य, प्रियं प्रेमप्रपञ्चस्य, प्रोत्साहनमनङ्गस्य, अनुकूलमुत्कण्ठायाः, समुचितम- भिनिवेशस्य, कौतुकजननं जल्पति पुष्कराक्षे, श्रवणकुतूहलिनि वि- स्मृतान्यव्यापारे तन्मयतामिवानुभवति भूभुजि, जरठीभवत्सु पूर्वा- ह्णवेलालवेषु, गगनमध्यासन्नवर्तिनि व्रजति तीव्रतां ब्रध्नमण्डले, स्व- लयति पथि पथिकानसह्योर्मिणि घर्मजले, जलाशयाननुसरत्सु पि- पासाकूततरलिततारकेषु श्वासिषु श्वापदेषु, पङ्किलकूलकर्दमविमर्दौद्य- तेषु सरित्परिसरवनविहारिकरिवराहमहिषमण्डलेषु, विटपिकोटरकु- टीरनीडनिलयनितीयमानेषु संपुटितपक्षेषु पक्षिषु, कूलकुलायकोणकू- णितकोकूयमानकुकुहेषु गिरिसरित्सुरङ्गाङ्गणेपु, रङ्गतकुरङ्गचर्वितखर्व- दूर्वानलनीलनिम्रशाद्वलस्थलस्थितये हिण्डमानासु कारण्डवशिखण्डिम- ण्डलीषु, शिशिरनिवासवाञ्छया कूजत्सु करञ्जनिकुञ्जोपजितकपिञ्ज- लकपोतपोतकेषु, वहति मनाङ्म्लानकोमलकुसुमकोशकोष्णामेन्दम- करन्दबिन्दूद्गारिणि तापीतीरतरङ्गस्पर्शसेव्ये मध्याह्नमरुति, श्रमवश- विलोलमीलन्नयननीलोत्पलासु बहलतरुतलच्छायामाश्रयन्तीषु सीद्- त्सैनिकनितम्बिनीषु प्रस्तावपाठकः पपाठ ॥ क ॥ 'विचित्राः पत्रालोर्दलयति गलत्स्वेदसलिलै- रमन्दं मृद्नाति प्रमदकरिकुम्भस्तनतटीः । प्रबन्धेनाक्रामन्जनजघनजङ्घोरुयुगलं श्रमः सेनाङ्गेषु प्रसरति शनैः कामुक इव ॥ २४ ॥ अपि च । एवमिति ॥ एवं ब्रघ्नमण्डलादिग्विदृशेषु सत्सु प्रस्तावपाठकः पपाठ । पिपा- साया आकूतेनाभिप्रायेण तरलिता तारा कनीनिका यैः । श्वासान्वितश्वापदैः । गिरिसरितां सुरङ्गाः संधयस्तदङ्गणेपु ॥ क ॥ विचित्रा इति ॥ अनेकविधाः पत्रालोर्वाहनश्रेणीर्विलेपनपञ्चवल्लीश्च दलयति । तथा मत्तकरिकुम्भानेव स्तनतटीरमन्दं खेदयति । प्रबन्धेन सातत्येन प्रकृष्टबन्ध- नेन च । करणविशेषेण । प्रयाणारूढत्वात्कंदर्पभावाच्च । जघनं च जङ्घे चोरुयुगलं च प्राण्यङ्गत्वात्समाहारः । ततः कर्मधारयः । तदाक्रामन्कामीव श्रमः सेनाया अङ्गेषु हस्त्यश्वादिषु प्रसरति ॥ २४ ॥ १ 'मुक्त'. २ 'कौतूहलिनि'. ३ 'असह्योष्मणि'. ४ 'जले'. ५ 'श्वसु'; 'श्वासिश्वाप- देपु'. ६ 'कूलप्रौढकर्दम'. ७ 'समङ्गाङ्गणे'; 'तरङ्गाङ्गणे'. ८ 'खर्वेति नास्ति'. ९ 'अमन्देति नास्ति'. १० 'प्रमदेन'