नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 40, कुल 258 में से
संदर्भ में पढ़ें२४ नलचम्पूः । कदाचिद्वानरेश्वर इव सुग्रीवो वैदेहीति ब्रुवाणस्यालघुकाकुस्थस्यार्थि- नः प्रार्थना क्रियतां सफलेति वानरपुंगवानादिदेश ॥ क ॥ कदाचिन्मकरकेतन इव सुमनसो मार्गणान्विधाय स्वंगुणं कर्णपू- रीचकार ॥ ख ॥ कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः, कृतानिमेषनयनविभ्र- माः, सकंदर्पाः, सिषेवे वेलाविलासिनीः ॥ ग ॥ कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाणराम- भरतप्रेक्षणेन क्षणमाह्लादमनवभूत् ॥ घ ॥ एवमस्य सकलजीवलोकसुखसंतानमनुभवतो यान्ति दिनानि ॥ङ॥ अथ कदाचिदुन्नमतपयोधरान्तरपतद्धारावलीविराजिताः, कमलद्- लकान्तनयनाः, सुरचापचक्रवक्रभुवः, विद्युन्मणिमेखलालंकारधारि- कदाचिदिति ॥ शोभना ग्रीवा यस्य । वै स्फुटार्थे । मह्यं देहीति ब्रुवाणस्य । तथाँ आ समन्ताल्लघ्व्यां काकौ भिन्नकण्ठध्वनौ तिष्ठतीत्यालघुकाकुस्थस्तस्य याच्ञयाव- शात्स्वरभेदवतोऽर्थिनो याचकस्य प्रार्थना सफला क्रियतामित्यमुना प्रकारेण नरपुं- गवान्नरश्रेष्ठनादिष्टवान् । वा समुच्चये । पक्षे वैदेही सीतेति प्रलपतोऽलघोगुंरो रामस्य काकुत्स्थस्य सप्रयोजनस्य प्रार्थना सफला क्रियतामिति वानरपुंगवान्कपीशः सुग्रीवो नियुक्तवान् ॥ क ॥ कदाचिदिति ॥ मार्गणान्याचकान् । इष्टार्थसंप्रदानेन सौमनस्ययुक्तान्वि- धाय स्वस्य गुणं त्यागाख्यं जगतोऽपि कर्णौ पूर्यैते अनेनेति कर्णपूरः । च्वौ कर्ण- पूरीचकार । पक्षे सुमनसः पुष्पाणि । मार्गणा बाणाः । गुणो ज्या । कर्णपूरः कर्णांन्तकर्षणम् ॥ ख ॥ कदाचिदिति ॥ उच्चैःस्तनाभ्यां नाभ्या च रम्या । तथा निर्निमेषनेत्रलीलाः सकामाः । वेलायां वारके विलसन्ति भोगायोपतिष्ठन्त इत्येवंशीला वारस्त्रीः । सिषेवे । अम्भोनिधिस्तु वेला अम्भोवृद्धीः । कीदृशीस्ताः । उच्चैःस्तननेन शब्दे- नाभिरम्याः । तथा कृतमनिमेषाणां मत्स्यानां नयनं प्रापणं यैस्तथोक्ता विविधा भ्रमा आवर्ता यासु । तथा कं जलं तस्य दर्पेण मोक्षेण सह । दृपेर्मोचनार्थत्वात् । तथा विलसन्त्यभीक्ष्णम् ॥ ग ॥ कदाचिदिति ॥ न योद्धुं शक्याऽयोध्या संज्ञा च । तस्यां पुरि । सुमित्रैरुपेतः सुमित्रया कलत्रेण । विलसन्त्यो रामा विलासिन्यो यत्र तेन भरतसंगीतेन विक्री- डद्रामभरतयोरवलोकनेन चाह्लादं नलो दशरथश्च भेजे ॥ घ ॥ ङ ॥ अथेति ॥ अनन्तरं कस्मिन्नपि समये नृपमवेक्षितुं वर्षा अवतारन् । वर्षाश- ब्दगतस्त्रीत्वेन वर्षाणां साक्षात्स्त्रीत्वमध्यवसितम् । ततश्च पयोधरा मेघाः स्तनाश्च । १ 'स्वस्य गुणम्'. २ 'कृतानिमिष'.