नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 199, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १७९ लापेषु, अवग्राम्यं ग्रामरागेषु, विचित्रभाषं भाषासु, प्रवर्त्तकं नर्त्तनानाम्, कारणं करणमार्गस्य, वाद्येष्वपि प्रवीणं वीणावेणुषु, लब्धपाटवं पट- हेषु, अप्रतिमल्लं झल्लरीषु ॥ क ॥ किंबहुना । कालमिव कलावहुलं सर्वरसानुप्रवेशि लवणमिव । तव नृप सेवां कर्तुं किंनरयुगलं तया प्रहितम् ॥ ३७ ॥ तदेतदात्मपरिग्रहेणानुगृह्यताम्' इत्यभिधाय विश्रान्तवाचि तस्मि- न्स किंनरयुवा किमप्युपसृत्य मृगमदमिलन्मलयजरसोल्लासिलेखाला- ञ्छितललाटपट्टार्पितकरकमलमुकुलं प्रणतिप्रेङ्खितमणिकर्णावतंसया सह प्रियया प्रणाममकरोत् ॥ ख ॥ उक्तवांश्च । 'लब्धार्धचन्द्र ईशः कृतकंसभयं च पौरुषं विष्णोः । ब्रह्मापि नाभिजानः केनोपमिमीमहे नृप भवन्तम् ॥ ३८ ॥ इदं च । अरुणमणिकिरणरञ्जितलिखिताक्षरमङ्गुलीकाभरणम् । तस्याः करकिसलयमिव तव करकमले चिरं लगतु ॥ ३९ ॥ अनया च । राः। षड्जमध्यमगान्धाराख्ययो ग्रामाः । भाषाः षट्त्रिंशत् । कला गीतवाद्याद्या मुहूर्त्तभेदाश्च । करणानि तलपुष्पपुटादीन्यष्टोत्तरशतसंख्यानि ॥ क ॥ कालमिति ॥ कला गीतवाद्याद्या मुहूर्त्तभेदाश्च विदन्त्यधीयते वा कालाः कलाविदः । तेषां समूहः कालम् । तद्यथा । कलाशास्त्रविषये बहुलं तन्निष्ठं भव- ति । तथेदमपि समग्रकलाप्रवीणम् । रसाः शृङ्गाराद्यास्तिक्ताद्याश्च । समयार्थे तु कालशब्दे पुंस्त्वं स्यात् । यदा तु 'काल इव कलाबहुलम्' इति पाठः । तदा का- लः कलाभिर्निमेषोन्मेषाद्यंशरूपाभिर्बहुलो व्यासः । इदं तु कलाभिर्गीतनृत्यादिभि- र्व्याप्तम् । कालोऽवसरः आत्मसमर्पणायावसर इव प्रेषित इति भावः ॥ ३७ ॥ लब्धेति ॥ अर्धं चन्द्रस्य अर्धचन्द्रः शशिकला गलापहस्तनं च । तत्तु निन्दा- भासे । तद्युक्त ईश्वरः । कृतं कंसस्य भयं येन तत्पौरुषं विष्णोः । निन्दाभासे तु कृतकं कृत्रिमम् । सभयं भयान्वितम् । वैष्णवतो नाभेर्जातो ब्रह्मा । निन्दाभासे तु अभिजातः कुलीनः पश्चान्नञ्योगः ॥ ३८ ॥ अरुणेति ॥ अनयाशिषा पाणिग्रहणं सूचितम् । अरुणमणिः पद्मरागादिः । लिखितान्यक्षराणि यस्मिन् । करकिसलयं तरुणम् । तथा मणिकिरणैराभरणरत्न- कान्तिभिः कलितम् । तथा लिखितान्यक्षराणि येन ॥ ३९ ॥