नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 206, कुल 258 में से
संदर्भ में पढ़ें१८४ नलचम्पूः । अपिच । गीतेर्ग्रामाः किल द्वित्राः सा तु ग्रामसहस्रभाक् । कूटतानघना गीतिः कथं तस्याः समा भवेत् ॥ ५२ ॥ किं१ चान्यत् । ज्वरितेव बहुलङ्घनप्रयोगप्रकाशितमूर्च्छना बहुलकम्पा च, उन्मत्तेव बहुभाषा बहुताला च, वेश्येव बहुगा बहुष्ठरागा च, अटवीव बहुककुभभेदा बहुलनिषादस्थानका च गीतिरियम् ॥ क ॥ तद्वरमिदमुच्यताम् । वेदविद्योपमा देवी मनोहरपदक्रमा । उद्योतिता पुराणाङ्गमन्त्रब्राह्मणशिक्षया ॥ ५३ ॥ रादित्वान्डीषि ) काकली निषादसंज्ञः स्वरो यस्याः । वैसादृश्यपक्षे शुष्कमनाद्रंम् । काकली श्लेष्मवैगुण्याद्द्विधाभूतः स्वरः ॥ ५१ ॥ गीतेरिति ॥ षड्जमध्यमगान्धाराख्यो ग्रामाः । गान्धारस्य स्वर्गविषयत्वान्ना- वेवेति द्वित्राः । ग्रामः खेटकं च । कूटतानाः पञ्चत्रिंशत् । तैर्घना । दमयन्ती तु न कपटविस्तारबहुला ॥ ५२ ॥ ज्वरित इत्यादि ॥ लङ्घनमुद्ग्राहितादधिकोच्चारणम् । पक्षे लङ्घनं शोषणम् । अनशनमिति यावत् । प्रयोगे उच्चारणे प्रकाशिता मूर्च्छना उत्तरमन्द्रादिका यस्या- म् । पक्षे प्रकृष्टा योगाः क्वाथादयः । मूर्च्छना मोहः । कम्पोऽङ्गकृतं स्वरकृतं च चलनम् । उन्मत्तेति ॥ भैरवीप्रभृतयः षट्त्रिंशद्भाषाः । तालश्चञ्चत्पुटादिः । उन्मत्ता तु बहु भाषते तालिकाश्च दत्ते । वेश्येवेति ॥ रागः श्रीरागादिः । तथा बहुलष्ठकनामा रागो यस्याम् । वेश्या तु बहुषु रागोऽस्या इति वहासक्तिः । प्रभू- तठकरागामिनी च । ठक्शब्दोपलक्षिता क्रीडया कराहतिः ठक्करा । गमेः प्राप्य- र्थाड्डः । अटवीति ॥ ककुभो ध्वनिविशेषः । निषादः स्वरविशेषः । स्थानकं म- न्द्रमध्यमतारलक्षणम् । अटवीपक्षे ककुभोऽर्जुनवृक्षः । निषादाः शवराः । स्थान- कान्याळवालाः शिविरसंनिवेशश्च । एवं ज्वरिताद्युपमानप्रतिपादितदोषा गीतिः क- थंकारमिव दमयन्तीसमा ॥ क ॥ वेदेति ॥ पदक्रमः पदन्यासः । पुराणं जीर्णं वपुर्येषाम् । तथा मन्त्रप्रधान- ब्राह्मणानां पुरोधःप्रभृतीनां च शिक्षयोपदेशेनोद्द्योतिता । वेदविद्या तु पदक्रमा- भ्यामभिधीयते । पुराणानां मार्कण्डेयादीनाम् । अङ्गानां शिक्षाकल्पादीनाम् । म- न्त्रब्राह्मणस्य ग्रन्थविशेषस्य शिक्षयाभ्यासेन भूष्यते । अन्तःपुरे हि वृद्धा एवाधि- क्रियन्ते । यदुक्तम्—'आशीतिकाश्च पुरुषाः पञ्चाशतकाश्च योषितः । युज्येरन्नव- रोधानां शौचमागारिकाश्च ये' ॥ ५३ ॥ १ 'किं बहुना' ।