नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 189, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १६९ धिरूढानुच्चवधूत्क्षिप्तमृदुमृणालवलयान्कूजतः कलहंसानक्षसूत्रिणः प्रवर्तितब्रह्मयज्ञोद्गारमुखरमुखांस्तीरतापसानिव दिवमारोपयितुमुद्वह- न्ती सरित्, तरुणतरुतलमलंकुर्वाणः प्रसन्नसरस्वतीकः कश्च भवान्' इति सप्रणयमपृच्छत् ॥ क ॥ सोऽपि । 'सभ्रमरया कूलकीचकवेणुलतया सदृशी नावातरण- योग्या किमियमप्रसिद्धा महानदी देवस्य' इत्यभिधाय कथयितुमार- ब्धवान् ॥ ख ॥ 'भानोः सुता संवरणस्य भार्या तापी सरित्सेयमघस्य हन्त्री । यस्याः कुरुः सूनुरभूत्स यस्य नाम्ना कुरुक्षेत्रमुदाहरन्ति ॥ १५ ॥ एतस्याः सलिलावगाहसमये कुर्वन्ति नित्यं नृणां नीरन्ध्रोन्नतकर्कशस्तनतटीसंघट्टपिष्टोर्मयः । भ्राम्यद्भङ्गिनिभालकैः क्षणमिव व्यालोलनेत्रैर्मुखै- रुत्फुल्लोत्पलगर्भपङ्कजवनभ्रान्तिं महाराष्ट्रियाः ॥ १६ ॥ अपिच । यद्येतस्याः सकृदपि मरुन्नर्तिताम्भोजराजि- प्रेङ्खत्पत्रव्यजनविधुतं वारि नीहारहारि । रोधोभाजां पिवति कुसुमैर्वासितं पादपानां पीयूषाय स्पृहयति ततः किं क्वचिन्नाकलोकः ॥ १७ ॥ मामपि पुष्कराक्षनामानं वार्तिकमवगच्छतु देवः ॥ ग ॥ तथाहि ।
हंसानां तापसा उपमानम् । ब्रह्मयज्ञो वेदाध्ययनम् ॥ क ॥ सोऽपीति ॥ किमियं सरिद्देवस्य न विदिता, यासौ नावा वेडया तरण- योग्या । शब्दायमानकीचकवंशवह्लया । सभ्रमरया सन्दृष्ट्या । सदृशी । वंशवह्लयपि अवाते वाताभावे रणंस्य शब्दस्य योग्या न भवति । सरिदपि सभ्रमः सावर्ती रयो जवो यस्या इति सभ्रमरया ॥ ख ॥ भानोरिति ॥ संवरणः क्षत्रियविशेषः ॥ १५ ॥ एतस्या इति ॥ उत्फुल्लोत्पलानि गर्भे मध्ये यस्य पङ्कजवनस्य । महाराष्ट्रियाः स्त्रियः ॥ १६ ॥ मामिति ॥ वार्तायां नियुक्तो वार्तिकः ॥ ग ॥
१ 'उत्कूजतः'.