नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 32, कुल 258 में से
संदर्भ में पढ़ें१८ नलचम्पूः । यश्च कोऽप्यन्यादृश एव लोकपालः । तथाहि । अपूर्वो विबुधपतिः, अदण्डकरो धर्मराजः, अजघन्यः प्रचेताः, अनुत्तरो धनदः ॥ क ॥ येन प्रचण्डदोर्दण्डमण्डपमण्डलीविश्रान्तविजयश्रिया श्रवणोत्पलद्- लायमानमानिनीमानलुण्टाकलोचनेन पृथ्वी प्रिया च कामरूपधारिणी सा तेन भुक्ता ॥ ख ॥ यस्याः सकलजनमनोहारिविशेषकम्, पृथुल्ललाटमण्डलम्, अ- भिलषणीयकान्तयः कुन्तलाः, श्लाघनीयो नासिक्यभागः, बहुलव- लीकः सरोमालिकांलकारश्च मध्यदेशः, प्रकटितकामकोटिविलासः काञ्चीप्रदेशः ॥ ग ॥ किं बहुना । यस्याः कृष्णागुरुचन्दनामोदबहुलकुचाभोगभूषणा नृत्यतीवाङ्गरङ्गे यश्चेति ॥ कोऽपि विस्मयहेतुः । लोकं जगत्पालयन्ति ये तेभ्योऽन्यादृशो विसदृश एव लोकं प्रजां पालयतीति कृत्वा लोकपालः । खोक्तमेव द्रढयति— तथाहीत्यादिना । यतो विबुधानां सुराणां पतिः सपूर्वः पूर्वदिग्युक्तत्वात् । नल- स्त्वपूर्वो उत्कृष्टो विबुधानां विदुषां पतिः । दण्डपाणिर्यमः । नलस्तु न दण्डो वधादिः, करो राज्ञे देयोंऽशो यस्मादित्यदण्डकरः । तथा धर्मप्रधानो राजा धर्मराजः । धर्मविजयत्वात् । प्रचेता वरुणः सह जघन्यया पश्चिमया वर्तते । नलस्त्वजघन्योऽकुत्सितः प्रकृष्टचेताश्च । यदुक्तम्— 'जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्' । धनदः कुबेरः सहोत्तरया दिशा वर्तते । नलस्तु न विद्यत उत्तर उत्कृष्टोऽस्मादित्यनुत्तरः । तथा धनं ददातीति धनदः ॥ क ॥ येनेति ॥ विजयता सुनेत्रेण येन भूः कान्ता च सातेन सुखेन निर्विष्टा भुक्ता । सातं सुखम् । यदमरसिंहः—'शर्मसातसुखानि च' इति । कामरूपो देशविशेषः । प्रिया तु काम्यत इति काममभिलषणीयं रूपम्, काममतिशयेन रूपं वा धरती- त्येवंशीला ॥ ख ॥ यस्या इति ॥ यस्या भुवः विशेषक-लाट-कुन्तल-नासिक्य-मध्यदेश-काञ्ची- इत्येवंरूपा देशाः । लवली लताविशेषः । सरसां मालिका श्रेणिः । कामकोटि- नाम्नी देवी । प्रियापक्षे विशेषकं तिलकम् । ललाटमलकम् । कुन्तलाः केशाः । नासिकायां भवो नासिक्यः । मध्यदेश उदरम् । बहुला बह्व्यो वल्य उदररेखा यत्र । तथा सह रोमपङ्क्तिमण्डनेन । प्रकटितानङ्गोत्कर्षविलासः काञ्चीप्रदेशः श्रोणी ॥ ग ॥ यस्या इति । अङ्गेऽङ्गाख्यदेश एव रङ्गे नर्तनस्थाने निरुपमवायौ सति वनश्रीर्नृत्यतीव । वाततरलनमेव नर्तनम् । कृष्णा पिप्पली । अगरुचन्दनौ वृक्ष- १ 'येन च'. २ 'कृष्णागरु'.