नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 28, कुल 258 में से
संदर्भ में पढ़ें१४ नलचम्पूः । यस्यां च विविधमणिनिर्मितवासभवनभव्यभित्तिषु स्वच्छासु स्वां छायामवलोकयन्त्यः कृतापरस्त्रीशङ्काः कथमपि प्रत्यानीयन्ते प्रियैः प्रियतमाः ॥ यस्यां च दिव्यदेवकुलालंकृताः स्वर्गाः इव मार्गाः, सततमपांसुव- सनाः सागरा इव नागराः, समत्तवारणानि वनानीव भवनानि, सुर- सेनान्विताः स्वर्गभूपा इव कूपार, अधिकंधररोहेशमुद्भासयन्तो हारा इव विहाराः ॥ क ॥ यस्यां च बहुलक्षणाः सुधावन्तो दृश्यन्तेऽन्तः प्रचुराः प्रासादा बहिश्च वारणेन्द्राः । सुशोभितरङ्गाः समालोक्यन्तेऽन्तः संगीतशाला बहिश्च क्रीडाकमलदीर्घिकाः । बहुधान्यनिरुद्धाः कथमप्यभिगम्यन्ते- ऽन्तः पण्यस्त्रियो बहिश्च क्षेत्रभूमयः । नानांशुकविभूषणाः शोभन्तेऽन्तः सभा बहिश्च सहकारवनराजयः । ससौगन्धिकप्रँसारा विराँजन्ते- ऽन्तर्विपणयो बहिश्च सलिलाशयाः ॥ ख ॥ किं बहुना । भूमयो बहिरन्तश्च नानारामोपशोभिताः । कुर्वन्ति सर्वदा यत्र विचित्रवयसां मुदम् ॥ ३१ ॥ यस्यां चेति ॥ दिवि भवैरिब दिव्यै रम्यैर्देवकुलैर्देवगृहैः । पक्षे दिव्यैः स्वर्गोद्भवैः कल्पद्रुमादिभिर्देवानां कुलैरन्वयैर्वालंकृताः । अपांसु रेणुरहितं वसनं वस्त्रं येषाम् । पक्षे सुष्ठु वसन्त्येच्छ्विति सुवसनाः । 'अपाम्' इति कर्तरि षष्ठी । जलाधारा इत्यर्थः । मत्तवारणोऽपाश्रयो मत्तेभश्च । सुरसेन सुजलेन । स्वर्गभूपास्तु सुरसेनया त्रिदशसैन्येनान्विताः । अधिकमिति क्रियाविशेषणम् । धरोद्देशः पृथ्वी- प्रदेशः । विहाराश्चैत्यानि । पक्षे कंधरोद्देश इत्यधिकंधरोद्देशम् । विभक्त्यर्थेऽव्ययी- भावः ॥ क ॥ यस्यां चेति ॥ क्षणो भूमिका । सुधा लेपविशेषः । पक्षे बहूनि लक्षणानि येषाम् । तथा सुष्ठु धावन्तः । रङ्गो नर्तनस्थानम् । पक्षे सुशोभिनस्तरङ्गा येषु । बहुधेति भिन्नं पदम् । अन्यैर्विटैर्निरुद्धाः । पक्षे बहुभिर्धान्यैर्निरुद्धाः । आशुकविः शीघ्रकविः । पक्षे शुकाः पक्षिणः । सुगन्धीनि द्रव्याणि पण्यमेषां ते सौगन्धिका वणिजः कहलाराणि वा । प्रसारो लध्वापणो विस्तरश्च ॥ ख ॥ भूमय इति ॥ बाह्ये आरामैर्मध्ये रामाभिरुपशोभिताः । यस्यां रम्यवयसां यूनां विविधपक्षिणां च मुदं कुर्वन्ति । वपुष्मतां कालकृतावस्था पक्षी च वयः ॥३१॥ १ 'विनिर्मिता' २ 'स्वर्भूपः' ३ 'संगीतकुशला' ४ 'प्रसरा' ५ 'राजन्ते'