नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 25, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । ११ यत्र च मनोहारिसारसंद्वन्द्वास्तत्पुरुषेण द्विगुना चाधिष्ठिताः काद- म्बरीगद्यबन्धा इव दृश्यमानबहुव्रीहयः केदाराः ॥ क ॥ किं बहुना । नास्ति सा नगरी यत्र न वापी न पयोधरा । दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥ २६ ॥ अपि च । भवन्ति फाल्गुने मांसि वृक्षशाखा विपल्लवाः । जायन्ते न तु लोकस्य कदापि चै विपप्लवाः ॥ २७ ॥ यत्र सौराज्यरञ्जितमनसः सकलसमृद्धिवर्धितमहोत्सवपरम्परार- यत्रेति ॥ किंभूताः केदाराः । मनोहारिणि सारसानां द्वन्द्वानि येषु । तथा तत्पुरुषेण तत्स्वामिना द्विगुना गोयुगयुक्तेनाधिष्ठिताः बहवोऽपि गावः सन्ति । द्विगुनेति चोपलक्षणम् । अथवा चकारोऽप्यर्थे । द्विगुणापि तत्पुरुषेणाधिष्ठिताः । तथा दृश्यमाना बहवो व्रीहयो येष्विति भूमेः सस्यसंपदुक्ता । गद्यबन्धास्तु मनो- हारिणः साराः श्रेष्ठाः । सद्द्वन्द्वाः द्वन्द्वसमाससहिताः । तथा तत्पुरुषेण द्विगुना च समासेनाधिष्ठिताः । तथा दृश्यमानबहुव्रीहिसमासाः । तथाच द्वन्द्वतत्पुरुषद्विगुब- हुव्रीहिसमासबहुला इत्यर्थः ॥ क ॥ नास्ति सेति ॥ यत्र देशे सा क्वापि नगरी नास्ति । यस्यां न वापी निपा- नम् । न पयोधरा पयःप्रधाना भूमिः । नच तरुणी पीनस्तनी स्त्री दृश्यते । यदि पुनस्त्रयमपि चतुर्थपादेन विशेषणीकर्तुमाग्रहस्तर्हि पयोभूम्योरेवं व्याख्यायते । ‘णु स्तुतौ’ । नवं स्तुतिमाप्तुतोऽभीक्ष्णमिति नवापिनी । तथाभूते इनपयसी स्वामिजले धरतीति तथोक्ता वापी । भूस्तु वपन्त्यभीक्ष्णमिति वापिनः कर्षकास्ते- षामिना आजीवहेतुत्वात्स्वामिनः पयोधरा मेघा यस्यां तथाभूता । पश्चात्तन्नसंबन्धः। अवृष्टिनिष्पाद्यसस्येति भावः । अयमर्थस्तेनार्हः । प्रशस्तस्वामिपयस्का वापी, अवृष्टिनिष्पादितसस्या भूमिः, तरुणी पीनस्तनी च कान्ता, यस्यां दृश्यते सैव नगरी यत्र देशेऽस्तीति । अथवा यत्र देशे सा नगरी नास्ति यस्यां नगर्यां वापी स्त्री च न दृश्यते । कीदृशी वापी । न न पयोधरा । अपि तु पयोधरा । नञ्द्वयस्य प्रकृतार्थसूचकत्वात् । स्त्री च किंभूता । नवा तरुणी । तथा पीनप- योधरा । सर्वासपि नगरीषु पयोधरा वाप्यस्तरुणयः पीनस्तन्यश्च स्त्रियो दृश्यन्त इति भावः ॥ २६ ॥ भवन्तीति ॥ शाखा विगतपल्लवा यत्र भवन्ति । जनस्य विपदां लवा अपि न स्युः ॥ २७ ॥ 'यत्रेति ॥ यत्र जनाः खर्गिणमपि न्यक्कुर्वन्ति । कुलीना अभिजाताः । विमा- १ 'मासे'. २ 'च'. ३ 'न'. ४ 'यत्र च'. ५ 'समृद्धिवृद्धिवर्धित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA