नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 27, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । १३ यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलहं लेखशालिकाः, मित्रोदयद्वेषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजीवविर्घातं ग्रीष्म- दिवसाः, कुर्वन्ति न जैनाः ॥ क ॥ किं बहुना । देशः पुण्यतमोदेशः कस्यासौ न प्रियो भवेत् । युक्तोऽनुक्रोशसंपन्नैर्ये जनैरिव योजनैः ॥ २८ ॥ तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः । तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥ २९ ॥ जननीतिमुदितमनसा सततं सुखामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥ ३० ॥ यस्यामभ्रंलिहेन्द्रनीलशालशिखरसहस्रनिँभृतांशुजालवालशाद्वला- ङ्कुराग्रग्रौसलालसाः सर्व्वलन्तः खे खेदयन्ति मध्यैदिनं सादिनं रविर- थतुंरंगमाः ॥ ख ॥ यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगँतासु संचरद्गृहिणी- चरणालक्तकपङ्क्तिषु पतँन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणरुणक- नलकाङ्क्षया मुग्धमधुपपटलानि ॥ ग ॥ यत्र चेति ॥ इदमेते कुर्वन्ति न जनाः । गुरुर्वृहस्पतिः । मात्रा वर्णावयवः । मित्रः सूर्यः । बन्धुजीवं बन्धूकम् । पक्षे सुगमम् । मात्रा जनन्या सह ॥ क ॥ देश इति ॥ अनुक्रोशेन कृपया संपन्नैर्जनैर्युक्तोऽसौ देशः सर्वस्यापि प्रियः । पक्षेऽनुक्रोशे संपन्नान्यन्नजलतृणादिभिः समृद्धानि । अथवाऽनुगताः परस्परसंबद्धाः क्रोशा अनुक्रोशास्तैः संपन्नानि ॥ २८ ॥ तस्येति ॥ पुरुषोत्तमो विष्णुः पुंश्रेयाश्च ॥ २९ ॥ जनेति ॥ जनस्य नीत्या हृष्टमनसा सुप्रभुणा कृतहर्षा । तथा न अष्टनया अपि तु सन्नीतिमती । सा पुरी रम्या भाति । यत एवानष्टनया अतएव जनो नीतिमान् । गौरी तु नगस्य हिमाद्रेस्तनया । तथा जननी मातेति हेतोर्हृष्टमनसा । अतएव शोभनेन हर्षोचिताकृतिसुन्दरेण स्वामिना स्कन्देन कृतानन्दा । तथा मनसि हरो यस्याः ॥ ३० ॥ यस्यामिति ॥ शालः प्राकारः । इन्द्रनीलमणिकिरणान्नीलतृणतु·द्याँल्लिलिक्षवः सप्तसप्तयः स्खलन्ति ॥ ख ॥ यस्यां चेति ॥ स्फटिकस्य सलिलं पदपङ्क्तेश्च कमलमुपमानम्॥ ग ॥ १ 'घातम्'. २ 'प्रजाः'. ३ 'नासौ'. ४ 'निःसृतांशु'. ५ 'ग्रासग्रहणलालसाः'. ६ 'स्खलन्तः खेदयन्ति'. ७ 'मध्यंदिने'. ८ 'तुरंगाः'. ९ 'संगतासु'. १० 'निपतन्ति'.