भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 29, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 29

प्रथम उच्छ्वासः । १५ यस्यां च भक्तभाजो देवतायतनेषु देवताः संनिधाना दृश्यन्ते हट्टेषु वणिग्जनाः । अक्षरसावधानाः कविगोष्ठीषु कवयो विलोक्यन्ते द्यूत- स्थानेषु द्यूतकाराः । कान्तारागप्रियाः करिणो राजद्वारेषु संचरन्ति वेश्याङ्गनेषु भुजङ्गाः ॥ क ॥ यस्यां च चतुरुदधिवेलाविराजितसकलधराचक्रचूडामणौ मणि- कर्मनिर्मितरैम्यहर्म्यतया सुरपतिपुरीपराभवकारिण्याम् । ॲव्ययभा- वो व्याकरणोपसर्गेषु न धनिनां धनेषु । दानविच्छित्तिरुन्माद्यत्करि- कपोलमण्डलेषु न त्यागिगृहेषु । भोगभङ्गो भुजङ्गेषु न विलासिलो- केषु । स्नेहक्षयो रजनिविरामविरमत्प्रदीपपात्रेषु न प्रतिपन्नजनहृद- येषु । कूटप्रयोगो गीततानविशेषेषु न व्यवहारेषु । वृत्तिकलहो वैयाकरणच्छात्रेषु न स्वामिभृत्येषु । स्थानकभेदश्चित्रकेषु न सत्पुरु- षेषु ॥ ख ॥ किं बहुना । त्रिदिवपुरसमृद्धिस्पर्धया भान्ति यस्यां सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः । यस्यां चेति ॥ भक्तो भक्तिमान् । भक्तं चान्नम् । संनिधानं नैकट्यम् । सम्यङ्निधिश्च । अक्षरं वर्णः । पक्षे अक्षः पाशकः । अक्षरेसे स्थितमवधानं येषाम् । कान्तारे वने अगः सल्लक्यादिवृक्षस्तत्प्रियाः । पक्षे कान्ता वधूः ॥ क ॥ यस्यां चेति ॥ अव्ययभावोऽव्ययत्वम् । पक्षे व्ययो दानादिनोपयोगस्तद- भावः । दानविच्छित्तिमंदशोभा त्यागविच्छेदश्च । भोगः सर्पवपुर्विलासश्च । भङ्ग आमर्दनम् । कुण्डलीकरणमिति यावत् । व्याघातश्च । स्नेहस्तैलादिः प्रेमा वा । प्रतिपन्नानि परस्परप्रतीतानि च तानि जनहृदयानि च गीतस्य ताना द्वये । एके कूटाख्याः पञ्चत्रिंशत् । अन्ये च शुद्धाख्याश्चतुर्दश । एकमेकोनपञ्चाशत् । तेषां विशेषेषु कूटशब्दप्रयोगः । पक्षे कूटं कपटं प्रयोगो व्यापारः । वृत्तिः शास्त्रविवरणम् । आजीवंन च । स्थानकभेदः संमुखं पराङ्मुखं संपूर्णायवरूपं पार्श्वागतम् । ततो भागद्वयेनैकतः पततान्यत्र च घटता क्रमेण ऋजु ऋजुत्वा- गतबर्धार्धार्धऋजुसंज्ञानि चेति स्थितस्थानकानि पञ्च । गमनामालीढं लरितं त्रिभङ्गमित्याख्यानि च चत्वारि गच्छत्स्थानकानीति । एवं च नवानां स्थान- कानां भेदश्चित्रेषु । पक्षे स्थानकस्य रक्षणीयनगरादेर्भेद उपजापो न सत्पुरुषेषु सत्त्वात् ॥ ख ॥ त्रिदिवेति ॥ सुराणां सदनानि प्रासादा विमानानि च । आगृह्णन्त एभि- रित्याग्रहा अङ्कुटकास्तेषु ये ग्रन्थयस्तैर्नद्धाः । वेल्लत्पल्लवैश्चलदञ्चलैः । उल्लसन्ती १ 'भक्तिभाजो'. २ 'हर्म्यरम्यतया'. ३ 'अव्ययीभावो'. ४ 'चित्रेषु'.

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास) · पृष्ठ 29, कुल 258 में से · BharatKosha