नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 43, कुल 258 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः। २७ .षहृतौ, विस्तरतत्सरिति, शाद्वलहरिति, विद्योतमानविद्युति, वहन्मन्द- मेघंकरमरुति, हृष्यत्कृषाणयोषिति, पुष्यत्केतकीगन्धपानमत्तमधुकृ- ति, प्रोद्भूतभूरुहि, दरिद्रनिद्राद्रुहि, सगर्वगोदुहि, कदम्बस्तम्बालम्बि- मधुलिहि, मुदितमदनाट्टहासायमानघननादमुचि, पच्यमानजम्बूफल- श्यामलितवनान्तररुचि, रचितपान्थसार्थशुचि, श्रूयमाणमदमधुरमयूर- क्वाचि, विनिद्रकोशातकीशालिनि, यूथिकाजालिनि, नवमालिकामा- लिनि, कन्दलभाजि, पच्यमानजम्बूतुरुवनराजिभ्राजि, भिक्षाक्षणक्षं- पितपरिव्राजि, शान्तसारङ्गरुजि, नीडनिर्माणकुलवलिभुजि, सान्द्रे- न्द्रगोपयुजि, श्च्योतत्तमालधारागृहसदृशि, श्यामायमानदशदिशि, दिवापि श्रूयमाणरजनिशङ्काकुलचक्रवाकचक्रक्रुशि, शकटसंचाररुधि, पल्लवितवीरुधि, विश्रान्तजिष्णुक्ष्मापालयुधि, क्षीणोक्षक्षुधि, क्षीरसमुद्र- निद्राणवाणबाहुच्छिदि, सिन्धुरोधोभिदि, दवदहननुदि, विरहिमनस्तु- दि, जनितजनमुदि, तापिच्छच्छायानुच्छेद्दिनि, छन्नकुटीमध्यबध्य- मानवाजिनि, विकसितवकुलवनविराजिनि, सीरसीमन्तितग्रामसीम- नि, विजयमानमनोजन्मनि, जाते जगज्जीविनि, जीमूतसमये कदाचि- दम्भसि दिवसे मृगयावनपालकः प्रविश्य राजानं विज्ञापयामास ॥क॥ 'देव, किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधद्दीर्घयो- रम्भोमेदुरमेघ एष किमुत श्लिष्यद्बलाकाद्वयः । शून्यः किंनु करेण कुञ्जर इति भ्रान्तिं समुत्पाद्य- न्दंष्ट्राद्वन्द्वकरालकालवदनः कोलः कुतोऽप्यागतः ॥ ४४ ॥ श्च्योतत्क्षरत्तमालानां संवन्धि यद्धारागृहं तस्य सदृशि ॥ क्षीरोदधौ निद्रायमाणे बाणासुरबाहुच्छिद्विष्णुर्यत्र ॥ सीमन्त इव सीमन्तः । ततः करोतिण्यन्तात् क्ते तारकादित्वादितचि वा रूपम् ॥ तस्मिन्नित्थंभूते मेघसमये आखेटकारण्यपालंको नृपं व्यज्ञापयत् ॥ क ॥ किं स्यादिति ॥ दीर्घस्फटिकद्वयोपेतोऽञ्जनगिरिः, वलाकाद्वयान्वितः सजलो जलदः, शुण्डाशून्यो हस्ती, किमिति भ्रान्तिं जनयन्देव कुतोऽपि कोलः सूकर आगात् ॥ ४४ ॥ १ 'मेघाङ्करमरुति' २ 'कृषित', ३ 'चक्रवाकक्रुशि', ४ 'दंष्ट्रायुग्म'