नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 201, कुल 258 में से
संदर्भ में पढ़ेंतेन च संवलितानि विजृम्भितुमारभन्त जम्भनिसुम्भनककुभि वि- पिनंजरत्कृकवाकुकंधरारोमरोचींषि तमांसि ॥ क ॥ ततश्च नष्टचर्याक्रीडयेवादर्शनमायान्तीषु दिक्कन्यकासु, वनमुनि- होमधूमगन्धेन संतर्प्यमाणासु वनदेवतासु, निद्रान्धसिन्धुरयूथेष्विवो- न्नातवप्रस्थलीषु परिणमत्सु शनैस्तिमिरेषु, जाते मनागभिन्नाञ्जनपत्र- स्तवकिते निशामुखे, नरपतिस्तेन किन्नरमिथुनेन सार्धमर्धपथायातप्र- ज्वलितदीपिकापाणिपरिजनपरिकरितः शरणागतकपोतमुत्पतितोलूक- कृतशब्दं शिविमिव शिविरसंनिवेशमविशत् ॥ ख ॥ तत्र च क्रमेण कृतकरणीयस्त्वरमाणपाचकवृन्दोपनीतमुत्पतत्पाक- परिमलस्पृहणीयमत्युष्णमेदुरमांसोपदेशमाज्यप्राज्यमुपभुज्य पुष्करा- क्षकिन्नरमिथुनाग्रजनैः सह मधुररससारमाहारम्, अनन्तरमाचान्तः शुचिचन्दनोद्वर्त्तितकरः कर्पूरपारीपरिकरितताम्बूलोज्ज्वलवदनारविन्दः 'सुन्दरक, कमपि प्रस्तारय विद्याविनोदं त्वयापि विहंगवागुरिके, गीयतां किमपि मधुरम्' इति मृदुमणिपर्यङ्किकासुखासीनः किन्नरमि- थुनमादिदेश ॥ ग ॥ दर्शिते च वांशिकेन वंशमुखोत्तीर्णगान्धारपञ्चमरागस्थानके स्थिरीकृ- तमध्यमश्रुतिप्रसन्नप्रेङ्खोलनाप्रयोगमुचितस्थानकृतकांस्यतालमकठो- रतारस्वरम्, आकर्षन्निव हृदयम्, अभिषिञ्चन्दिवामृतेन श्रवणेन्द्रियम्, अस्तं नयन्दिवान्यविषयसंधानम्, अनुच्चप्रपञ्चितपञ्चमं विपञ्चीस्वर- संदर्भिंतमभूत्तत्किमपि गीतम् ॥ घ ॥ यत्र प्रसरति रणरणकरसः कुण्ठयति हठेन चित्तमुत्कण्ठा । स्मरति स्मरोऽपि धनुषः प्रगुणीकृतनिशितवाणस्य ॥ ४३ ॥ एवंविधे च व्यतिकरे वैतालिकः पपाठ ॥ तेन चेति ॥ जम्भनिसुम्भन इन्द्रः ॥ क ॥ ततश्चेति ॥ नष्टचर्या शिशुक्क्रीडाविशेषः । निद्रान्ध्येत्यादौ परिणामः परिपाक- स्तिर्यक्प्रहारदानं वा । निशासु हि कपोताः पारावताः शरणं नीडमागच्छन्ति, उलूकाश्च घूका उड्डीयन्ते । उपमाने तु 'नारदकृतां शिविप्रशंसामसूयन्तौ कपोतो- लूकरूपधारिणौ सुरौ सत्त्वं जिज्ञासमानौ शिविनुपमागतौ' इत्यागमः ॥ ख ॥ तत्र चेति ॥ कर्पूरस्य पारी शकलम् ॥ ग ॥ १ 'विपिनेति नास्ति'. २ 'पाचिकावृन्दारिकोप'. ३ 'दि'. ४ 'माहारमकरोद- नन्तरं'; 'माहारमाहारयांचकार'. ५ 'संवेदनं'.