भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 240, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 240

नाम्, अलकवल्लरीमध्यनिवेशिततारानुकारिमौक्तिकेने कज्जलकलङ्कि- तनयनोत्पलपक्ष्मपालिना मुखेन सचन्द्रगगनस्पर्धया भूतलमपि पूर्णो- दितेन्दुमण्डलमिवापादयन्तीम्, उच्चकुचमण्डलविलोलया सस्मरसप्त- र्षिग्रहगणपङ्क्त्येव हारलतया कृतकण्ठकन्दलाश्लेषाम्, ईषत्कपोलपालिं परामृशता चाटुकारेण वसन्तसमयप्रहितदूतेनेव कर्णलग्नेन कुसुमम- ञ्जरीद्वितीयेन बालपल्लवेन विराजितवदनाम्, अच्छाच्छैः कस्तूरिका- पङ्कपत्रभङ्गैर्भुजंगैरिव लावण्यामृतरक्षागतैरलंकृतभव्यभुजशिखराम्, आसन्नभुवि विकीर्णैः पाण्डुपुष्पप्रकरैर्गगनादवतीर्य रूपालोकनकुतूह- लिभिर्नक्षत्रैरिव परिवृताम्, ऊरुनितम्बमण्डलस्पर्शसुखलम्पटतया नीवीप्रान्तपुञ्जिततरङ्गं क्षीरोदमिव वस्त्रतां गतमच्छपाण्डु नेत्रपट्टं परिदधानाम्, 'अहमेव त्वया स्वयंवरे वरणीयः' इत्यार्थितया पादल- ग्नेन शेषोरगेणेव रौप्यनूपुरवलयेन विराजितवामचरणपल्लवाम्, वि- विधविलासवर्त्तिकाभिरिवाकारिताम्, अमृतद्रववर्णकैरिव चित्रिताव- यवाम्, आनन्दकन्दलैरिव घटिताम्, मोहनमणिशिलायामिवोत्की- र्णाम्, शृङ्गारदारुणीवोत्कुट्टिताम्, वशीकरणपरमाणुभिरिव विनिर्मि- ताम्, मँदनमृत्पिण्डेनेव निष्पादिताम्, वज्रलेपपुत्रिकामिव दृशोः, आकर्षणमणिशलाकामिव हृदयस्य, जीवनौषधिमिवानुरागस्य, जय- पताकामिव मदन॑स्य, बहलचन्दनाम्बुच्छटार्द्रितभुवि विकीर्णसुरभिप- रिमलमिलन्मधुकररवानुमेयपाण्डुरपुष्पप्रकरे मसृणसितसुधाबन्धपि- च्छले सौधस्कन्धे ज्योत्स्नामृतस्पर्शसुखमनुभवन्तीम्, अच्छांशुस्फटि- कमणिपर्यङ्किकाङ्कभाजं दमयन्तीमलब्धनिद्रामद्राक्षीत् ॥ क ॥ तां चावलोक्य विचिन्तितवान् ॥ ख ॥ 'अहो स्थानेऽभिनिवेशो लोकपालानाम् । अशेषसुखनिधानाय को न स्पृहयतिँ ॥ ग ॥ मन्ये च ।


लियंन्त्र । कलङ्क इवाचरति स्मेत्याचारे क्विन्निष्टे ॥ अच्छेति ॥ अमृतं हि भुजंगै रक्ष्यते । विविधविलासवर्त्तिकाश्चित्रकूर्चिकास्ताभिराकारितामालिखिताम् । आकार- शब्दादाचारक्विबन्तान्निष्ठायां सिद्धम् ॥ क ॥


१ 'मौक्तिकेनवीनकज्ज' . २ 'उरुनितं', 'गुरुनि'. ३ 'वोत्कुट्टिताम्'. ४ 'मदनमदमृ- त्पिण्डेन', 'मदनचन्दनकुंकुमह्ररिद्रामृ'. ५ 'शृङ्गारस्थ'. ६ 'वानयम्'. ७ 'स्पृहयति भट्ट- सोमेश्वरः'