नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 200, कुल 258 में से
संदर्भ में पढ़ें१७८ नलचम्पूः। पुष्कराक्षोऽपि पुरःसृत्य तं किंनरमभाषत ॥ क ॥ 'सुन्दरक, कान्तामुखावलोकनासक्तः समीपमागतानप्यस्मान्न प- श्यसि ॥ ख ॥ तदितो दत्तदृष्टिर्भव ॥ ग ॥ स एष निषधेश्वरः कुसुमचापचक्रं विना प्रसादितमहेश्वरः स्मर इवागतो मूर्त्तिमान् । विलोकय विलोचनामृतसमुद्रमेनं नृपं विधेहि नयनोत्सवं कुरु कृतार्थतामात्मनः ॥ ३६ ॥ त्वमपि विहंगवागुरे, परमरहस्यसखी देव्याः सा हि त्वच्चक्षुषा प- श्यति, त्वत्कर्णाभ्यामाकर्णयति, त्वन्मनसा मनुते ॥ घ ॥ तदिह दमयन्तीमनोरथपान्थपिपासाच्छिदि लावण्यपुण्यह्रदेऽस्मि- न्राजनि निर्वापय चक्षुः' इति किंनरमिथुनमभिमुखीकृत्य नरपतिम- वादीत् ॥ ङ ॥ 'देव, तदेतत्किंनरमिथुनम्, इदं हि द्वितीयमिव हृदयं देव्याः, प्रियं प्राणेभ्योऽपि प्रेम्णा प्राभृतमेतत्प्रहितं तुहिनाचलचक्रवर्तिना देवस्य, देवेन देव्यै दत्तम् । तयो च दमयन्त्याः समर्पितं परं पात्रं मन्त्रगी- तेः ॥ च ॥ तथाहि । जातख्याति जातिषु, गीतयशो गीतकेषु, वर्धितमानं व- र्धमानेषु, सारमासारितकेषु, निपुणं पाणिकासु, धाम साम्नाम्, आचा- र्यकमृचाम्, आलयः कलादिभेदानाम्, रसगीत्यामपि सुस्वरं स्वरा- स एषेति ॥ एष निषधेश्वरो नलः कुसुमचापचक्रं विनाभूतो मूर्त्तिमान् प्रसा- दितमहेश्वरः स्मरः । एतावता पूर्वस्मराद्व्यतिरेकोक्तिः । यतः पूर्वः कुसुमचापचक्रं धत्ते । नच मूर्त्तिमान् दग्धाङ्गत्वात् । तथा प्रकोपितमहेश्वरः । यदा तु प्रसाधि- तेति पाठः, तदा प्रसाधिता अलंकृता महान्त ईश्वराश्चाणादिना येन तादृग् निष्- धेश्वरः । स्मरस्तु साधयितुं वशीकर्तुं प्रारब्धो महेश्वरः शिवो येन । कुसुमान्येव चापचक्रं धनुर्मण्डलम् ॥ ३६ ॥ देवेति ॥ तुहिनाचलस्य हिमाचलस्य चक्रवर्तिना नृपेण प्राभृतं प्रहितमेतत् । भीमायेति शेषः । मन्त्रा गीयन्तेऽस्यामिति मन्त्रगीतिः ॥ च ॥ जातेति ॥ जातयो नन्दयन्तीप्रभृतयः । वर्धमानान्यासारीतकानि पाणिकाः सामानि ऋचः कलादिभेदा गीतविषया भरतशास्त्राद्गम्याः । मध्यमादयः सप्तस्व- १ 'उपसृत्य'; 'पुरोऽपसृत्य'. २ 'तदेहि'. ३ 'तया च देव्या'. ४ 'सरसं गीत्यामपि'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA