नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
२६ नलचम्पूः । शाखाग्रप्रथमानसौरभभरभ्रान्तालिपालिध्वजा- स्तोषेणेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः ॥ ४१ ॥ अथ क्रमेण नीरं नीरजमुन्मुक्तं नीरजस्कं भुवस्तलम् ॥ जातं जातिलतापुष्पगन्धान्धमधुपं वनम् ॥ ४२ ॥ अपिच । धुतकदम्बकदम्बकनिष्पतन्नवपरागपरागगमन्थराः । हृततुषारतुषा रतिरागिणां प्रियतमा मरुतो मरुतो वबुः ॥ ४३ ॥ ततश्च । तिरस्कृततरणित्विषि, विगलद्वारिविपृषि, शान्तचातकत्- षि, निर्वाणवारणवपुषि, मानिनीमानग्रहग्रन्थिमुषि, जनितजवासकश्रु- षि, विर्घेववधूविद्विषि, वर्धितमण्डूकहृषि, मुद्रितचन्द्रमसि, विद्राणप- ङ्कजसरसि, स्वाधीनप्रियप्रेयसि, प्रोषितकलहंसवयसि, नष्टनक्षत्रमण्ड- लमहसि, मेचकितनभसि, निष्पतन्नीपरजसि, स्फुटकुटजरंजःपुञ्जपि- ञ्जरिताष्टदिग्भासि, भासुरसुरचापचक्रभृति, मयूरमदकृति, महिषशो- शाखाग्रे मिलन्तः सौरभभराद्भ्रान्ता उपर्युपर्यटन्तश्च तेऽलयश्च त एव पालिध्वजाः प्रसिद्धचिह्नानि येषां ते धाराकदम्बद्रुमाः पुष्पमेव पुलकं मदेन वहन्ति ॥ हर्षहे- तुर्गर्जनश्रवणमेव । रसो जलं रागश्च । अन्योऽपि द्युमण्डलान्मिलन्त्या योषितः शब्दं श्रुतैवंविविधो भवति 'ग्रन्थ बन्धन' इति यौजादिकाद्विकल्पिते णिचि ग्रथितुं शील- मेषामिति चानशि प्रथमानाः । यत्कविरहस्ये 'गाथां ग्रन्थयति प्रथत्यविरतं श्लोकांश्च लोकोत्तरान्गद्यं ग्रथयति स्फुटार्थललितं यो नाटकं ग्रन्थति । ग्रश्नाति श्रुतिशास्त्रयोर्विवरणं ग्रन्थाननेकांश्च यः स्वच्छं यस्य मनः स्वभावसरलं न ग्रन्थते कुत्रचित्' इति । अस्मादात्मनेपदमपि । तथा च । 'वहति जलमियं पिनष्टि गन्धा- नियमियमुद्ग्रथते स्रजो विचित्राः । मुसलमिदमियं च पातकाले मुहुरनुयाति कलेन हुंकृतेन' इति ॥ ४१ ॥ नीरमिति ॥ नीरं जलमम्भोजमुक्तं भूतलं निःपांसु वनं च जातीपुष्पसौर- भान्धभृङ्गं जातम् ॥ ४२ ॥ धुतेति ॥ कम्पितकदम्बद्रुमसमूहान्निःसरन्योऽसौ नवः परागस्तत्संगेन मन्थरा मन्दाः ॥ तथा ऊढसीकरकणाः ॥ तथा रतिरागोऽस्ति येषां तेषामतिद- यिता मरुतो वाता मरोः पर्वताद्ध्रान्ति स्म ॥ परागमेति परापूर्वः पर उत्कृष्ट आगमो वा ॥ ४३ ॥ ततश्चेति ॥ तिरस्कृता रवित्विषो येन । इन्द्रगोपा वर्षासु जाताः क्षुद्रजन्तवः॥ १ 'अथ क्रमेणेति क्वचित्पुस्तके नास्ति'. २ 'मधुकदम्ब'. ३ 'धृत्त'. ४ 'विरहिवधू'. ५ 'कुसुमरजः'. ६ 'दिग्भागभासि'
प्रथम उच्छ्वासः। २७ .षहृतौ, विस्तरतत्सरिति, शाद्वलहरिति, विद्योतमानविद्युति, वहन्मन्द- मेघंकरमरुति, हृष्यत्कृषाणयोषिति, पुष्यत्केतकीगन्धपानमत्तमधुकृ- ति, प्रोद्भूतभूरुहि, दरिद्रनिद्राद्रुहि, सगर्वगोदुहि, कदम्बस्तम्बालम्बि- मधुलिहि, मुदितमदनाट्टहासायमानघननादमुचि, पच्यमानजम्बूफल- श्यामलितवनान्तररुचि, रचितपान्थसार्थशुचि, श्रूयमाणमदमधुरमयूर- क्वाचि, विनिद्रकोशातकीशालिनि, यूथिकाजालिनि, नवमालिकामा- लिनि, कन्दलभाजि, पच्यमानजम्बूतुरुवनराजिभ्राजि, भिक्षाक्षणक्षं- पितपरिव्राजि, शान्तसारङ्गरुजि, नीडनिर्माणकुलवलिभुजि, सान्द्रे- न्द्रगोपयुजि, श्च्योतत्तमालधारागृहसदृशि, श्यामायमानदशदिशि, दिवापि श्रूयमाणरजनिशङ्काकुलचक्रवाकचक्रक्रुशि, शकटसंचाररुधि, पल्लवितवीरुधि, विश्रान्तजिष्णुक्ष्मापालयुधि, क्षीणोक्षक्षुधि, क्षीरसमुद्र- निद्राणवाणबाहुच्छिदि, सिन्धुरोधोभिदि, दवदहननुदि, विरहिमनस्तु- दि, जनितजनमुदि, तापिच्छच्छायानुच्छेद्दिनि, छन्नकुटीमध्यबध्य- मानवाजिनि, विकसितवकुलवनविराजिनि, सीरसीमन्तितग्रामसीम- नि, विजयमानमनोजन्मनि, जाते जगज्जीविनि, जीमूतसमये कदाचि- दम्भसि दिवसे मृगयावनपालकः प्रविश्य राजानं विज्ञापयामास ॥