नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 239, कुल 258 में से
संदर्भ में पढ़ेंलक्ष्यन्ते कुमुदानि पद्धदरुतैरुत्सर्पिगन्धेन च क्षुभ्यत्क्षीरपयोधिपूरसदृशे जाते शशाङ्कोदये ॥ ३१ ॥ तथाविधे च चन्द्रोदयप्रपञ्चे हठादुत्कण्ठयाभिभूयमानो निषधना- थश्चिन्तयांचकार ॥ क ॥ 'इतश्चन्द्रः सान्द्रान्किरति किरणानप्रिपरुषा- नितोऽपि प्रोन्मीलत्कुमुद्वनवायुर्विलसति । इतः कादम्बानां ध्वनितमपि निद्रालसदृशा- मसह्यः सर्वोऽयं मनसिजमहिम्नः परिकरः ॥ ३२ ॥ अपि च । इतो मकरकेतनः किरति दुर्निवारः शरा- नितोऽपि वयमाकुलाः कुलिशपाणिदत्ताज्ञया । तदेतदतिसंकटं यदिह कैश्चिदुक्तं जनै- रितो विषमदुस्तटी भयमतो महान्व्याघ्रतः ॥ ३३ ॥ तदिदानीं किमिह कर्तव्यम्, कथं वा हास्येनाप्यवन्ध्यवचसामल ङ्घनीयः खल्वादेशो लोकपालानाम्' इति चिन्तयन्नेकाकी पन्द्यामेव विनिर्गत्य निजनिकेतनात्समन्तादापतद्भिः शशाङ्ककिरणैर्जालैः परिजनै- रिख परिदर्शितवर्त्मा कैश्चित्काललवैः कैलासकूटायामानाट्टालकाभो- गभव्यं भीमभूपालभवनमवाप्य कन्यान्तःपुरं पुरंदरवरप्रदानाददृश्य- मानरूपः प्रासादपालकैः प्रविवेश ॥ ख ॥ प्रविश्य च दूरादभिमुखागतेनानवरतदह्यमानकृष्णागुरुधूपधूमव- र्तिनर्तकेन बहलयक्षकईमाम्वुसिक्तसौधस्कन्धसंधिसंचारिणा गन्धवा- हेन कृताभ्युत्थान इव, परिक्रम्य स्तोकमन्तरम् 'इत इतो देवी वर्तते' इति गीतगोष्ठीस्थितसखीगीतझंकारेणाहूयमान इव, यत्रास्ते दमयन्ती तत्सौधपृष्ठमारूढवान् ॥ ग ॥ आरुह्य च मनागव्यवहितोऽनुपलक्ष्यमाण इव, वेणुवीणाकणानुसा- रिणा कोमलकाकलीप्रायेण किंनरीप्रमुखसखीनां गीतेन विनोद्यमा-
प्रविश्य चेति ॥ कर्पूरकस्तूरिकादीनां क्षोदो यक्षकर्दमः ॥ ग ॥ आरुह्य चेति ॥ ईषत्कलोऽस्यास्तीति काकली । 'निषादः काकलीसंज्ञो द्विश्रु- त्युत्कर्षणाद्भवेत्' । कज्जलेन कलङ्किता कलङ्क इवाचरितवती नयनोत्पलपक्ष्मपा-
१ 'क्षारपयोधि'. २ 'इतोऽपि विषमा तटी म', 'इतो विषमदुस्तटीतटमि'. ३ 'किरण प्रभाभी'. ४ 'कुत्रचिन्नास्ति'. ५ 'अक्षनप्रमवाव्द'. ९S