नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 41, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः । २५ ण्यः, शिञ्जानामुक्तकलहंसकाः, प्रौढकरेणुसंचारहारिण्यः, कम्रकंधराः, तिरस्कृतशशाङ्ककान्तिकलापोच्चमुखमण्डलाः, सकलजगज्जेगीयमान- गुणमिममनुपमरूपलावण्यराशिराजितं राजानमवलोकयितुमिवावत- रन्ति स्म वर्षाः ॥ क ॥ यत्र च। आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रिता वसुमती दध्रे शिलीन्ध्रध्वजान् ॥ ४० ॥ अपिच। पर्णैः कर्णपुटायितैर्नवरसप्राग्भारविस्फारितैः शृण्वन्तो मधुरं द्युमण्डलमिलन्मेघावलीगर्जितम् । पतद्धारावली पतन्ती धाराश्रेणी चलन्ती हारावली च। यद्वा पयोधरयोः स्तनयोर- न्तर्मध्येऽपतन्तोऽतिसंहतत्वात्प्रविशन्तो हारा यासाम् । तथा वलीभिरुदरे लेखा- भिर्विराजिताः । कमलदलानां कान्तामिष्टं नयनमतिवाहनं यासाम् । वर्षाणां ह्यतिवाहने कमलानामुल्लासः । पक्षे कमलदलवत्कान्तनेत्राः । इन्द्रधनुश्चक्रमेव चक्रे भ्रुवौ यासाम् । पक्षे सुरचापचक्रवद्वक्रध्रुवः । विद्युदेव मणिमेखला तां तथाल- मत्यर्थं कस्य जलस्यारं वेगं धारयन्ति । यद्वा कारस्य राज्ञे देयांशस्य धारिण्यः । वर्षा हि सस्यादिसाधकत्वात्करस्यापि साधनम् । पक्षे विद्योतमानमणिकाञ्चीभूषण- धारिण्यः । शिञ्जाना गर्जन्त्यस्तथा मुक्ता मानसं प्रति प्रस्थापिता हंसका याभिः । यद्वा मुक्तहंसानि कानि जलानि यासु । तत्तसमये हंसानां मानसे गमनात् । पक्षे शिञ्जाने शब्दायमाने आमुक्ते बद्धे हंसके चरणाभरणे यासाम् । प्रकर्षेणोढं कं जलं तेन रजःसंचाररोधिकाः । पक्षे प्रगल्भगजगमनमनोज्ञाः । कं जलं धरन्तीति कंधरा मेघास्ते कम्रा रम्या यासु । पक्षे कंधरा ग्रीवा ॥ छादितश- शाङ्ककान्तयः । तथा काय पानीयाय लापाः कलापाः । कुटुम्बिनीजनगीयमान- रासकाः । तैरूच्चमुखा मेघालोकनायोन्मुखा मण्डला देशा यासु । पश्चात्कर्मधारयः । पक्षे निर्जितेन्दुदीप्त्यतिशयमुच्चमुत्कृष्टमुन्नतकपोलं वा मुखबिम्बं यासाम् ॥ क ॥ आकर्ण्येति ॥ युवा चासौ राजा चेति युवराजस्तस्य भावो यौवराज्यम् । कामस्य तरुणराजत्वपटहोपमं नृत्यत्केकिनां च मृदङ्गविधिं दधानं घनगर्जितं श्रुत्वा मुदेव विकसत्कन्दलच्छलेन पुलकिता भूर्भूत् । शिलीन्ध्रध्वजानधारयत् ॥ ४० ॥ पर्णैरिति ॥ वसन्ते पुष्यन्ति ते धूलीकदम्बा वर्षासु च धाराकदम्बाः ॥ १ 'हंसकाः'. २ 'गुणग्रामम्'. ३ 'वर्षाङ्गनाः'. ४ 'यत्र'. ५ 'कदम्बकस्य'. ६ 'समुच्छ्रितान्'. ३