नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 229, कुल 258 में से
संदर्भ में पढ़ेंतपाणिपल्लवः, लवङ्गकक्कोलकरम्बितताम्बूलमुत्सत्पर्कपूरपरिमलमादा- य, विकीर्णविविधकुसुमप्रकरेहारिणि यक्षकर्दमाच्छछटोच्छोटितपर्य- न्तभित्तिभागे लम्वितप्रलम्बजाम्बूनदपद्मदाम्नि धूपधूमामोदिनि चूर्णि- तकर्पूररजुरेखाभाजि भोजनानन्तरमपरेऽपराह्नविनोदमण्डपे मनागिव- श्रम्य रणरणकाक्रान्तहृदयो दूरदिगन्तालोकनकुतूहलितः सैरित्तीरो- त्तम्भिताभ्रंलिहसौधस्कन्धभूमिमारुह्य च तस्यामूर्ध्व एव ध्रियमाणमा- यूरातपत्रयुगलः, सलीलालसपदैरितस्ततः परिक्रामन्, नेदीयसि सरि- त्संगमाम्भसि मध्याह्नमखिलमवगाहनसुखमनुभूय तीरमुत्तीर्णासु तिमिरशङ्कया कृतदूरचङ्क्रमणेअश्वकवाकचक्रवालैराकुलमवैलौक्यमाना- सु, पुलिनपांसुविहरणविरामे विकसितविविधवीरुन्धि रोधांसि रद- न्तीषु दन्तिपङ्क्तिषु दत्तदृष्टिः, विरलनलिनीपत्रान्तरालसुप्रोत्थितस्य, किंचिद्देवाञ्चितचटुलचञ्चोः, चरतः, चटुलचञ्चरीकिणि विकचकम- लवने, राजहंसकुलकलापस्य करिकलभदन्तदण्डपाण्डुबिसकाण्डभङ्ग- टंकारानार्णयन्, अपराह्नमज्जनागताभिः कुण्डिनपुरपुरंधिभिराश्च- र्यरसोर्मिमुषितनिमेषैर्निष्कम्यनीलोत्पलपलाशलीलायमानैर्नेत्रपुटैरापी- यमानमुखेन्दुद्युतिः, दर्शिततरङ्गभ्रूमङ्गया, दूरोच्छलद्बालशफरीछलेन विस्फारितविलोचनया, सरित्संगमसलिलाधिदेवतयापि विलोक्यमा- नरूपसंपत्तिरिव, क्षणमविरलचलच्चञ्चरीकचक्रचुम्बिताम्बुरुहासु क्री- डाकमलसरसीषु, क्षणमुपान्तपङ्कीभूतमञ्जरितसहकारराजिषु स्मरैर्वा- जिवाह्यालीषु, क्षणमुन्मिषत्कुसुममनौहरितरुलतारमणीयासु भवनो-
कृतजलक्रीडासु, तमोभ्रान्त्या चक्रैराकुलमालोक्यमानासु, कृतधूलीस्नानासु, तटीः पाटयन्तीषु दन्तिपङ्क्तिषु न्यस्तदृष्टिः, वने चरतो हंसवृन्दस्य बिसभङ्गरवाञ्शृण्वन्, कुण्डिनस्त्रीभिर्दृश्यमानमुखेन्दुश्रीः, उच्छलच्छफरीछलविलोकतिया जलदेवतया वी- क्ष्यमाणरूपसंपदिव, क्षणमेकं सरसीषु क्षणं चूतालीषु क्षणं गृहालीषु क्षणमवरोध- भवनपङ्क्तिषु क्षणं पुरपद्धतिषु विश्रान्तनेत्रो नलश्चिरमस्थात् । सादरेक्षणं नेत्रपा- नम् । तच्च पत्रपुटैर्यदुक्तमिति नेत्रपुटैरापीयमानेत्युक्तम् । कण्टकादिदोषरहितासु त- रुराजिराजितासु च भूमिषु वाहवाहना । तथा च- 'रम्य समतला लोष्टकीलकण्ट- कवजिता । वाह्याली भूमिरम्यर्थंतरुराजिविराजिता' इति । एतदेव पङ्कीभूतेत्यादि-
१ 'प्रकरप्रकारहारि'. २ 'छटाच्छोटित'. ३ 'सरित्तीरोत्तंसिता'. ४ 'मारुरुह', 'आरुह्य च'. ५ 'क्रियमा'. ६ 'पत्रमण्डलः'. ७ 'मालोक्यमा'. ८ 'वनान्तराल'. ९ 'किंचिदिवा'. १० 'क्षणं वाजिवा'. ११ 'मनोहारिणीषु तरलितरमणीषु; 'तरलत्तार- मणीयासु'.