नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 241, कुल 258 में से
संदर्भ में पढ़ेंसप्तम उच्छ्वासः । २१९ विस्फारिततारैक्षगणैरिमामेव पश्यन्नयमाकाशः सग्रहोऽभूत् ॥ क ॥ अयं च चन्द्रश्चन्दनपाण्डुभिः करैरिमामेव परामृशन्मदनानल्दा- ह्मयीं व्रणलेखां कलङ्कच्छलेन हृदयेनोद्वहति ॥ ख ॥ अयमपि समीपोद्यानमारुतोऽस्याः समर्पितकुसुमगन्धः शनैरुत्त- रीयांशुकमाक्षिपन्मदनातुरस्तिर्यक् पतति ॥ ग ॥ सर्वथा २ जितं मनुष्यलोकेन, यत्रैवंविधमचिन्त्यम्, अनालोचनगो- चरम्, अप्रतिमरूपम्, अद्भुतम्, अमूल्यमुदपद्यत स्त्रीरत्नम् ॥ घ ॥ आः प्रजापते, परिणतशिल्पोऽसि । संसार, सनाथोऽसि । मदन, महोत्सवानसि । चक्षुः, कृतार्थमसि । हृदय, पूर्णमनोरथमसि । दूरागमनश्रम, सफलोऽसि ॥ ङ ॥ सकलयुवजनमनोमधुकराकृष्टिकुसुमितलतिके निजनयननिर्जित- राजीवे जीव चिरम् ॥ च ॥ तथाहि । लक्ष्मीं बिभ्राणयोः कांचिच्चञ्चद्भ्रूभङ्गभागयोः । बलिं यामो वयं तन्वि तवाब्जसदृशोर्दृशोः ॥ ३४ ॥ अपि च । किंनरवदनविनिर्गतपञ्चमगीतामृते श्रुतिं श्रयति । हरति हरिणीदृशो दृक् सालसवलिता च लुलिता च' ॥ ३५ ॥ विस्फारीति ॥ तारा नक्षत्राणि कनीनिका च । ग्रहाः सूर्यादयो भूताद्यभि- निवेशाश्च ॥ क ॥ अयमपीति ॥ अन्योऽपि स्मरातुरः कुसुमगन्धं कस्तूरिकादि चार्पयन्संव्या- नाकर्षणपरस्तिर्यक्पतति ॥ ग ॥ आः प्रजेति ॥ ‘संसार’ इत्यादीनि प्रत्येकं संबोधनानि ॥ ङ ॥ लक्ष्मीमिति ॥ हे तन्वि, तव नेत्रयोर्वयं बलिं याम उपहारीभवाम इति परम- प्रीतिगर्भा लोकोक्तिः । अब्जानि लक्ष्मीं बिभ्रति । तथा भ्रूरेव भङ्गस्तरङ्गः स भाग एकदेशो ययोः । यदा तु ‘चञ्चद्भ्रूभृङ्गसङ्गयोः’ इति पाठः तदा भ्रुवावेव भृङ्गौ तयोः सङ्गो यत्र ॥ ३४ ॥ किंनरेति ॥ यत एव हरिणीदृक्, अत एव गीतानुरागलक्षणं हरिणी हेवाक- मनुसरति ॥ ३५ ॥ १ 'अयमपि समीरणः समीपोद्यानगतोऽस्याः'. २ 'सर्वथा स्वलोकायितं म'. ३ 'कृतश्रवणासङ्गयोः'.