नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 227, कुल 258 में से
संदर्भ में पढ़ेंयसक्तवो भोक्तुमेव न जानन्ति ॥ क ॥ विरलः खलु दाक्षिणात्येषु मांसाशनव्यवहारः ॥ ख ॥ तदाकर्ण्यतां भो नैषधाः ॥ ग ॥ ‘आज्यप्राज्यपरोन्नकूरकवलैर्मन्दां विधाय क्षुधां चातुर्जात कसंस्कृतो नु शनकैरिक्षो रसः पीयताम् । संभारस्पृहणीयतेमनरसानास्वाद्य किंचित्ततः स्निग्धस्तब्धदधिद्रवेण सरसः शाल्योदनो भुज्यताम्’ ॥ १२ ॥ राजा तु प्रतीहार ‘विनिश्चीयतां किमयं बहिः कलकलव्यतिकरः’ इत्यभिधाय तत्कालोयोग्यपरिजनपरिवृतो भोक्तुमुपाविशत् ॥ घ ॥ त्वरितं च गत्वागतश्च स प्रतीहारो विज्ञापयांबभूव ॥ ङ ॥ ‘देव, दमयन्त्या प्रहिताः सूपकाराः सैन्यजनम्, आब्राह्मणान्त्य- जगोपालबालकम्, आकरितुरगवाहनम्, आसामन्तनियुक्तकम्, आ- स्वाद्यैस्तैस्तैरन्नविशेषैर्भोजयन्ति ॥ च ॥ लग्नाः सर्वतो दृश्यन्ते पर्वताः पक्वान्नस्य, राशयः शाल्योदनस्य, स्तूपाः सूपस्य, निर्झराः सर्पिषः, सिन्धवो मधुनः, निकराः शर्करायाः, स्रोतांसि दधिदुग्धयोः, शैलाः शाकानाम्, निपानानि पानकानाम्, कु- ल्याः फलरसानाम्, कूटाः कषायाम्ललवणतिक्तमधुरोप Reelशानाम्।छ। एवमकार्पण्यमिच्छया भोजितं सैन्यम् ॥ ज ॥ अपिच । भुक्तान्ते घृतदिग्धहस्ततलयोरुद्वर्तनं चन्दनं पश्चान्नागरखण्डपाण्डुरदलैस्ताम्बूलदानक्रमः । एकैकस्य मृणालतन्तुमृदुनी दत्ते ततो वाससी देव्या किंचिदचिन्त्यमेव भवतः सैन्यातिथेयं कृतम् ॥ १३ ॥
आज्यप्राज्यमिति ॥ ‘त्वगेलापत्रकं चैव त्रिगन्धं च त्रिजातकम्। तदेव मरि- चैर्युक्तं चातुर्जातकमुच्यते’ तेन संस्कृतः कृतगुणान्तरश्चातुर्जातकसंस्कृतः । स- रलः सुनिष्पन्नदीर्घतण्डुलपाकजः । अतिक्किन्नतादिदोषरहितश्च । दधिद्रवो वस्त्रगा- लितं दधि ॥ १२ ॥ भुक्तान्त इति ॥ वनवासदेशोद्भवानि नागवल्लीदलानि नागरैर्विदग्धैर्बन्ध्यन्ते खण्ड्यन्ते इति नागरखण्डसंज्ञानि ॥ १३ ॥
१ ‘वरान्न’. २ ‘निधाय’. ३ ‘संसार’. ४ ‘सरलः’. ५ ‘शाल्योदनं’. ६ ‘ततः’.