नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 244, कुल 258 में से
संदर्भ में पढ़ें२३२ नलचम्पूः । अनन्तरमाप्तसखीवचनेन स्वयमर्घदानोद्यतां ताम् 'अलमलमुत्प- लाक्षि, प्रयासेन । न खल्वसि पात्रं परिश्रमस्य । न पारिजातमञ्जरी जरठपवनप्रेङ्खोलनायासं सहते' इति दमयन्तीमभिधाय तस्याः स्वादु- दुर्लभसूक्तिसुधासेककोमलालापपण्डिताभिः सखीभिः सह परिमित- परिहासेन, किमपि जल्पन्, किमपि हसन्, किमपि हासयन्, मुहू- र्तमिवासांचक्रे ॥ क ॥ चिन्तितवांश्च । लीलाताण्डवितध्रुवोः स्मरभरभ्रान्तोल्लसत्तारयो- रन्तर्मौक्तिकमालिकाधवलयोर्मुग्धस्मितस्मेरयोः । किंचित्साचिदृशोः कृतानिलचलन्नीलोत्पलस्पर्धयो- रुल्लोलैरिव याति पक्ष्मलदृशः कान्तिर्मदीये मुखे ॥ ४१ ॥ अपि च । दरमुकुलितनेत्रप्रान्तपर्यस्ततारं तव तरुणि सलज्जं सस्मितं सस्मरं च । क्षणमभिमुखवक्त्रे विस्मयस्मेरदृष्टौ मयि वलति वलक्षं वीक्षितं मा निरौत्सीः ॥ ४२ ॥ किंचान्यदपरमिदमाशास्महे । लावण्यामृतदीर्घिका कुलगृहं सौभाग्यसौन्दर्ययो- स्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्रं समाः । लोकालोकनकौतुकाय बहुना शिल्पश्रमेणादरा- न्मन्ये यां विधिना विधाय विहितं सृष्टेर्ध्वजारोपणम् ॥४३॥ अहो आश्चर्यम् । रङ्गत्यङ्गे कुरङ्गाक्ष्याश्चक्षुर्मे यत्र यत्र तु । दृश्यते तत्र तत्रैव बलोद्वाणकरः स्मरः ॥ ४४ ॥ लीलेति ॥ उल्लोलैर्याति तरङ्गैः स्फुरति ॥ ४१ ॥ दरेति ॥ तवाभिमुखवक्त्रे मयि एवं गुणविशिष्टं वीक्षितं वलक्षं धवलं मा निरौत्सीः ॥ ४२ ॥ लावण्येति ॥ आलोकनाय कौतुकमालोकनकौतुकम् । लोकस्यालोकनकौतु- कम् । तेन पश्यतु लोको, द्रष्टव्यदर्शनादृष्टफलमाप्नोत्वित्यर्थः ॥ ४३ ॥ रङ्गेति ॥ तुः पुनरर्थे । किं पुनः यत्र यत्राङ्गे चक्षू रङ्गति तस्य साधिष्ठान- त्वात् । स्मरवाणबाधा प्राप्यते ॥ ४४ ॥ १ 'निरोधीः', 'विरोधीः'. २ 'सौन्दर्यसौभाग्ययोः'. ३ 'विहाय'. ४ 'हि'. ५ 'ब्लान्- बाण', 'चलद्वाण'.