नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 243, कुल 258 में से
संदर्भ में पढ़ेंसप्तम उच्छ्वासः । २२१ नलोऽपि 'विहंगवागुरिके, भवत्स्वामिन्याः किमेवंविधः समाचारः, यदभ्यागतजनेन सह स्वागतालापमात्रेणापि न क्रियते व्यवहारः' इति तस्याः समीपवर्तिनीं पूर्वपरिचितां किंनरीमभाषत ॥ क ॥ सापि ससंभ्रमप्रणामपूर्वमिदमवादीत् ॥ ख ॥ 'किंचित्कम्पितपाणिकंकणरवैः पृष्टं ननु स्वागतं व्रीडानम्रमुखाव्जया चरणयोर्न्यस्ते च नेत्रोत्पले । द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हृदि स्वामिन्किं न तवातिथेः समुचितं सख्याऽनयाऽनुष्ठितम्॥३७॥ तदितः ससंभ्रमोत्थितयानया समर्पितमिदमुल्लसन्मणिपर्यङ्किका- पृष्ठमधितिष्ठतु देवः ॥ ग ॥ त्वमपि देवि, विद्रुममणिपर्यङ्किकामिमामदूरवर्तिनीमध्यास्व ॥ घ ॥ भवतु च भवतोः परमुखेन श्रुतान्योन्यस्वरूपयोरिदानीमात्मानुभ- वेन नयननिर्वृतिः, फलन्तु मनोरथाः सखीनाम्' इति ॥ ङ ॥ तयाभिहितौ तौ सर्वसत्वरसखीकरपरामृष्टयोः स्फटिकप्रवालपर्य- ङ्किकयोरुत्सङ्गभागं भेजतुः ॥ च ॥ ततश्च तौ हर्षाद्वाष्पचिते, भयाच्चरलिते, विस्फारिते विस्मया,- दौत्सुक्यात्स्तिमिते, स्मराद्विलुलिते, संकोचिते लज्जया । रूपालोकनकौतुकेन रमसादन्योन्यवक्त्राम्बुजे किंचित्साचि च संमुखं च नयने संचारयामासतुः ॥ ३८ ॥ तत्र च व्यतिकरे अन्तः केवलमुल्लसन्ति न पुनर्वाचां तु ये गोचरा येषां नो भरतादयोऽपि कवयः कर्तुं विवेकं क्षमाः । लज्जामन्थरयोः परस्परमिलद्दृष्टिप्रपाते तयो- स्ते सर्वे समकालमेव हृदये केऽप्याविरासंन्नरसाः ॥ ३९ ॥ अपि च । तत्र च व्यतिकरे कर्णान्तकृष्टवलयीकृतचापचक्र- श्वञ्चद्गुणस्खलनजर्जरितप्रकोष्ठः । लक्ष्यद्वयेऽपि युगपद्विशिखान्विमुञ्च- न्संधानसत्वरकरः श्रमवान् स्मरोऽभूत् ॥ ४० ॥ १ विनोदाः २ रासाः