नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 33, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । १९
रमणीयतया निरुपमा नवा यौवनश्रीः ॥ क ॥ किं चान्यत् । अन्य एव नवावतारः स कोऽपि पुरुषोत्तमो यो न मीनरूपदूषितः, नाङ्गीकृतविश्वविश्रंभराभारोऽपि कूर्मीकृतात्मा, न वराहवपुषा क्लेशेन पृथ्वीं बभार, नच नरसिंहः सँमुत्सन्नहिरण्यकशिपुः, न बलिराज- बन्धनविधौ वामनो दैन्यमकरोत्; नापि रामो लङ्केश्वरश्रियमपाहरत्, नापि बुद्धः कल्किकुलावतारी ॥ ख ॥ किं³ बहुना । धन्यास्ते दिवसाः स येषु समभूद्भूपालचूडामणि- र्लोकालोकगिरीन्द्रमुद्रितमहीविश्रान्तकीर्तिर्नलः ।
विशेषौ । तेषामामोदः । बहूनां लकुचानामाभोगो विस्तारः । तौ भूषणं यस्याः । पक्षे चर्चावशात्कालागुरुचन्दनयोरामोदेन व्याप्तस्तनविस्तारमण्डना । नवेति यौवन- श्रीरिति च भिन्नम् ॥ क ॥ किं चेति ॥ कोऽप्यपरिच्छेद्यमहिमा । तथा नवः पूर्वविलक्षणोऽवतारो जन्म यस्य स तथाभूतः । यदि वा 'णु स्तुतौ' इत्यस्य नवाः स्तुतयोऽवतार्यन्ते यस्मि- न्निति स्तवास्पदम् । सर्वोर्वीपतिभ्योऽन्योऽसाधारण एव स नलो राजा । पुरुषे- षूत्तमः । तथा अमो रोगोऽस्यास्तीत्यमी । नामी अनमी नीरोगः । यदि वा नमयति शत्रूनवश्यमिति कृत्वा नमी । प्रतापाक्रान्तारिचक्र इत्यर्थः । तथा न रूपे दूषितः । तथा स्वीकृतधराधुरोऽपि न कूर्मिर्भङ्गुरः । कुत्सितोर्मिः पीडा यस्य स कूर्मिः । अङ्गीकृतभारो हि पीडावान्भवति । यदुक्तम्—'ऊर्मिः पीडाजवोत्कण्ठा- भङ्गप्राकाश्यवीचिषु' । तथा वरमाहवं पुष्णता क्लेशेन न धरामपि तु सुखेनेत्यर्थः । नरेषु सिंहः शौर्यात् । नच समुत्सन्नं हिरण्यं धनं कशिपु भोजनाच्छादनादि यस्मात् । तथा वलिनां राज्ञां बन्धने विधाने वा मनोदैन्यं न चाकरोत् । रामः सुन्दरः । अलमत्यर्थं कस्य ब्रह्मण ईश्वरस्य शंभोश्च श्रियं नापि नच हृतवान् देवस्वापहारी नेत्यर्थः । ब्रह्मेशौ देवानामुपलक्षणम् । बुद्धो विद्वान्न पापिकुलोत्पन्नः । अन्य एव पुराणपुरुषाद्दशावताराद्विसदृश एव नवावतारो नवसंख्यावतारः । कोऽप्ययं पुरुषोत्तमो विष्णुरित्युक्तिलेशः । तत्पक्षे मीनकूर्मवराहनरसिंहवामनरामबुद्धक- ल्किनोऽवताराः । हिरण्यकशिपुबलिलङ्केश्वरास्तत्प्रतिपक्षाः । रामः परशुरामो- ऽपि । तदा । अलमिति भित्त्वा कु ईषद्वीश्वरः केशवः सहस्रार्जुनो जमदग्निहो- मार्जुनीमात्रहरणात् । रामः कृष्णः । तथा केन वायुनेष्टे समर्थो भवति पवना- शनत्वात् । यद्वा कस्य पानीयस्य यमुनाह्रदलक्षणस्येश्वरः स्वामी केशवः कालीय- सर्पस्य श्रियमपजहार ॥ ख ॥
१ 'नाङ्गीकृतविश्रंभरा', २ 'समुच्छिन्न', ३ 'किंच'.