क॥ 'देव, किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधद्दीर्घयो- रम्भोमेदुरमेघ एष किमुत श्लिष्यद्बलाकाद्वयः । शून्यः किंनु करेण कुञ्जर इति भ्रान्तिं समुत्पाद्य- न्दंष्ट्राद्वन्द्वकरालकालवदनः कोलः कुतोऽप्यागतः ॥ ४४ ॥ श्च्योतत्क्षरत्तमालानां संवन्धि यद्धारागृहं तस्य सदृशि ॥ क्षीरोदधौ निद्रायमाणे बाणासुरबाहुच्छिद्विष्णुर्यत्र ॥ सीमन्त इव सीमन्तः । ततः करोतिण्यन्तात् क्ते तारकादित्वादितचि वा रूपम् ॥ तस्मिन्नित्थंभूते मेघसमये आखेटकारण्यपालंको नृपं व्यज्ञापयत् ॥ क ॥ किं स्यादिति ॥ दीर्घस्फटिकद्वयोपेतोऽञ्जनगिरिः, वलाकाद्वयान्वितः सजलो जलदः, शुण्डाशून्यो हस्ती, किमिति भ्रान्तिं जनयन्देव कुतोऽपि कोलः सूकर आगात् ॥ ४४ ॥ १ 'मेघाङ्करमरुति' २ 'कृषित', ३ 'चक्रवाकक्रुशि', ४ 'दंष्ट्रायुग्म'
२८ नलचम्पूः ।
ततश्चासौ भिन्दन्कन्दकसेरुकन्दलभृतः स्निग्धप्रदेशान्भुवो भञ्जन्नञ्जनशैलशृङ्गसदृशः फुल्ललतामण्डपान् । मन्दं मन्दरलीलयाब्धिसदृशं मथ्नंश्च लीलासरः क्रोडः क्रीडति भीययन्निव भवत्क्रीडावने रक्षकान् ॥४५॥ राजा तु तदाकर्ण्य चिन्तितवान् । अच्छाच्छैः शुकपिच्छगुच्छहरितैश्छन्नो वनान्तास्तृणैः सेव्याः संप्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः । येषु क्षीरविपाण्डु पल्वलपयः कल्लोलयन्तो मना- ग्वाता वान्ति विनिद्रकेतकवनस्कन्धे लुठन्तः शनैः ॥ ४६ ॥ माद्यन्ति च तेषु संप्रति प्रोथिनः । तद्युज्यते विहर्तुम्' इत्यवधार- यन्नाहूय बाहुकनामानं सेनापतिमादिदेश ॥ क ॥ 'भद्र द्रुतमनुष्ठीयताम्, समादिश्यन्तां कृतवैरिविपत्तयः पत्तयः, पर्याण्यन्तां मनस्तुरगास्तुरगाः, सज्जीक्रियन्तां निजवेगनिर्जितमात- रिश्वानः श्वानः, समारोप्यन्तामपनीताहितायूंषि धनूंषि, गृह्यन्तां नि- र्मथितप्रोथियूथपाशाः पाशाः' इति ॥ ख ॥ अथ मौलिंमिलन्मुकुलितकरकमलयुगलेन सेनापतिना 'यदाज्ञापय- ति देवः' इत्यभिधाय त्वरया तथा कृते सति ॥ ग ॥ स्वयमपि निर्मांसं मुखमण्डले परिमितं मध्ये लघुं कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । भिन्दन्निति ॥ मन्दरलीलया करणभूतया भावयन् ॥ अत्र करणाद्द्वयेना- ल्मात्मनेपदं पुगागमश्च न भवति ॥ ४५ ॥ अच्छाच्छैरिति ॥ चन्द्रकिणो मयूराः । पल्वलमखातं सरः ॥ ४६ ॥ माद्यन्तीति ॥ प्रोथिनः सूकराः ॥ क ॥ भद्रेति ॥ पर्याणं करोत्यश्वानाम् । 'तत्करोति तदाचष्टे' इति णिचि पर्याण- यत्यश्वान् । पश्चात्संबन्धनिवृत्तौ व्याकरणं सूत्रयतीति त्रिलोकीं तिलकयतीतिवत्क- र्मत्वम् । मन इव तुराः शीघ्रा गच्छन्तीति । निर्मथिताः प्रोथियूथपानां वराहयू- थपानामाशा इच्छा यैः ॥ ख ॥ ग ॥ ४७ ॥ १ 'भापयन्'; 'भीपयन्'. २ 'छन्नान्'. ३ 'वनान्तान्'. ४ 'वनेषु'. ५ 'द्रुतं मद्वच- नमनुष्ठीयताम्'. ६ 'विनिर्जित'. ७ 'अथ' इति क्वचित्पुस्तके नास्ति. ८ 'मौलिमण्डल- मिलत्'.
