भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 190, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 190

१७० नलचम्पूः । स्थित्वा त्वदागमनमार्गमुखे गवाक्षे वार्ताविशेषमधिगन्तुमिहायताक्ष्या । संप्रेषितो निषधनाथ तयास्मि यस्याः क्रीडागिरिस्त्वमसि मुग्धमनोमृगस्य ॥ १८ ॥ एष्यति च श्वस्तनेऽहनि मार्गश्रमक्लान्तमितो नातिदूर इवोत्तुङ्गस- रलसालसर्जार्जुननिचुलनिचयान्तरचलद्दुलचकोरमयूरहारीतहंसकु- लकोलाहलिनि पयोष्णीपुलिनपरिसरे स्थितं तया प्रहितमात्रं क्रीडा- किंनरमिथुनम् ॥ क ॥ 'इयं च वाच्यतां तया स्वहस्तकिसलयलिखिताक्षरगर्भा भूर्जपत्रि- का' इत्यभिधाय पुरोऽस्य लेखपत्रिकां व्यसृजत् ॥ ख ॥ राजापि पार्श्वपरिजनेनोत्क्षिप्यार्पितां तामतिबहुलपुलकाङ्कुरकण्ट- कितप्रकोष्ठकाण्डेन पाणिना स्वयमुन्मुच्य सादरमवाचयत् ॥ ग ॥ 'नलोऽपि मां प्रत्यनलोऽसि यत्त- द्भवादृशां नैषध नैष धर्मः । तथाबलानां बलवद्ग्रहीतुं न मानसं मानसमुद्रयुक्तम् ॥ १९ ॥ अपि च । निपतति किल दुर्बलेषु दैवं तद्वितथं ननु येन कारणेन । बलवति न यथा तथाबलानां प्रभवति कृष्टशरासनो मनोभूः ॥ २० ॥ अपि च ।

स्थित्वेति ॥ गवाक्षे स्थित्वा तया आयताक्ष्या दीर्घदृशा वार्तान्तरं ज्ञातुमिह
प्रेषितोऽहम् । यस्या मुग्धमनोमृगस्य त्वं क्रीडागिरिः मृगो हि गिरौ मनस्त्वयि
रमते ॥ १८ ॥
नल इति ॥ नैषध इत्यभिजनान्तामन्त्रणेन कुलीनत्वोल्लिखनम् । मानसमुद्रे-
ल्यनेन च सबलानामेव पराजयो नावलानाम् । मां प्रति त्वं नलाख्योऽपि सन्ननलो
वह्निरुत्कण्ठाजनकत्वेन संतापक इत्यर्थः । न नलोऽनल इति विरोधः । परिहा-
रस्तु प्रागेव व्याख्यातः । न चैष भवादृशां धर्मो यस्मादहमबला तस्मात्तवाव-
लानां दुर्बलानां मानसं चेतो ग्रहीतुं न युक्तम् । बलवदिति क्रियाविशेषणं हठादि-
त्यर्थेऽव्ययम् ॥ १९ ॥
निपततीति ॥ अबलाः स्त्रियोऽशक्ताश्च ॥ २० ॥