नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 242, कुल 258 में से
संदर्भ में पढ़ें१२० नलचम्पूः । इत्यनेकविधानि चिन्तयन्मृदुलीलापदैरागत्य गीतगोष्ठीस्थितस्य 'कोऽयम्' इति विस्मयैविस्फारितलोचनस्य संभ्रमवतः सखीकदम्बकस्य मध्यमविशत् ॥ क ॥ प्रविष्टे च तस्मिन्, आकस्मिकविस्मयेन विस्फारितानि, भयेन भ्रमितानि, कौतुकेनोत्तानितानि, व्रीडया वलितानि, मुदा मिलदरा- लपक्ष्मणि, स्मराकूतेन विलुलितानि, दिदृक्षारसेनानिमिषाणि, दृष्टि- संघट्टनेन मुकुलितानि, विलासेन मिलितानि, चिरं चक्षूंषि बिभ्राणाः किमपि चलितासनम्, उत्कम्पितहृदयम्, अपसरद्धैर्यम्, अवगल- त्स्वेदसलिलम्, उत्फुलकिताङ्गम्, अनङ्गभङ्गुरम्, अवलोकितान्योन्य- मुखमवतस्थिरे तदभिमुखाः सख्यः ॥ ख ॥ दमयन्त्यपि 'देवी, वर्धयामो वर्धयामः । कोऽपि कस्याश्चिज्जीविते- श्वरोऽयमैत्रावगतो दृश्यते' इति हर्षोत्कर्षगद्गद्गिरां, गीतमुत्सृज्य स- संभ्रमोत्थितकुब्जवामनकन्यकानां मृदुकरतलतालिकाकलितकलक- लेन मनाग्विलासवलितमुखी तदभिमुखमवलोक्य शय्यातलादुदच- लत् ॥ ग ॥ 'आः कुतोऽस्यानेकप्रकाररक्षक रक्षते पक्षिणामपि दुष्प्रवेशे विशे- षतो राजन्यां कन्यान्तःपुरे प्रवेशः' इत्यद्भुतरसावेशस्तिमितेन किंचि- त्संचारितेन चक्षुषा पुनःपुनर्नलमवलोक्य चिन्तयांचकार ॥ घ ॥ धन्या काप्युपराधितांद्रितनया यस्यास्त्वमाह्लादय- न्मुक्ताहार इव प्रसारितभुजः कण्ठे विलोठिष्यसि । धातस्तात तवापि धन्यममुना सृष्टेन मन्ये श्रमं मातर्मेदिनि वन्द्यसे किमपरं यस्यास्तवायं पतिः' ॥ ३६ ॥ एवं चिन्तयन्त्येव तत्कालमाकूतकौतुकहर्षभयाद्यनेकरसपरम्परा- परावर्तितनयनोत्पला लज्जावनमितमुखी विधेयविवेकवैकल्यमभजत ॥ ङ ॥ धन्याकेति ॥ मातृशब्दं जननीपर्यायमपि स्त्रियः सपत्न्यादिष्वपि प्रणयसं- बोधने प्रयुञ्जते इति नले भूपतावप्यर्थिन्या दमयन्त्या 'मातर्मेदिनि' इति संबो- धनं न दुष्टम् । अन्यथा सपत्नीं प्रति मातरित्यामन्त्रणमनुचितम् ॥ ३६ ॥ १ 'इत्यनेकविधं'. २ 'विस्मयविस्मित'. ३ 'सखीजनकद'. ४ 'तानि चचि'. ५ 'तलाज्जवादुद'. ६ 'अनेकप्रासादरक्षणारक्षि', 'प्रकाररक्ष'. ७ 'राजकन्या'. ८ 'किंचि- त्साञ्चितं'. ९ 'करः'.