नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 219, कुल 258 में से
संदर्भ में पढ़ें‘तदादिशतु देवो यथाकर्तव्यम्’ इत्यभिधाय स्थिते तस्मिन् ‘भद्र- भूते, त्वरितं प्रवेशय विदर्भाधिपस्य परिजनं स्वयमपि तदर्धपथमनु- सर’ इति नलो दौवारिकमादिदेश ॥ क ॥ सोऽपि ‘यथाज्ञापयति देवः’ इत्यभिधाय यथादिष्टमकरोत् ॥ ख ॥ अनन्तरमनतिचिरादितस्ततो दोधूयमानचारुचामरकलापपर्वनेन- र्तितकर्णकुवलयः, वल्गुवल्गानोल्ललनलङ्घनलास्यलीलापदैः पथि प्लवमा- नमिव तरंलतुरंगमधिरूढः, कनककलशशिखरैरेकदेशस्फुरितविद्युत्त- तैकैरकाण्डाडम्बरितमेघमण्डलैरिव मायूरातपत्रखण्डैराच्छादितगग- नान्तरालः, शस्त्रोद्वहनकिणाङ्कितकठोरकण्ठोपकण्ठैः कठिनप्रकोष्ठलुठ- ल्लोहवलयैरूध्वर्चबद्धोद्धटजूटकैरर्कंककरालमौलिभिर्धोरुकपरिधानैर्नि- शातकुन्तपाणिभिरभितस्त्वरितपातिभिः पत्तिभिरनुगम्यमानः, मना- ङ्मुदुमृदङ्गध्वनिकरम्बिते कोमलकांस्यतालशालिनि वांशिकवाद्यमान- वंशनिस्वने दत्तकर्णः, कर्णिकारगौराङ्गोऽङ्गणस्य नातिदूरेऽप्यदृश्यत भीमभूमिपालः ॥ ग ॥ ततश्च चामरग्राहिणीहस्तपल्लवमवलम्बमानः सहेलमुत्थाय प्रथम- मुत्थितेन संभ्रमवशवलितवक्षःस्थलार्वलम्बितकुसुमदाम्ना विसर्पिक- पूरकुङ्कुममिलन्मृगमदामोदेन त्वरितसंपातपतत्पटवासपांसुना सामन्त- चक्रेण परिकरितः कतिपयपदानि निषेधेश्वरस्तदभिमुखमगात् ॥ घ ॥ सोऽपि सत्वरोपसृतस्य ताम्बूलप्रसेविकावाहिनः पुरुषस्य स्कन्ध- तदिति ॥ भद्रभूतिरिति द्वाःस्थस्य नाम । तस्य चामन्त्रणम् ॥ क ॥ अनन्तरमिति ॥ वल्गु यद्वल्नं विक्रममाणता । उल्लनमुच्चैर्विलसनम् । ल- ङ्घनं फाला । लास्यं नृत्यभूमिः । तेषु लीलापदैः प्लवमानं तरन्तमिव । आसनस्थैर्य- णानुद्धातसुखत्वात् । मायूरातपत्रसमूहानां मेघमण्डलानि, सौवर्णकलशानां च वि- द्युत्ततय उपमानम् ॥ कठिनेति ॥ राजपुत्रा हि प्रकोष्ठे मणिकूर्परान्तरे दाढर्याय लोहवलयानि धारयन्ति । जूटकः केशबन्धविशेषः । अलकाः कुटिलाः करालाः स- टालत्वाद्वौद्घा मौलयः संयतकेशा येषाम् । अर्धे ऊरु प्रमाणमस्य तदर्धोरुकम् । येन वाससा कटीप्रभृति अर्धोरुपर्यन्तमामाच्छाद्यते ॥ ख ॥ ततश्चेति ॥ पटवासो वासःसुरभीकरणद्रव्यम् । परिकरितः परिवारितः ॥ ग॥ १ ‘पवनानर्तिं’. २ ‘तरलेति क्वचिन्न’; ‘तरुण’. ३ ‘शिखरैकदेश’. ४ ‘स्तोम’. ५ ‘लोहवल्लै’. ६ ‘रातङ्क’. ७ ‘निखात’. ८ ‘कुत्रचित्तकाररहितम्’. ९ ‘कुत्रचित्तका- रसहितम्’. १० ‘स्थगिका’.