नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 207, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १८५ 'किं त्वियमेकपथा, सा तु दृष्टशतपथा' इत्येवमनेकविधवक्रोक्तिवि- शेषैरभिनन्दयति दमयन्तीकिंनरमिथुने, भूतभूयिष्ठायां विभावर्याम्, सुरसङ्घ इवादृश्यमानमानुषे निशीथे, स्थगितवति भृङ्गभासि तमसि भुवनम्, अनन्तरमवसरपाठकः पपाठ ॥ क ॥ 'उपरम रमणीयात्किंनरद्वन्द्वगीता- दभिभवति निशीथो नाथ नेत्राणि पश्य । मदनवशविलोलोल्लोचनाम्भोरुहाणां मिलतु कुलवधूनां सेवको लोक एषः ॥ ५४ ॥ अपिच । शतगुणपरिपाट्या पर्यटन्नन्तराले कमलकुवलयानामर्धरात्रेऽपि खिन्नः । उपनदि दयितायाः क्वापि शब्दं निशम्य भ्रमति पुलिनपृष्ठे चक्रवच्चक्रवाकः ॥ ५५ ॥' अथ यथाप्रियं प्रैषितपरिज्नो राजा रजनिशेषमतिवाहयितुमनुरूपं निरूप्य किंनरमिथुनस्य शयनमासन्नैनिद्रागृहे हंसपिच्छच्छायाच्छप्र- च्छदपटच्छादितहंसतूलैतलपमभजत् ॥ ख ॥ तत्र च दमयन्त्यनुरक्तोऽयमितीर्ष्ययेवानायान्त्यां निद्रायां द्रोणीद्रु- मान्तरालसुप्रोत्थितविविधविहंगविरुतानि विनिद्रवनदेवतापठ्यमान- प्राभातिकपुण्यकीर्तनानीवाकर्णयन्नेककालप्रणालिकापर्यायेण पर्यस्ते- ऽस्तगिरिमस्तके मुक्तास्तबकितनीलवितानपट इव तारातिमिरपटले, पट्टांशुकवैजयन्तीष्विव र्भविष्यति दिनकरोद्योत्सवे नभस्तलमलंकुर्व- किंत्वियमिति ॥ इयं दमयन्ती एकमार्गा । वेदविद्या तु दृष्टशतपथाख्यग्र- न्था । भूयिष्ठं भूता अतिक्रान्ता, भूतभूयिष्ठा । आहिताग्न्यादित्वात् । निशीथे तमो- ऽतिशयान्मानुषादर्शनम् । सुराणां समूहे च स्वभावात् ॥ क ॥ तत्रेति ॥ द्रोण्यां द्रुमास्तेषामन्तरालं द्रोणीद्रुमान्तरालम् । मध्ये निम्नः प्रान्त- योश्चोन्नतस्तरुराजिविराजितो नौसदृशः पर्वतादिभूभागो द्रोणी । यदाह मुकुटताडि- तकनाटके बाणः—'आशाः प्रोषितदिग्गजा इव गुहाः प्रध्वस्तसिंहा इव द्रोण्यः कृत्तमहाद्रुमा इव भुवः प्रोत्खातशैला इव । बिभ्राणाः क्षयकालरिक्तसकलत्रैलो- क्यकष्टां दशां जाताः क्षीणमहारथाः कुरुपतेर्देवस्य शून्याः सभाः' ॥ यया प्रणा- लिकया काल इयानिति ज्ञायते, सा कालप्रणालिका ताम्रमयघटिका । अथवा प्र- १ 'निशीथे'. २ 'प्यखिन्नः'. ३ 'कोऽपि'. ४ 'ग्रोपित'. ५ 'आसन्नं निद्रा'. ६ 'पटघटिकाच्छादि'. ७ 'तूलतल्पतलममजत्'. ८ 'भविष्यद्दिनकरोत्सवे'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA