नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 21, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । ७ ऽपि नच ये लम्बालकाः, महाभारतिकाश्च नच ये रङ्गोपजीविनः, सेविताप्परसोऽपि नच ये रम्भयान्विताः ॥ ख ॥ किं बहुना । जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम्¹ । वेत्ति विश्वंभरा भारं गिरीणां गरिमाश्रयम् ॥ १८ ॥ तेषां वंशे विशदयशसां² श्रीधरस्यात्मजोऽभू- र्देवा³दित्यः स्वम⁴तिविकसद्वेदविद्याविवेकः । उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धुं यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति ॥ १९ ॥ तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् । तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ॥ २० ॥ सोऽहं हंसायितुं मोहाद्वकः पङ्गुर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविबृन्दारकायितुम् ॥ २१ ॥ भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । दुर्गस्तरीतुमारब्धो बाहुभ्यामम्भसां पतिः⁵ ॥ २२ ॥ उत्फुल्लगल्लैरालापाः⁶ क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम्⁷ ॥ २३ ॥ सूत्रेणोपवीतेन वेदपाठेन वा युक्ता अपि न लम्पटा लालसाः । तथा प्रकर्षेण सिद्धा अग्निसंस्कारेण निष्ठां प्राप्ता अपि पूपाद्यास्ते कथमलं न पच्यन्ते स्म। प्रसिद्धा विख्याता न लम्पाका लम्पटाः । तथा कामवर्षिणोऽपि नालं मेघाः । अभिलषित- दातारोऽपि सन्मार्गस्य लङ्घना न। तथाल्यावस्था अपि नालं शिशवः । तरुणावस्था अपि न दीर्घकेशाः । अग्निहोत्रित्वात् । तथा महान्तो नटा अपि न नृत्यभूम्युप- जीविनः । महान्तो भारताख्यायका अपि नात्यर्थं गोपाश्चापञ्जीवन्ति । ‘राजान्नं तेज आदत्ते’ इति दोषश्रवणात् । तथा भुक्तदेवाङ्गना अपि न रम्भया युक्ताः। सेवितानि जलप्रधानानि सरांसि यैस्तथाविधा अपि नच येऽरमत्यर्थं भयान्विताः ॥ ख ॥१८॥ तेषामिति ॥ कूणिताक्षाः सुखात्किंचिन्निमीलितनेत्राः ॥ १९ ॥ २० ॥ सोऽहमिति ॥ मोहादज्ञानादतिमानपि बकः स्वभावसुभगगतेर्हंसस्यापेक्षया पङ्गुः । अथवा दैवात्कथंचिद्भग्नचरणत्वाद्वकः पङ्गुः ॥ २१ ॥ भङ्गेति ॥ यथा बाहुभ्यां दुस्तरः समुद्रस्तथा भङ्गश्लेषकथाबन्धोऽपि दुष्कर इत्यौपम्यादङ्गस्तुसंबन्धः । ‘अभवन्वस्तुसंबन्ध उपमा परिकल्पकः’ इति ॥ २२ ॥ उत्फुल्लेति ॥ दुर्मुखैः क्रियमाणह्लादालापा अपि दुष्टा निन्दाकराः ॥ १ ‘तादृशाः’. २ ‘वचसाम्’. ३ ‘नेमादित्यः’. ४ ‘सुमति’. ५ ‘निधिः’. ६ ‘उल्लापाः’. ७ ‘कविश्रमम्’.