नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 20, कुल 258 में से
संदर्भ में पढ़ें६ नलचम्पूः । इत्थं काव्यकथाकथानकरसैरेषां कवीनाममी विद्वांसः परिपूर्णकर्णहृदयाः कुम्भाः पयोभिर्यथा । वाचो वाच्यविवेकविप्लवधियामीदृग्विधां मादृशां लप्स्यन्ते क्व किलावकाशमथवा सर्वसहाः सूरयः ॥ १५ ॥ वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः । नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ १६ ॥ काव्यस्याम्रफलस्येव कोमलस्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ १७ ॥ अस्ति समस्तमुनिमनुजवृन्दवृन्दारकवन्दनीयपादारविन्दस्य भगव- तो विधेर्विश्वव्यापिन्यापारपारवश्यादवतीर्णस्य संसारचक्रे क्रतुक्रिया- काण्डशौण्डस्य शाण्डिल्यनाम्नो महर्षेर्वंशः ॥ क ॥ श्रूयन्ते च यत्र श्रवणोचिताश्चन्दनपल्लवा इव केचिदनूचानाः शुचयः सत्यवाचो विरञ्चिवर्चसोऽर्चनीयाचारा ब्रह्मविदो ब्राह्मणाः । पुण्यज- नाश्च न च ये लङ्कापुरुषाः, सूसूत्राश्च न च ये लम्पटाः, प्रसिद्धाश्च न- च ये लम्पाकाः, कामवर्षाश्च न च ये लङ्घनाः सन्मार्गस्य, नववयसो- इत्थं कविवर्णनं संक्षिपन्नाह—इत्थमिति ॥ तर्हि कथाग्रथनप्रयत्नेन किमि- त्याह—अथवेति ॥ १५ ॥ भङ्गश्लेषमुक्तिविशेषेण संवृण्वन्नाह—वाच इति ॥ यतो हेतोः कवेः काव्य- कर्तुर्नेको रसो नैका रुचिः प्रसत्तिलक्षणा व्युत्पत्तिलक्षणाप्यस्ति ॥ १६ ॥ ननु प्रसत्तिमार्गेण कोमलमेव काव्यं निबध्यताम्, किमितरेण व्युत्पत्तिमार्गेण भङ्गश्लेषकृतकाठिन्येनोद्वेगहेतुनेत्यत आह—काव्यस्येति ॥ कोमलस्य प्रसन्नस्ये- तरस्य व्युत्पन्नस्य काव्यस्य रचनाचारुत्वेन रसोऽपि शृङ्गारादिरसोऽप्यन्यादृशोऽन्य- रूपो व्युत्पत्तिचर्चया सोत्कर्ष इव स्यात् । कस्येव । आम्रफलस्येव । यथाम्रफलस्या- कारवैसादृश्यं बन्धस्य वृन्तस्य नीलपीतादिच्छायायाश्च विशेषेण यावद्रसः स- खादोऽप्यन्यादृग्भवति । बध्यतेऽनेनेति कृत्वा बन्धो वृन्तं फलारम्भकरसकणि- कारूपो वा । काव्यपक्षे बन्धो रचना ॥ १७ ॥ क ॥ श्रूयन्त इति ॥ यत्र महर्षेर्वंश ईदृशा ब्राह्मणाः श्रूयन्त इत्यन्वयः । कीदृशाः । श्रवण आकर्णन उचिता योग्याः । पुण्यरूपत्वात् । चन्दनपल्लवास्तु श्रवणयोः कर्णयोरवतंसीकरणाय योग्याः । पुण्यजना यातुधाना लङ्कावासिनो नेति विरोधः । पुण्याः पवित्रा जना लोका अलमर्थे न कापुरुषा इति विरोधपरिहारेण ब्राह्मणाः प्रशस्यन्ते । एवमग्रेऽपि । तथा सूत्रेण तन्तुना सहिता अप्यत्यन्तं पटाभाववन्तः । १ 'फलस्यापि'. २ 'च श्रवणोचिताः'. ३ 'इव तत्र केचित्'. ४ 'सूरयः'. ५ 'सत्यवाचिनः'. ६ 'सुसूत्राश्च'.