नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 30, कुल 258 में से
संदर्भ में पढ़ें१६ नलचम्पूः । नभसि पवनवेल्लत्पल्लवैरुलसद्भिः परममिह वहन्त्यो वैभवं वैजयन्त्यः ॥ ३२ ॥ अपि च । चार्वी सदा सदाचारसज्जसज्जनसेविता । नगरी न गरीयस्या संपदा सा विवर्जिता ॥ ३३ ॥ तस्यामासीन्निजभुजयुगलबलविदलितसकलवैरिवृन्दसुन्दरीनेत्रनी- लोत्पलगलद्बहलबाष्पपूरप्लवमानप्रतापराजहंसः, सकलजलनिधिवेला- वननिखातकीर्तिस्तम्भभूषितभुवनवलयः, विश्रंभराभोग इव बहुधारण- क्षमः, प्रासाद इव नवसुधाहारी, रविरिवानेकधामाश्रयः । दनुजलोक इव सदानवः स्त्रीजनस्य, वसिष्ठ इव विश्वामित्रत्रासजननः, जनमे- जय इव परीक्षितनयः, परशुराम इव परशुभासितः, राघव इवाल- घुकोदण्डभङ्गरञ्जितजनकः, सुमेरुरिव जातरूपसंपत्तिः, तुहिनाचल इव पुण्यभागीरथीसहितः, चिन्तामणिः प्रणयिनाम्, अग्रणीः साङ्गा- मिकाणाम्, उपाध्यायोऽध्ययनविदाम्, आदर्शो दर्शनीयानाम्, आचार्यः शौर्यशालिनाम्, उपदेशकः शंखशाखस्य, परिवृढो दृढप्र- हारिणाम्, अग्रगण्यः पुण्यकारिणाम्, अपश्चिमो विपश्चिताम्, राजद्भिः। वैभवं माहात्म्यम्। सर्वोऽपि विजिगीषुर्वद्धपरिकरः पताकां दर्शय- तीति भावः ॥ ३२ ॥ चार्वीति ॥ चार्वी मनोज्ञा । सततं साध्वाचारप्रह्वसाधुश्रिता सा नगरी पुरी गरीयस्या श्रिया न त्यक्ता ॥ ३३ ॥ तस्यामिति ॥ शत्रुकान्ताश्रुपुरे तरन्प्रताप एव राजहंसो यस्य । तथा जयस्तम्भैर्भूषितभूमण्डलः । तथा स्तम्भोपमोद्दर्ण्डे न्यस्ता शालभञ्जिकेव जयल- क्ष्मीर्यस्य । स वीरसेनतूनुर्नल इति प्रसिद्धो नृप आसीत् । बहुधानेकशो रणे क्षमः । पक्षे बहूनां धारणे क्षमः । आभोगः पूर्णता । वसुधां देवद्विजसंवृद्धां हरत्येवंशीलो न । पक्षे नवया सुधया लेपविशेषेण हारी रम्यः । अनेकधा सप्ताङ्गलाङ्गेषुधा माया लक्ष्म्या आश्रयः । पक्षेऽनेकस्य प्रचुरस्य धाम्न आश्रयः । सदा नित्यं नवो रम्यतयापूर्व एव । पक्षे दानवैः सह । विश्वेषाममित्राणां त्रास- कृत् । पक्षे विश्वामित्रो मुनिः । परीक्षितो नयः षाड्गुण्यं येन । पक्षे परीक्षर- भिमन्युसुतस्य सुतः । परस्मिञ्छुभे आसितः । पक्षे परशुः कुठारः । अलघुको गौरवार्हः । तथा दण्डस्य वधपरिक्लेशार्थहरणलक्षणस्य भङ्गेन मुक्त्या रञ्जितलोकः । पक्षे वृद्धधनुर्भङ्गाहर्षितजनकाख्यनृपः । जाता रूपसंपत्तिर्यस्य । पक्षे जातरूपं १ 'प्लवप्लवमानः'. २ 'जलधि. ३ 'वसुंधरा'. ४ 'दनुलोक'. ५ 'शखशाखेषु'. ६ 'अग्रगण्यैः'.