नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 226, कुल 258 में से
संदर्भ में पढ़ें२०४ नलचम्पूः । रयभव्यभूषणांशुकादिसंमानदानादरपरितोषितेन तेन पुष्कराक्षपुरः- सरं किंनरमिथुनेन सह दमयन्तीं प्रति प्रेषयामास ॥ क ॥ स्वयं च शाङ्खिकमुखमरुत्पूर्यमाणशङ्खस्वनविभिन्नभांकारिमध्याह्न- भेरीरवेण निर्यद्रेलाविलासिनीचरणरणाभरणरणन्मणिनूपुरझंकारेण च निवेद्यमाने मध्याह्नसमये माध्याह्निककरणायोदतिष्ठत् ॥ ख ॥ क्रमेण च निःसृते समस्तसेवकजने, विश्रान्ततूर्यतालगीतासु निर्यात- नर्तकीविरहखेदादिव मूकीभूतासु नृत्यशालासु, निःशब्दतया सुप्तास्वि- वार्थिकारिककुटीषु, शून्यतया मध्याह्नातन्द्रीमूर्च्छितेष्विव समस्तमण्ड- पेषु, संक्रान्तसेवाविलासिनीचरणकुङ्कुमपदपङ्क्तितया विकीर्णविकसि- तरक्तारविन्द इव प्रकाशमाने राजभवनाङ्गणे, घनं ध्वनन्तीषु भोज- नावसरशङ्खकाहलासु, प्रधावमानेषु प्रत्यास्वादकजनेषु, परिमृज्यमाना- स्वतिथिसत्रशालासु, सज्जीक्रियमाणेष्वग्रांशनब्राह्मणेषु, प्रवेश्यमानासु गोग्रासयोग्यासु कपिलासु पुण्यगवीषु, प्रक्षाल्यमानेषु वायसबलिस्त- म्भशिखरफलकेषु, बर्हिर्दीयमानेषु, दीनानाथभिक्षुकभैक्ष्यपिण्डेषु, समु- पलिप्यमानासु भोजनस्थानवेदीषु संचार्यमाणेषु चकोरपञ्जरेषु, निवे- द्यमाननैवेद्यासु पूज्यराज्याधिदेवतासु, वैश्वदेवानुतिगन्धवाहिनि वहति विविधान्नपाकपरिमलमनोहरे महानसमरुति, निर्वर्तितमज्जनादिक्रि- याकलापे भजति भोजनभुवं भूपुजि, वहिः सूपकारकलकलः समुल्ल- लास ॥ ग ॥ 'आज्यं प्राज्यमभिन्नकुन्दकलिकाकल्पश्च शाल्योदनो धूपामोदमनोहरा शिखरिणि स्वादूनि शाकानि च। पेयास्वाद्यकवल्यलेह्यबहुलं नानाविधं भुज्यतां भोज्यं भीममहानृपस्य सुतया संप्रेषितं सैनिकः ॥ ११ ॥ अहो नु खल्वमी मत्स्यैर्मांसैरिवरहितमुदीच्यप्रतीच्यप्राच्यजनाः प्रि- क्रमेणेति ॥ महानसं पाकस्थानम् ॥ ग ॥ आज्यमिति ॥ अभिन्नकुन्दकलिकया कल्पते मीयते उपमीयते इति याव- त् । कलेरदन्तात् 'अचो यत्' इति सूत्रेण यत् । केचित्तु पवर्गोपधं पठन्ति ॥११॥ १ 'संतोषिते'. २ 'भांकारि क्वचिन्नास्ति'; 'मध्याह्नभांकारिभेरी'. ३ 'निवेद्यमानम- ध्याह्नसमयः'. ४ 'कारिकाकुटीषु'. ५ 'विन्दप्रकरे'. ६ 'स्वनन्तीषु'. ७ 'काहलहासु'. ८ 'प्रवाद्यमानेषु'. ९ 'सन'. १० 'क्वचिन्न'. ११ 'क्ष'. १२ 'शुकचकोर'. १३ 'सूपो- ष्णमनो'. १४ 'मत्स्येति क्वचित्'. १५ 'प्राच्यप्रतीच्य'; 'प्राच्यप्रतीच्यपरिजनाः'.