नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 42, कुल 258 में से
संदर्भ में पढ़ें२६ नलचम्पूः । शाखाग्रप्रथमानसौरभभरभ्रान्तालिपालिध्वजा- स्तोषेणेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः ॥ ४१ ॥ अथ क्रमेण नीरं नीरजमुन्मुक्तं नीरजस्कं भुवस्तलम् ॥ जातं जातिलतापुष्पगन्धान्धमधुपं वनम् ॥ ४२ ॥ अपिच । धुतकदम्बकदम्बकनिष्पतन्नवपरागपरागगमन्थराः । हृततुषारतुषा रतिरागिणां प्रियतमा मरुतो मरुतो वबुः ॥ ४३ ॥ ततश्च । तिरस्कृततरणित्विषि, विगलद्वारिविपृषि, शान्तचातकत्- षि, निर्वाणवारणवपुषि, मानिनीमानग्रहग्रन्थिमुषि, जनितजवासकश्रु- षि, विर्घेववधूविद्विषि, वर्धितमण्डूकहृषि, मुद्रितचन्द्रमसि, विद्राणप- ङ्कजसरसि, स्वाधीनप्रियप्रेयसि, प्रोषितकलहंसवयसि, नष्टनक्षत्रमण्ड- लमहसि, मेचकितनभसि, निष्पतन्नीपरजसि, स्फुटकुटजरंजःपुञ्जपि- ञ्जरिताष्टदिग्भासि, भासुरसुरचापचक्रभृति, मयूरमदकृति, महिषशो- शाखाग्रे मिलन्तः सौरभभराद्भ्रान्ता उपर्युपर्यटन्तश्च तेऽलयश्च त एव पालिध्वजाः प्रसिद्धचिह्नानि येषां ते धाराकदम्बद्रुमाः पुष्पमेव पुलकं मदेन वहन्ति ॥ हर्षहे- तुर्गर्जनश्रवणमेव । रसो जलं रागश्च । अन्योऽपि द्युमण्डलान्मिलन्त्या योषितः शब्दं श्रुतैवंविविधो भवति 'ग्रन्थ बन्धन' इति यौजादिकाद्विकल्पिते णिचि ग्रथितुं शील- मेषामिति चानशि प्रथमानाः । यत्कविरहस्ये 'गाथां ग्रन्थयति प्रथत्यविरतं श्लोकांश्च लोकोत्तरान्गद्यं ग्रथयति स्फुटार्थललितं यो नाटकं ग्रन्थति । ग्रश्नाति श्रुतिशास्त्रयोर्विवरणं ग्रन्थाननेकांश्च यः स्वच्छं यस्य मनः स्वभावसरलं न ग्रन्थते कुत्रचित्' इति । अस्मादात्मनेपदमपि । तथा च । 'वहति जलमियं पिनष्टि गन्धा- नियमियमुद्ग्रथते स्रजो विचित्राः । मुसलमिदमियं च पातकाले मुहुरनुयाति कलेन हुंकृतेन' इति ॥ ४१ ॥ नीरमिति ॥ नीरं जलमम्भोजमुक्तं भूतलं निःपांसु वनं च जातीपुष्पसौर- भान्धभृङ्गं जातम् ॥ ४२ ॥ धुतेति ॥ कम्पितकदम्बद्रुमसमूहान्निःसरन्योऽसौ नवः परागस्तत्संगेन मन्थरा मन्दाः ॥ तथा ऊढसीकरकणाः ॥ तथा रतिरागोऽस्ति येषां तेषामतिद- यिता मरुतो वाता मरोः पर्वताद्ध्रान्ति स्म ॥ परागमेति परापूर्वः पर उत्कृष्ट आगमो वा ॥ ४३ ॥ ततश्चेति ॥ तिरस्कृता रवित्विषो येन । इन्द्रगोपा वर्षासु जाताः क्षुद्रजन्तवः॥ १ 'अथ क्रमेणेति क्वचित्पुस्तके नास्ति'. २ 'मधुकदम्ब'. ३ 'धृत्त'. ४ 'विरहिवधू'. ५ 'कुसुमरजः'. ६ 'दिग्भागभासि'