नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 204, कुल 258 में से
संदर्भ में पढ़ें१८२ नलचम्पूः। 'सकलविषयवृत्तीर्मुद्रयन्निन्द्रियाणां हृदि विदधदवस्थां कांचिदुन्मादिनीं च। ध्वनिरनुगतवीणाक्विक्कणः कोमलोऽयं जयति मदनबाणः पञ्चमः पञ्चमस्य ॥ ४४ ॥ अपिच। प्रियविरहविषादस्यौषधं प्रोषितानां विविधविधुरचिन्ताश्रान्तिविश्रान्तिहेतुः। अयममृततरङ्गः कर्णयोः केन सृष्टो मधुररसनिधानं निःस्वनः पञ्चमस्य ॥ ४५ ॥ अपिच। अयं हि प्रथमो रागः समस्तजनरञ्जने। यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमोऽभवत्' ॥ ४६ ॥ इति विविधमुदञ्चत्पञ्चमोद्गारगर्भं पठति मधुरकण्ठे धाम्नि वैतालिकेऽस्मिन्। अपहरति च चित्तं किंनरद्वन्द्वगीते सुखमय इव निद्रानिःस्पृहो लोक आसीत् ॥ ४७ ॥ एवमनवरतमारोहावरोहमूर्च्छनाभङ्गितरङ्गिते गीतामृतस्रोतसि नि- मग्नमनसि कठोरितोत्कण्ठे रणरणकारम्भभाजि राजनि 'रजनि, किं न विरमसि। दिवस, किं नाविर्भवसि । अध्वन्, किं न स्तोकत- र्ब्रजसि। कुण्डिननगर, किं न नेदीयो भवसि। श्रम, किमन्तरायोऽसि। विधे, किमुत्क्षिप्य न मां तत्र नयसि' इत्यनेकधा चिन्तयति स किंनरयुवा प्रक्रमोचितश्लेषमिदमवादीत् ॥ सकलेति ॥ पञ्चमस्य रागस्य ध्वनिर्जयति। कथंभूतः। पञ्चमः पञ्चानां पू- रणो मदनबाणः ॥ ४४ ॥ प्रियेति ॥ अत्र पञ्चमस्येत्याख्या। न तु पञ्चानां पूरणस्येति व्युत्पत्त्यर्थः ॥ ४५ ॥ अयमिति ॥ प्रथमः प्रधानभूत आद्यश्च । द्वितीयः समानो द्वयोः पूरणश्च । स कथं पञ्चानां च पूरणोऽथ च पञ्चम इति संज्ञा ॥ ४६ ॥ इतीति ॥ परब्रह्मालोकनसमयसमुल्लासितसान्द्रानन्दमय इव । रसस्य हि तलं परब्रह्मास्वादसोदरलं पूर्वाचार्यैर्व्यवार्यत । सुखमय इव निद्रानिमीलित इवे- त्युभयत्रापीवशब्दो योज्यः । अथवा सुखमयः सन्निद्रानिमीलित इवेतीवशब्धो भिन्नक्रमे ॥ ४७ ॥ १ 'कृत'. २ 'स्य'. ३ 'मार्गे'. ४ 'यासि'. ५ 'असि'.