भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 218, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 218

१९६ नलचम्पूः । अपिच। अपि भवत कृतार्थाः पौरनार्यश्चिरेण व्रजतु निषधनाथश्चक्षुषां गोचरं वः। ध्रुवमयमवतीर्णः स्वर्गलोकादनङ्गो हरचरणसरोजद्वन्द्वलब्धप्रसादः ॥ ८० ॥ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणस- रोजाङ्कायां षष्ठ उच्छ्वासः ॥ ६ ॥ इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ १ ॥ इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे षष्ठ उच्छ्वासः समाप्तः ॥ सप्तम उच्छ्वासः । एवमविश्रान्तमतितारस्वरेण पुरः पौरपुरंध्रिमण्डलान्युरुण्डयतो द- ण्डपाशिकस्य कलकलमाकर्ण्यत्यास्थानस्थिते राजनि, प्रविश्य प्रणाम- प्रेङ्खोलितगलकन्दलावलम्बितजाम्बूनदस्थूलशृङ्खलास्फालितवक्षःस्थलः स्थविरवयाः सुवेषैः प्रतीहारः सविनयमुक्तवान् ॥ क ॥ देव, धृतमाङ्गल्यकल्पवेषाः पुष्पफलाक्षतपूर्णस्वर्णपात्रपाणयः पुरैः- स्थिता अधीयाना ब्राह्मणाः कुण्डिनपुरपौराः पुरंध्रयश्च देवदर्शनार्थि- तया द्वारि सेवावसरमनुपालयन्ति ॥ ख ॥ कथयन्ति चैवमदूरे विदर्भेश्वरोऽपि देवं द्रष्टुमायाति ॥ ग ॥ लग्न ईव श्रूयते च शङ्खस्वनविदर्भितो विदर्भोंपकण्ठे पठद्वन्दिवृन्द- कोलाहलः ॥ घ ॥ एवमिति ॥ उरुण्डयतो गाढमुत्साहयतः । दण्डपाशिकस्तलारः । दण्डपा- शोऽस्त्यस्येति । 'अत इनिठनौ' इति ठन् । जाम्बूनदस्य कनकस्य स्थूला शृङ्खला आभरणविशेषः ॥ क ॥ देवेति ॥ धृतो माङ्गल्ये कल्पो दक्षो वेषो मण्डनं यैः ॥ ख ॥ १ 'गोचरे च'. २ 'सकलविबुधमनोहारिण्यां'. ३ 'दण्डवासि'. ४ 'कचिन्नास्ति'. ५ 'धृतमङ्गल्यवेषाः'. ६ 'स्वर्णेति कचिन्नास्ति'. ७ 'पुरःस्थिताधीयानब्राह्मणाः'. ८ 'इति'.