नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 26, कुल 258 में से
संदर्भ में पढ़ें१२ नलचम्पूः । म्मनिर्भरः, सततभकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानभंगाः, कतिपयवसुविराजितमनेकवसवः, समुपहसन्ति स्वर्गवासिनं जनं जनाः ॥ क ॥ कथं चौसौ स्वर्गान्न विशिष्यते ॥ ख ॥ यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपालाः । केवलं न सुराधिपो राजा । नैच विनायकः कश्चित् ॥ ग ॥ यत्र चलतासंवन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु ॥ घ॥ यत्र चमरकवार्ता परमहिमोपघातश्च तुहिनाचलस्थलीषु श्रूयते न प्रजासु ॥ ङ ॥ यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः, सवटोऽप्यटसंकुलः, कारू- पयुतोऽप्यगतरूपशोभः ॥ च ॥ नता तिरस्कारः । वसु धनम् । पक्षे कुः पृथ्वी तस्यां लीनाः । विमानं देवयानम् । वसवोऽष्टौ ध्रुवादयः । देवन्यक्कारस्तुल्यार्थे व्याख्येयः ॥ क ॥ कथं चायं स्वर्गान्नाधिकः ॥ ख ॥ यत्रेति ॥ गौर्यो गौराङ्गयः शुद्धोभयान्वया वा स्त्रियः । महानीश्वरोऽतिसमृद्धः। सहश्रिया शोभया सश्रीकाः । हरयोऽश्वाः । धनप्रदा नृपाः । स्वर्गे त्वेकस्मिन्नेव गृहे गौरी उमा । एक एव महेश्वरः शिवः । सलक्ष्मीको विष्णुरेव एव । न बहवः । धनदः कुबेर एकस्मिन्नेव स्थान एक एव । केवलं परम् । अधिपिवतीत्यधिपः । सुराया मद्यस्याधिपः सुराधिपो न राजा । नच कोऽपि विरुद्धनायकः । सुरामधि- पिवतीति वाक्ये लक्ष्यदूषणमप्रसङ्गात् । सुराप्रपावत् । स्वर्गे तु सुराणामधिप इन्द्रः । विनायको गणेशः ॥ ग ॥ यत्रेति ॥ लतासंबन्धो वल्लीयोगः । कलिकाया उपक्रमः । पक्षे 'चलतासं- बन्धः' इति समुदितं पदम् । चलता लौल्यम् । कलिः कलहः । कोपः क्रुधू । तयोः क्रमः ॥ घ ॥ यत्रेति ॥ चमरका गोविशेषाः । परममुत्कृष्टं हिमं तुहिनम् । पक्षे मरको मरणबाहुल्यम् । परस्य महिमा माहात्म्यम् । तस्योपघातः ॥ ङ ॥ यश्चेति ॥ न विद्यत ईतिरूपद्रवोऽस्मिन्नित्यनीतिः । वटा न्यग्रोधाः । अवटाः कूपादिगर्ताः । कारवः शिल्पिनः । तथा न गता न भ्रष्टा रूपशोभा यस्य । अगै- र्नेगैस्तरुभिश्चोपशोभा यस्येति वा । अपिर्विरोधे । स च तुल्यार्थेनाव्याख्या । कुत्सितमीषद्वारूपं कारूपम् ॥ च ॥ १ 'सङ्गाः'. २ 'राजित'. ३ 'स स्वर्गलोकान्न'. ४ 'सर्वत्र महेश्वरः'. ५ 'न विनायकः'. ६ 'कारूप्यम्'.