नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 215, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः। १९३ इतश्च। विकसन्मुचुकुन्दानन्दिनो मकरन्दस्यन्दिसुन्दरसिन्दुवाराः पामरी- संकेतनिकेतकेतकीवनाः कम्रास्रातकाः कुड्मलितकङ्कोलफलाः कोरकि- तकुरण्टकाः पल्लवितवल्लीकाः फुल्लमल्लिकोल्लासिनः सुजातजातयो विचि- त्रशंतपत्रिकास्ताण्डवितपाण्डुपिण्डितागुरुकरवीरवीरुधो दृश्यमानसवै- र्तुपुष्पाः पैष्पायुधावासा आरामाः ॥ क ॥ इतश्च। नातिदूरे दक्षिणदिशि दृशं निवेशयतु देवः ॥ ख ॥ एतास्ताः परिपक्वशालिकलमाः सुस्वादुदीर्घेक्षवो वप्रप्रान्तहरित्तृणस्थलचलत्पीनाङ्गगोमण्डलाः। दृश्यन्ते पुरतः सरोरुहवनभ्राजिष्णुनीराशयाः प्रान्तोन्नादिविचित्रपत्रिनिचयाः सस्यस्थलीभूमयः ॥ ७१ ॥ अपिँच। स्वःसौन्दर्यविडम्बि कुण्डिनमिदं सैषा विदर्भा नदी सा चेयं वरदा स चायमनयोः पुण्याम्भसोः संगमः। अस्यैवोत्नमदहंसहारिणि तटे सेनास्थितिः कल्प्यतां यस्मिन्मत्तकरीन्द्रकुम्भकषणक्रीडासहाः पादपाः ॥ ७२ ॥ एवमनेकधा दर्शनीयप्रदेशप्रकाशनव्याजेन विनोदलीलां पल्लवयति पुष्कराक्षे, 'प्राप्ताः कुण्डिनपुरम्' इत्युच्छ्वसितहृदयो निषधेश्वरः पर- मपरितोषात्पारितोषिकप्रदानपूर्वमिदमवादीत् ॥ ग ॥ 'भद्र, भवतः सौकुमार्यमाधुर्यमधुविश्रम्भसंदर्िभतभङ्गश्लेषगर्भाभि- र्गीर्भिराक्षिप्तमनसामस्माकमविदितखेदं इव, अदृष्टसमविषमविभाग इव, अनुत्पादितस्वेदलव इव, अर्धगव्यूतिमात्रैशेषोऽतिक्रान्तः क्रीडा- शाकविशेषेण वस्तुभूतं गणनाहें भूतं यासु। राजिकानां राजसर्षपाणां राज्या राजिता ॥ क ॥ एता इति ॥ विचित्रपत्रिणो विविधपक्षिणः ॥ ७१ ॥ अच्छिन्नचैत्यद्रुमेति ॥ चैत्या ग्रामप्रदेशप्रसिद्धवृक्षाः ॥ ख ॥ १ 'शरपत्रिकाः'. २ 'पिण्डीतगरकर'. ३ 'पुष्पागमाः'; 'पुष्पारामाः'. ४ 'नीराश्रयाः'. ५ 'इतोऽपि' कुत्रतु नास्त्येव. ६ 'कथ्यतां'. ७ 'आश्वसितहृदयो'. ८ 'रुक्तिभि'. ९ 'खेदेति नास्ति'. १० 'मात्रावशेषः'. १७