प्रथम उच्छ्वासः । २९ पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैर्युकं प्रशस्तैर्गुणैः ॥ ४७ ॥ आरुह्य च क्रमेण कार्दमिककर्पटावनद्धमूर्धजैर्दण्डखण्डपाणिभिः क्रूरकर्मोचिताकारैर्वागुरावाहिभिरनन्तैः कृतान्तदूतैरिव पाशहस्तैः पां- षर्द्धिकैरनुगम्यमानः, दूरादुन्नमितकंधरैस्तंस्तोध्वंकर्णसंपुटैरकाण्डोड्डीन- प्राणैरिव वनप्राणिभिराकर्ण्यमानहर्षितहयहेषारवः, पवनकंपिततरु- शाखाग्रपल्लवव्याजेन दूरादेवोत्क्षिप्तहस्ताभिरुड्डीयमानशकुनिकुलकोला- हलच्छलेन भयान्निवार्यमाण इव वनदेवताभिः, अभिमुखागतैरनिमिष- चक्षुरुषप्रकरमकरन्दबिन्दुवर्षवाहिभिर्वनविनाशशङ्कितैरर्घ्यमिवोपपा- दयद्भिरुपरुध्यमान इव वनमारुतैः, अनिद्रसान्द्रकुसुमकेसराङ्कुरजाल- जटिलाभिर्भयादुद्गतर रोमाञ्चप्रपञ्चाभिरिवोद्धान्तभृङ्गरवगद्गदरुदितेन निषिध्यमान इव वनवीरुद्भिः, उद्भिन्नभास्वदंमन्दकन्दलावलोकनेनान- न्च्यमानः श्वानुपगतोऽप्यश्वानुगतः सगजमप्यगजं तद्वनमाससाद ॥ क ॥ ततश्च केचिदुद्यतपरश्वधा गणपतयः, केऽपि दृष्टसिंहिकासुतविक्र- माः शशधराः, केऽपि पाशपाणयो जम्बुकदिक्पालाः, केऽपि हरिमा- र्गानुसारिणो बलभद्राः, केऽपि चक्रपाणयो मधुसूदनाः, केऽपि शिवौ- गमावर्तिनो रौद्राः, केऽप्याहिताग्नयो विप्रलोकाः, केऽपि खण्डिताङ्ग- आरुह्य चेति ॥ कर्दमेन नीलीलोहमलादिना रक्तं कार्दमिकम् । श्वभिरश्वै- श्चानुगतो राजा । गजोपेतम् । अगः पर्वतस्तत्समीपोद्देशोऽप्यगस्तत्र जातगमजं तद्वनमाप ॥ क ॥ ततश्चेति ॥ उद्यन्तः पलायमानाः परे उत्कृष्टाः श्वानस्तान्दधति । तथा गणस्य सेनायाः पतयः हेरम्बाश्च उद्गृह्यमाणपरशवः । सिंहिकासुतः केसरिकिशोरो राहुश्च । शशं धरतीति शशधरः पत्तिश्चन्द्रश्च । पाशः पाणौ यस्य स पाशपाणि- र्वरुणश्च । जम्बुकः शृगालो वरुणश्च । यद्विश्वप्रकाशः—'जम्बुकः फेरवे नीचे प्रतीचीदिक्पतावपि' । हरिं सिंहं मार्गं मृगसमूहं चानुसरन्ति । बलेन भद्रा शक्ताः । पक्षे हरेर्विष्णोर्मार्गोऽध्वा बलभद्रो बलदेवः । चक्रं पाणौ यस्य स चक्र- पाणिविष्णुश्च । मधु क्षौद्रं दैत्यश्च । सूदनं क्षरणं मारणं च । शिवा शृगाली तस्या गमो गतिः पक्षे शिवस्यागमाः शास्त्राणि । रौद्रा भीषणाः शैवाश्च । गृहीतहविर्भुजो १ 'हयानां गुणैः'. २ 'पापर्द्धिकपुरुषैः'. ३ 'स्तब्धोर्ध्वकर्ण'. ४ 'प्रकम्पित'. ५ 'व्याजेन'. ६ 'तरुणतरु'. ७ 'उद्भूत'. ८ 'भृङ्गाङ्कनारव'. ९ 'अनन्त'. १० 'केचिदुद्यतपरश्व'; 'प्रतिषिद्धद्यत्यरश्वधा'. ११ 'शिवरामानुसारिणो'.
३० नलचम्पूः । नाधरप्रवालाः प्रभञ्जनाः, केऽप्युत्खातदन्तिदन्तमुष्टयो निस्त्रिंशाः, तस्य पृथिवीपतेराकुलितश्वापदाः पदातयो वनं रुरुधुः ॥ क ॥ ततश्च तैः क्रियन्ते विकलभा वनविकुञ्जाः कुञ्जराश्च, ध्रियन्तेऽने- कधौरयातिपातिनः खङ्गाः खड्गिनश्च, कृष्यन्ते कूजन्तः कोदण्डदण्डा गण्डकाश्च, विक्षिप्यन्ते परितः शराः शरभाश्च, भज्यन्ते तरवस्तरक्ष- वश्च ॥ ख ॥ क्षणेन च पतन्ति पीवरा वराहाः, सीदन्ति दन्तिनः, विरसं रसन्ति सातङ्का रङ्कवः, प्रैकाशैलं शैलं भयादारोहन्ति रोहिताः, शरसंघौ- तघूर्णिता यान्ति महीं महिषाः, दुर्गसंश्रयं श्रयन्ते तरलितनेत्रर्त्रिश्चि- त्रकाः, त्वरिततरं तरन्तीवोत्पतन्तो नभसि निजजवनिर्जिततुरंगाः कुरङ्गाः ॥ ग ॥ तत्र च व्यतिकरे जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः संत्रासोज्झितकर्णतालचलनान्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभू- द्येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डभाण्डोदरम् ॥ ४८ ॥ वीश्शकुन्तानप्रलोकयन्तः पापर्द्धिका हि कपोतादिपातनाय तरूणामधस्तात्तापनीसं- ज्ञकामभीष्टिकां कुर्वन्ति । पक्षे सामिहोत्रा विप्रलोकाः । खण्डिता अञ्जनस्य पक्षि- रूपपक्षिणोऽधरप्रवालाः पुच्छाधःपिच्छानि यैः । यद्वाऽञ्जनस्य शाखिनोऽधःपल्लवाः । वातास्तु खण्डितोऽञ्जनाख्यायाः प्रियाया ओष्ठपल्लवो यैः । उत्खाता दन्तिदन्ता यैस्तयोक्ता मुष्टयः संग्रहा येषाम् । पक्ष उत्क्षिसदन्तिदन्तप्रधानो मुष्टिः त्सरुर्येषु । निस्त्रिंशाः क्रूरकर्माणः खड्गाश्च । ईदृशास्तस्य पत्तयो वनं वेष्टयामासुः ॥ क ॥ ततश्चेति ॥ विगताः कलभा येभ्यस्ते व्यपेतकरिपोताः । कुञ्जरास्तु विक- लकान्तयो भयादिति शेषः । खङ्गा द्विधारत्वादनेकया धारया पतन्त्यभीक्ष्णम् । गण्डकास्तु रयेनातिपतन्ति । य उद्भिन्नशृङ्गाः प्रौढास्ते खड्गिनः । अतएव रया- तिपातिनः । त एव बालका गण्डकाः । अतएव कूजन्तः । तरक्षवश्चित्रका- द्याः ॥ ख ॥ क्षणेन चेति ॥ सातङ्काः सभयाः । रङ्कवो मृगाः । प्रकाशाः स्पष्टा एला लता यत्र शैले । रोहितः श्वापदः । चित्रकोऽपि तद्विशेषः ॥ ग ॥ ४८ ॥ १ 'पल्लवाः '. २ 'धारया पातिनः'. ३ 'प्रकाशरैलम्'. ४ 'संघातघातघूर्णितायाम्'. ५ 'संश्रयन्ति'. ६ 'नेत्रानेत्रकाः'. ७ 'विनिर्जित'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
प्रथम उच्छ्वासः । ३१ राजाप्येकशरप्रहारपातितमत्तमातङ्गः सर्वतो विहारिहरिहरिणशश- कशम्बरवराहहननहेलया विचरन्नितस्ततस्तैरुगततमालमञ्जरी जाल- नीलोद्भूषितस्कन्धकेसरमूर्ध्वस्तब्धकर्णसंपुटमश्वच॑क्राय क्रुध्यन्तमाघूर्णि- तयोणमनवरतकृतघनघोरघर्घररवमुत्क्षिप्तपुँच्छगुच्छमभिमुखमेकस्मि- न्नतिसान्द्रभद्रमुस्तास्तँम्बभाजि पङ्किलपल्वलप्रदेशे तं शूरशूकरमपर- मिव दवदहनर्दग्धमद्रिमद्राक्षीत् ॥ क ॥ दृष्ट्वा च रचितशरसंधानलाघवो राघव इव राक्षसेश्वरस्य तस्योपरि परिणद्धविविधपत्रैः र्पतत्रिभिरैभ्यवर्षत् ॥ ख ॥ तत्र च व्यतिकरे किमश्वः पार्श्वेषु प्लवनचतुरः किंनु नृपतिः शरान्मुञ्चन्नुच्चैर्ध्रुततरकराकृष्टधनुषा । किमालोलः कोलः परिहृतशरः शौर्यरसिको न जानीमस्तेषां क इह परैमो वर्ण्यत इति ॥ ४९ ॥ अपिच । अजनि जनितपृथ्वीमण्डलोत्पादकम्पं किमपि चलितशैलं द्वन्द्वयुद्धं तयोस्तत् । स्खलिततुरगवेगो विस्मयेनैष यस्मि- न्दिनपतिरपि शौर्याश्चर्यसाक्षी बभूव ॥ ५० ॥ अथ कथमपि नाथं प्रोथियूथस्य जित्वा ज्वरित इव विशालं सालसः सौलमूले । सुखमभजत राजा राजमानः श्रमाम्भः- कणकलितकपोलालोललीलालकेन ॥ ५१ ॥ तत्र॑ च स्थितं श्रममुकुलितनयनारविन्दम्, आन्दोलयन्तः कुसुमि- ततरून्, तरलयन्तः शिखिशिखण्डमण्डलानि, ताण्डवयन्तस्तनुलता- अजनीति ॥ स्वभावतोऽपि मध्यन्दिने स्खैलिताश्ववेगो रविस्तत्र कवेरुहः ॥ ५०॥ अथेति ॥ ज्वरित इव सालस इत्यनेन श्रमातिशयोक्तिः । अन्योऽपि ज्वरितो मूलादीनि सेवमानः स्वेदबिन्दुलक्ष्यमाणज्वरापगमो राजते ॥ ५१ ॥ तत्र चेति ॥ श्रममुकुलितनेत्रकमलं नृपं कम्पितनीपकाननाः पवनाः हर्षयां- १ 'तरुणतमाल'. २ 'चक्रायोपरि; चक्रोपरि'. ३ 'कुप्यन्तम्'. ४ 'पुच्छम्'. ५ 'स्तम्बकदम्बभाजि'. ६ 'दग्धमद्रिम्'. ७ 'स राजा दृष्ट्वा च'. ८ 'पत्रिभिः'. ९ 'अभि- ववर्ष'. १० 'द्रुततर'. ११ 'निपुणः'. १२ 'हत्वा'. १३ 'सालमूलम्'. १४ 'तत्र स्थितम्'. १५ 'दिवसस्याष्टमे भागे मन्दीभवति भास्करः' इति वसिष्ठोक्तेः । CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
· ३२ नलचम्पूः ।
[पार्श्वटिप्पणी (वामे)] कुत्र संहारे बने व्यादिः, कुत्र धूलिभाने दिनादिः।
पल्लवनिवहान्, वहन्तो वहन्निर्झरजलशिशिरशीकरनिकरान्, करालय- न्तः कुटजकुड्मलानि, मकरन्दबिन्दुमुचो मन्दमानन्दयामासुः कम्पि- तनीपवनाः पवनाः ॥ क ॥ अनन्तरमनवरतकरालकाककौलेयककुलकवलनाकुलितकोलकरि- कुरङ्गकण्ठीरवकिशोरदृष्टपृष्ठधाविते परितः परिजने, जनितविविध- मृगवधूवधव्यथाधीन्व्यधान्निवारयितुमिवान्तरा न्तरा प्रसारितकरे मध्य- स्थतां गतवति भगवति गभस्तिमालिनि, सहसंवर्धितमृगविनाशशो- कभरादिव वनवीरुधां पतत्सु पुष्पलोचनेभ्यो बाष्पेष्विव मध्याह्नो- ष्णविलीनमकरन्दबिन्दुखु, श्रूयमाणेषु वनदेवतानां वनविमर्दोपालम्भे- ष्विव तरुखण्डोड्डीनविविधविहङ्गविरुतेषु, विघट्टितार्भककुरङ्गकुटुम्बि- नीकरुणकूजितव्याजेनान्यायमिव पूत्कुर्वतीषु वँनराजिषु, इतस्ततः संचरच्चदुलतरतुरंगखुरशिखरशिखोत्खातधरणिमण्डलाङ्कनविनाशवा- र्तां गगनचरेभ्यः कथयितुमिवोत्पतितेऽम्बरतलमकृतर्परित्राणे च मूर्छित इव पुनः पतति भुवि भवनपारावतपतत्रिपत्रधूसरे धूलिपटले, सकम्पकपिंकलापोछलनलुलिततरुतरुणमञ्जरीपुञ्जनिकु- जाँदुद्वेजिते मञ्जु गुञ्जति वनान्तरमपरमुच्चलिते चञ्चलचञ्चरीकच- क्राले, चङ्क्रमणक्रमेण च संपन्ने सैन्यस्य श्रमावसरे तस्यैव सैरै ससर- लशालद्रुमस्याधस्तान्निषण्णे श्रमभाजि राजनि ॥ ख ॥ अकस्मात्कुतोऽपि वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं ग्रीवालम्बितमृन्मणिः परिकुथत्कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्धाऽध्वगः श्रान्तवा- नायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन् ॥ ५२ ॥
चक्रुः । कुटजकलिकानां करालनं विकासकम् ॥ क ॥ अनन्तरमिति ॥ कौलेयकः श्वा । कोलः सूकरः । पूत्करणमार्तव्याहरणम् ॥ ख ॥ वल्लीति ॥ कुथितवती सटिते कौपीनवाससी यस्य । ‘परिकुथत्’ इति पाठे कुथो वर्णकम्बलः । रथ्यानिपतितजरत्पटखण्डैर्निर्मितत्वात् । पटच्चरो जीर्णवस्त्रख- ण्डम् । क्रमुकत्वचा पूगद्रुमवल्केन ॥ ५२ ॥
१ ‘वहन्तो निर्झर’. २ ‘किसलयन्तः’, ‘कलयन्तः’. ३ ‘कौलेय’. ४ ‘पृष्ठतः प्रधा- विते परिजने’. ५ ‘मृगवधव्यथान्’; ‘मृगवधव्याधीन्’. ६ ‘रुतेषु’. ७ ‘वनस्थलीषु’. ८ ‘खुरशिखोत्खात’. ९ ‘परित्राणावमूर्च्छित’. १० ‘पुनः पतति’. ११ ‘कपिकुलकलापोह- लनतरुणतरुमञ्जरी’. १२ ‘उद्विजिते’. १३ ‘सरलशाल’. १४ ‘अश्रमभाजि’.
