नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 205, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १८३ “वर्धमानोल्लसद्रागा सुजातिमृदुपाणिका । दमयन्ती च गीतिश्च कस्य नो हृदयंगमा ॥ ४८ ॥ अपिच । साप्यनेककलोपेता साप्यलंकारधारिणी । सापि हृद्यस्वरालापा किंत्वसाधारणा तव ॥ ४९ ॥ अपिच । संगीतका त्वदौत्सुक्यात्त्वां स्मरन्ती समूर्च्छना । किं तु तस्यास्त्वयि स्वामिँल्लयभङ्गो न दृश्यते' ॥ ५० ॥ एवमुक्तवति किंनरेश्वरे किमप्यलीककोपकुटिललोलद्भ्रूवलयावलि- तकंधरमवलोक्य किंनरी वक्तुमारभत ॥ क ॥ 'सुन्दरक, मा मैवं वादीः ॥ ख ॥ शुष्काङ्गी घनचार्श्वङ्ग्याः सुवाचः काकलीस्वरा । दमयन्त्याः कथं गीतिः सादृश्यमवगाहते ॥ ५१ ॥ वर्धमानेति ॥ वर्धमानो वर्धिष्णुः । न तु हीयमानः । उल्लसन् रागोऽनुरा- गो यस्याम् । सुष्ठु शोभना क्षत्रियाख्या यस्याः । पाणिः करः ॥ पक्षे वर्धमाने तालविशेषे उल्लसन् रागः श्रीरागादिर्यत्र । जातयो नन्दयन्तीप्रभृतयः । पाणयः समपाण्यादयः ॥ ४८ ॥ सापीति ॥ कला विज्ञानकौशलम् । अलंकार आभरणम् । स्वरः शब्दः । आलापो मिथोभाषणम् । गीतिपक्षे 'पताकेनावकृष्टिश्च विरलाङ्गुलिना च या । आवाप इति विज्ञेया कलाविद्भिरस्तु सा कला' इत्यावापादयः सप्त कलाः । अलं- कारा उपमारूपकादयः । स्वराः षड्जादयः सप्त । आलाप आलप्तिः । परं किं नु दमयन्ती असाधारणा अनन्यविषयत्वादेकाश्रया । गीतिस्तु साधारणा स्वरसाधा- रणा जातिसाधारणा चेति ॥ ४९ ॥ संगीतेति ॥ त्वय्यौत्सुक्यं त्वदौत्सुक्यं तस्माद्धेतोः । सम्यग् गीतं प्रख्याति- रस्यानिति सर्वत्र त्वदुत्का गीयत इति भावः । तथा त्वां स्मरन्ती सह मूर्च्छनया वर्तते इति समोहा ॥ गीतिस्तु संगतं गीतं स्वरगुणदूषणग्रामश्रुतियतिमूर्च्छनालक्षणं यस्याम् । तथा 'स्वरः संसर्जितो यत्र रागत्त्वं प्रतिपद्यते । मूर्च्छनामिति तां प्राहु- र्मुनयो ग्रामसंभवाम्' । सा चैकविंशतिविधा । यदुक्तम्-'सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः' इति । तथोक्तया सह समूर्च्छना । इत्येतावता दमयन्तीगी- त्योः साम्यमुक्तम् । अधुना तु भेदं निरूपयति—किंत्विति ॥ लयस्तत्परता। द्रुत- मध्यविलम्बितलक्षणश्च ॥ ५० ॥ शुष्केति ॥ शुष्कमवकृष्टमङ्गमवयवो यस्याः । कु ईषत् कलोऽस्यामिति (गीं-