नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 217, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १९५ अपिच । सुरसदननिवासं सैनिका मास्म कुर्व- न्सरिति मुनिकुटीनां भङ्गमुल्लुठनं वा । इह¹ निषधनृपाज्ञा तस्य यः कापि कोऽपि द्रुममुषि तरुखण्डे खण्डनं वा करोति' ॥ ७७ ॥ एवमनुशासति बलानि बहूनि बहुधा बाहुके, तत्क्षणादुत्तम्भितैः प्रेङ्खत्पताकापल्लवविराजितैः प्रयाणयोग्ययन्त्रचित्रशालागृहैः संचा- रिणि गन्धर्वनगर इव रमणीये, हरिततोरणैरुड्डीनशुकावलीमय इव, गैरिकारक्तोन्नमितपटकूटीभिरुत्फुल्लकिंशुकमय इव, श्वेतांशुकमण्डपैश्च ताण्डवितबृहत्पुण्डरीकखण्डमय² इव, जाते सरित्संगमोत्सङ्गसङ्गिनि शिविरसंनिवेशे, क्रमेणाक्रान्तसकलदिङ्मुखेषु निषधेश्वरगमनवार्ता- निवेदनदूतेष्विव³ विदर्भराजधानीधामनिर्गतेषु बहलसैन्यधूलिपटलेषु, रॅसति⁴ विपक्षक्षितिपालकर्णपुटीकटुनि नवजलधरध्वनितगम्भीरे त- त्कालप्रहतशङ्खसंखप्रयाणझल्लरीझांकृते, स्वयंवरायातसमस्तराजन्यच- क्रकर्णकर्तरीषु पठ्यमानासु सानन्दवन्दारुवन्दिवृन्दारकवृन्देनोच्चैर्न- लनाममालासु, क्षणादेवोत्तम्भितशातकुम्भस्तम्भभवने मृदुमसृणास्त- रणभाजि जात्यवैडूर्यपर्यन्तपर्यङ्किकायां सुखनिषण्णे राजनि, सुस्थिते च परिजने, नातिदूरवर्तिनि कुण्डिने दण्डपासिकस्यो⁷च्चैर्वागुदतिष्ठत् ॥ क⁵ ॥ 'सिच्यन्तां राजमार्गाः कलशमुखगलच्चन्दनाम्बुच्छटाभिः स्तम्भाः⁶ प्रेङ्खत्पताकाः कुसुमपरिकरास्तोरणाङ्काः क्रियन्ताम् । स्थाप्यन्तां पूर्णकुम्भाः प्रतिनगरगृहं प्राङ्गणे धान्यमिश्रैः सिद्धार्थैः स्वस्तिकालीर्लिखत नरपतिर्नैषधः प्राप्त एषः⁸ ॥७८॥ अपिच । सत्कोञ्च्य⁹श्चन्दना र्द्रस्तनकलशयुगामुक्तमुक्तावलीकाः पात्राण्यादाय दूर्वादलदधिकुसुमोन्मिश्रसिद्धार्थभाञ्जि । सोत्तंसा हंसपिच्छच्छविवसनभृतो वर्तिताश्चर्यचर्या नार्यो निर्यान्तु तूर्यध्वनिलयललितं गीतमुच्चारयन्त्यः ॥ ७९ ॥ एवमिति ॥ वन्दार्वित्यत्र वदिः स्तुत्यर्थः । सत्कान्त्येति ॥ आमुक्तं योजितम् ॥ ७९ ॥ १ 'इति'. २ 'खण्डमण्डप इव'. ३ 'वेदनदूतेष्विव'; 'विनोददूषितेष्विव'. ४ 'विरस'. ५ 'ज्ञात'. ६ 'स्तम्भेति नास्ति'. ७ 'दण्डवासि'. ८ 'नैषधोऽप्येष एषः'. ९ 'सत्कान्त्यः'.