भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 39, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 39

प्रथम उच्छ्वासः । २३ कदाचिन्मयूर इव कान्तोन्नमतपयोधरमण्डलीविलासेन हर्षमभज- त् ॥ क ॥ कदाचिन्नक्षत्रराशिरिवाश्विन्या सेनया संमन्वितो मृगानुसारी बहु- शष्पवनमार्गं बभ्राम ॥ ख ॥ कदाचिदाञ्जनेय इवाक्षविनोदमन्वतिष्ठत् ॥ ग ॥ कदाचिदिति ॥ कान्ताङ्गना काम्या च । पयोधरः स्तनो मेघश्च । विलास उपभोगः स्फुरणं च ॥ क ॥ कदाचिदिति ॥ अश्वाः सन्त्यस्यां तया सेनया युक्तः तथा मृगानुगामी बहुबा- लतृणपथेऽभ्राम्यत् । पक्षे अश्विनीमृगौ नक्षत्रे । इनेन रविणा सह सेनयेत्यश्विनी- विशेषणम् । बहुश इति भिन्नम् । पवनमार्गो द्यौः । अत्र पकारात्प्राग्विसर्जनीय उपध्मानीयो वा । शष्पपदे तु पकार एव । तदेवंरूपभेदेऽपि श्रुतिसाम्यान्न दोष इति कविसमयः । तथाच चण्डदासकृते श्रीचण्डिकाचरिते महाकाव्ये—'पुष्पा- दपामिह सदाधिगमे समृद्ध्या पुष्पाइपाः फलभराच्च विनम्रभावम् । पुष्पादपापि दधतो मुनिवत्सुजन्मापुष्पादपाति मधु साधु मधुव्रतौघाः' । अस्यार्थः—अपां जलानाम् । अधिगमे प्राप्तौ सत्याम् । पुष्पादुकुसुमात् । फलभ्रात्फलातिशयात् च या समृद्धिरस्तया । पादपास्तरवो विनम्रभावमापुः । समृद्धौ हि नम्रता स्यात् । जलाधिगमः पुष्पफलानां हेतुः । तानि च समृद्धेः । सा च नम्रताया इति । तथा पुष्पाणामद्गक्षणं यत्र । तथाऽपापि पापरहितम् । शोभनं जन्म तथा मुनयो दधति । तद्वदेतेऽपि मधुव्रतौघाः सुजन्म धारयन्तः सन्तो मधु मकरन्दमपुः पिबन्ति स्म । पादैरङ्घ्रिभिः पादेषु मूलेषु वा पतन्त्यभीक्ष्णमित्यनेन सधुप्राचुर्योक्तिः । अत्रायु- क्पादयेोः षकार एव । युग्मपादयोस्तु विसर्जनीयोपध्मानीयान्यतर एव न तु षकारः । परं श्रुतिसाम्यान्न दोषः । एवमेव विसर्जनीयजिह्वामूलीयषकारेष्वपि तथा 'ये सहजनिष्कलङ्काचारा अपि भान्ति निष्त्रिकूटगमात् । सुधियः काष्ठाद शंकंधराधिकं सपदि तेऽश्नुवते' । अस्यार्थः—सहजोऽकृत्रिमो नि.कलङ्को निर्दोष- आचारो येषां ते सुधियः काष्ठादशकं दिक्कचक्रं धरैः पर्वतैरधिकमश्नुवते व्याप्नु- वन्ति । स्त्रीणामभावो निष्त्रि । कूटं छद्म । तस्य गमो अंशः इति समाहारद्वन्द्वः । एतेन जितेन्द्रियोक्तिः । अपिर्विरोधे । येषां किल सहजस्वर्णायां लङ्कायां चारो गतिः । ते कथं त्रिकूटाचलगमनाभावेन भान्ति । दशकंधरो रावणः । काष्ठा दिशः । अत्र स्वर्णार्थेनिष्कशब्दे षकार एव निष्कलङ्कशब्दे जिह्वामूलीयविसर्गौ इति बोध्यम् ॥ ख ॥ कदाचिदिति ॥ अक्षैः पाशकैः विनोदं क्रीडाम् । पक्षे अक्षस्य रावणेः । विनोदं वधम् ॥ ग ॥ १ 'सहितः' २ 'बहुशष्पवनमार्गं'.