प्रथम उच्छ्वासः । ३३ आगत्य च राजानमवलोक्य सविस्मयमेवमेष चिन्तयांचकार ॥क॥ 'अब्जश्रीसुभगं युगं नयनयोर्मौलिर्महोष्णीषवा- नूर्णारीमसखं मुखं च शशिनः पूर्णस्य धत्ते श्रियम् । पद्मं पाणितले गले च सदृशं शङ्खस्य रेखात्रयं तेजोऽप्यस्य यथा तथा सजलधेः कोऽप्येष भर्ता भुवः ॥ ५३॥ तदेवंविधाः खलु महनीया महानुभावा भवन्ति' इत्येवमवधार्य समु- पसृत्य 'स्वस्ति स्वकान्तिनिर्जितमकरध्वजाय तुभ्यम्' इत्यवादी- त् ॥ ख ॥ राजापि सविस्मयमना मनागुन्नमितमस्तकः स्वागतप्रश्नेनाभिनन्द्य 'तीर्थयात्रिक, कुतः प्रष्टव्योऽसि । क्व च कियच्चाद्यापि गन्तव्यम् । उपविश । विश्रम्य कथय कांचिदपूर्वां किंवदन्तीम् । अनेकदेशदृश्वा- नः किलाश्चर्यदर्शिनो भवन्तीति । न चाकस्मिकं दर्शनमपूर्वः परिच- यः स्वल्पा प्रीतिरित्येकमप्याशङ्कनीयम् । अपूर्वदर्शनेऽपि न जात्या मणयः स्वां स्वच्छतापह्रुवते । तदेहि । मुंहूर्तमेकत्र गोष्ठीसुखर्मनुभ- वावः' इत्येनमवादीत् ॥ ग ॥ असावपि 'अपूर्वकौतुककथाकर्णनरसिक, श्रूयतां यद्येवम्' इत्य- भिधाय सुखोपविष्टस्यास्य समीपे स्वंयमुपविश्य कथयितुमारभत ॥ घ ॥ 'अस्ति स्वर्गसमः समस्तजगतां सेव्यत्वसंख्याग्रणी- र्देशो दक्षिणदिङ्मुखस्य तिलकः स्त्रीपुंसरत्नाकरः । यस्मिंस्त्यागमहोत्सवव्यसनिभिर्धन्यैरशून्या जनै- रुद्देशाः स्पृहणीयभावभरिताः कं नोत्सुकं कुर्वते ॥ ५४॥ अब्जेति ॥ सजलधेरिति भुवो विशेषणम् । उष्णीषमुत्तमाङ्गे लक्षणविशेषः । तथोर्णा भ्रूमध्ये शुभ्रोमावर्तः । यद्विश्वः—'उष्णीषं तु शिरोवेष्टे किरीटे लक्षणा- न्तरे' । तथा । 'ऊर्णा मेषादिलोम्नि स्यादन्तरावर्त्तके ध्रुवोः' ॥ ५३ ॥ राजापीति ॥ किंवदन्तीं वार्ताम् । जात्या मणयो विशिष्टजातीयरत्नानि । ॥ ग ॥ घ ॥ अस्तीति ॥ स्त्री च पुमांश्च स्त्रीपुंसौ । 'अचतुर—' इत्यादिना निपात्यते ॥ ५४ ॥ १ 'सविस्मयमेष'. २ 'तथा यथा'. ३ 'खलु महानुभावा महनीयाः'. ४ 'अवधार्य- न्समभिसृत्य; अवधार्योपसृत्य; अवधार्यनुपसृत्य'. ५ 'उपविश्य'. ६ 'अपूर्विकाम्'. ७ 'मुहूर्तमेकमेकत्र' ८ 'अनुभवामः' ९ 'कथाताकर्णन' १० 'स्वयमप्युपविश्य'
३४ नलचम्पूः । कथं चासौ न प्रशस्यते ॥ क ॥ यत्र त्रिपुरपुरंध्रोभ्रतिलकहारिणा हरिविरंचिचूडामणिमरीचि- चक्रचकोरचुम्बितचरणनखचन्द्ररुचिनिचयेन भगवता सेव्यते सेव्य- तयाऽपहसितकैलासश्रीः श्रीशैलः शूलपाणिना ॥ ख ॥ यत्र च विकचविविधवनविहारसुरभिसमीररणान्दोलितकदलीदल- व्यजनवीज्यमाननिधुवनविनोदखेदविद्राणनिद्रालुद्रविडमिथुनसनाथ- परिसराः सरसघननिचुलतलचलच्चकोरचक्रवाककुलकपिञ्जलमयूर- हारीतहारिण्यो नाकलोककमनीयतां कलयन्ति कलमकेदारसाराः सरससहकारकारस्कराः कावेरीतीरभूमयः ॥ ग ॥ किं बहुना । अस्तु स्वस्ति समस्तरलनिधये श्रीदक्षिणस्यै दिशे स्वर्गस्पार्धसमृद्धये हृदयहृद्गोदावरीरोधसे । यत्र त्रस्तकुरङ्गकार्भकदृशः संभोगलीलाभुवः सौख्यायतनं भवन्ति रसिकाः कंदर्पशस्त्रं स्त्रियः ॥५५॥ तत्र प्रणतसुरासुरशिरैः शोणमरीचिचयबहलकुङ्कुमानुलेपपल्लवित- पादारविन्दद्वयस्य क्रौञ्चभिदो भगवतः सुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि ॥ घ ॥ तस्माच्च निवर्तमानेन कचिदेकस्मिन्नध्व्ररोधििन न्यग्रोधपादपतले दीर्घाध्वश्रान्तेन विश्राम्यता मया श्रूयतां यदाश्चर्यमालोकितम् ॥ ङ ॥ अतिललितपद्विन्याससारसाधुसिन्धुरवधूह्स्कन्धमधिरूढा, प्रौढ- सखीसहायप्राया, प्रान्तपतच्चारुचामरमरुन्नर्तितालकवल्लरी, कर्णकुव- लयालंकारधारिणी, रुचिररुचिमच्चरणनूपुरा, पुरःसरसराग्गान्ध- र्विककण्ठकन्दरविनिःसरत्सरसगीतप्रेङ्खोलनप्रयोगेषु दत्तावधाना, ने- त्रे मनाङ्मील्यन्ती, ध्रियमाणमायूरातपत्रमण्डला, मण्डलितमदनर्चा- पचक्रवक्रभ्रूः, भूपालपुत्रिका कापि कापि कुतोऽप्युच्चलिता तदेव न्यग्रोधच्छायामण्डपमशिश्रियत् ॥ च ॥ यत्रेति ॥ त्रिशूलपाणिना त्रिपुरान्तकेन । तत्रस्थेन हि त्रिपुरासुरो हतः ॥ ख ॥ १ 'नासौप्र'. २ 'विरिश्चि'. ३ 'सेव्यतया सेव्यते'. ४ 'शिरस्तारशोणमणिमरीचिनि- चयवहुल'. ५ 'सुगन्धगन्ध'. ६ 'रोधिन्यग्रोध'. ७ 'विश्रम्यता'.' ८ 'विन्याससाधु'. ९ 'चारुचामीकरचामर'. १० 'चापवक्र'. ११ 'न्यग्रोधपादपच्छाया; न्यग्रोधपादपपत- च्छाया'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
प्रथम उच्छ्वासः । ३७ तां चालोक्य चिन्तितवानस्मि विस्मितमनाः ॥ क ॥ किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षःस्थला- त्कोपात्पत्युरुतावतारमकरोद्देवी भवानी भुवि । श्यामाम्भोजसदृक्षपक्ष्मलचलन्नेत्रामिमां पश्यतो धातस्तात करोषि किं न वदने चक्षुःसहस्रं मम ॥ ५६ ॥ अपिच । इन्दोः सौन्दर्यमास्यं कलयति कमलस्पर्धिनी नेत्रपत्रे कालिन्द्याः कुन्तलाली तुलयति विभवं भव्यभङ्गैस्तरङ्गैः । तस्याः किं श्लाघ्यतेऽन्यत्सुभगगुणनिधेः काप्यपूर्वैव यस्याः पुष्पेषोर्वैजयन्ती जयति युवजनोन्मादिनी यौवनश्रीः ॥ ५७ ॥ अपिच । आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यँस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयम् ॥ ५८ ॥ सापि यथा त्वमिदानीं मामिह पृच्छसि तथार्धपथमिलितं कांचिदु- दीचीनमध्वगं दक्षिणस्यां दिशि प्रस्थितमादरेण पृच्छन्ती मुहूर्तभिव तत्रैव विश्रमितुमारभत ॥ ख ॥ श्रुतश्चायं मयापि तेन तस्याः पुरः कस्यचिदुँदीच्यनरपतेः श्लाघ्य- मानस्य कैथावशेषालापः ॥ ग ॥ तस्मिन्स्मितमुखे यूनि यूपदीर्घभुँजद्वये । ते धन्या न्यपतन्येषां कंदर्पसदृशे दृशः ॥ ५९ ॥ किं बहुना । सा त्वं मन्मथमञ्जरी स च युवा भृङ्गस्त्वैवोचितः श्लाघ्यं तद्ववतोः किमन्यदपरं किं त्वेतदाशास्महे । आकार इति ॥ उरगप्रभोर्वासुकेर्यथा जिह्वासहस्रद्वयं वर्तते तथा यस्यैतावत्यो जिह्वा भवेयुः स एव वर्णयितुं क्षमो भवेत् । यदा ‘जिह्वासहस्रं मुखे’ इति पाठः । तदा सहस्रशब्दोऽनन्तबहुत्ववचनः ॥ ५८ ॥ ख ॥ सा त्वमिति ॥ अत्राप्रत्यक्षमपि बुद्धिकल्पितं नलं प्रत्यक्षभिव मन्यमानो १ 'यस्य स्यादुरगप्रभोरिव मुखे जिह्वासहस्रद्वयम्'; 'यस्यास्मिन्नुरगप्रभोरिव भवे- ज्जिह्वासहस्रं मुखे'। २ 'उदीचीनं नरपतेः'। ३ 'कथाशेषालापः'। ४ 'भुजद्वया'।
३६ नलचम्पूः। भाग्यैर्योग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः श्रेयानस्तु विधेर्विचित्ररचनासंकल्पशिल्पश्रमः ॥ ६० ॥ तन्न जाने स कः सुकृती तेन तस्याः श्रवणादेवोल्लसद्बहुलपुलका- ङ्कुरोत्तम्भितांशुकायाः पुरो विस्तरेणैवं वर्णितः ॥ क ॥ नच मयापि विस्मयविस्मृतविवेकेन केयं कस्येयं कुत्र कुतो वा प्रस्थितेति प्रश्नाग्रहः कृतः । केवलमदृष्टपूर्वरूपोत्पन्नाकस्मिककौतुका- तिरेकास्तमितसमस्तान्यव्यापारेणैकाग्रतया ग्रहनिरुद्धेनेवान्धेनेव मूके- नेव मूढेनेव मूर्च्छितेनेव संजातसंतमसेनेव विषविघूर्णितेनेव स्तोभस्त- म्भितेनेव गतायामपि तस्यां तेनाध्वनीनेन सह तत्रैव न्यग्रोधतरुतले सुचिरमासितमासीत् ॥ ख ॥ तदायुष्मन्नेष कथितः स्ववृत्तान्तः ॥ ग ॥ तस्यां दिशि तया सकलजगज्ज्योत्स्नया, अस्मिन्नपि देशे निःशेष- जननयनकुमुदेन्दुना त्वया दृष्टेन, दृष्टं यद्द्रष्टव्यम् । अभूच्च मे श्ला- घ्यं जन्म । जाते कृतार्थे चक्षुषी । संपन्नः सफलः परिभ्रमणप्रया- सः ॥ घ ॥ तदिदानीं किमन्यत् ॥ ङ ॥ अनुमन्यस्व स्वविषयगमनाय माम्' इत्यभिधाय न्यरंसीत् ॥ च ॥ राजाप्येतदाकर्ण्य चिन्तितवान् ॥ छ ॥ स्त्रीमाणिक्यमहाकरः स विषयः पान्थोऽप्ययं तथ्यवा- ग्व्यापारोऽपि विधेर्विचित्ररचनस्तत्किं न संभाव्यते । किं त्वाश्चर्यमदृष्टरूपविभवाप्याकर्ण्यमाना सती कान्तेत्युन्नतचेतसोऽपि कुरुते नाम्नैव निम्नं मनः ॥ ६१ ॥ भवतोरित्याह । भवती च भवांश्च भवन्तौ । 'पुमान्स्त्रिया' इत्येकशेषः ॥ मानुषत्वे भूषणभूतत्वात्तयोर्माणिक्यत्वम् ॥ ६० ॥ नेति ॥ स्तोमश्चेष्टाविघातः ॥ ख ॥ स्त्रीति ॥ निम्नमभिलाषादीनत्वालाघवास्पदम् ॥ ६१ ॥ १ 'क्रमः'. २ 'पुरतः'. ३ 'केयम्' इति क्वचित्पुस्तके नास्ति. ४ 'मूकेनेवेति क्वचित्पु- स्तके नास्ति'. ५ 'संजातान्धतमसेनेव'. ६ 'विषघूर्णितेन'. ७ 'मोहसंस्तम्भितेनेव'. ८ 'त्वया चाद्य'. ९ 'पाथः'.
प्रथम उच्छ्वासः । ३७ तथापि । नो नेत्राञ्जलिना निपीतमसकृत्तस्याः स्वरूपामृतं नो नामान्वयपल्लवोऽपि च मया कर्णावतंसीकृतः । चित्रं चुम्बति चुम्बकाश्मकमयो यद्वद्दूलाईरूत- स्तद्वत्तर्जितधैर्यमेतदपि मे तस्यां मनो धावति ॥ ६२ ॥ सोऽयं दुर्लभेष्वनुरागः पुंसाम्, अज्वरमस्वास्थ्यम्, अदौर्गत्यं दौःस्थ्यम्, अविपास्वादनमाघूर्णनम्, असाध्वसं कम्पनम्, अनात्म- विक्रयं पारवश्यम्, अजरं जाड्यम्, अनिन्धनं ज्वलनम्, अलग्नग्र- हमुन्मादनम्, अवात्याघातमुद्भ्रमणम्, अमौनं मौक्यम्, अहीनश्रुति बाधिर्यम्, अनष्टदृष्टिकमन्धत्वम्, अस्खलितमनोरथं मनःस्तम्भनम्, अमन्द आवेशः ॥ क ॥ सर्वथा नमः सुस्थितजनदुर्जनाय मनोजन्मने, यस्यायमेवंविधो व्यापारः' इत्यवधारयन्नवतार्य सर्वाङ्गेभ्यो भूषणानि तस्मै सद्यम- दात् ॥ ख ॥ तैस्तैरालापैः स्थित्वा च कंचित्समयमिममंथ यथाप्रस्थितं पान्थं कथमपि प्रैर्षयामास ॥ ग ॥ स्वयमपि तत्कालान्तरालमिलितैर्नक्षत्रैरिव सार्द्रमृगशिरोहस्तैः स- श्रवणचित्रकृत्तिकोपस्करवाहिभिः पापर्द्धिकपरिजनैरनुगम्यमानो राजा निजावासमयासीत् ॥ घ ॥ नो नेत्रेति ॥ यद्वद्यथा चुम्बकसंज्ञमश्मकम्। पाषाणं कर्म ॥ अयो लोहं कर्तृ ॥ चुम्बति । तथा मेऽपि मनस्तस्यां धावति ॥ ६२ ॥ सोऽयमिति ॥ आवेशो व्यन्तरादेर्मनसि प्रवेशः ॥ क ॥ स्वयमपीति ॥ राजा निजहर्म्म्यमगात् । तत्कालं तत्क्षणात् । अन्तराले- ऽध्वमध्ये । राजा चन्द्रोऽपि । तदा तस्मिञ्ज्योतिःप्रसिद्धे काले कलासमूहे अष्टशतीलक्षणे यदन्तरालं तत्र । मिलितैः परिजनैरनुगम्यमानः । कीदृशैः । सार्द्राणि सास्राक्ष्योतन्ति हरिणशिरांसि येषु तथाविधा हस्ता येषां तैः । सश्रवणां सकर्णाम् । चित्रस्य चित्रकायस्य कृत्तिकां त्वचम् । उपस्करं मृग- योपयोगि वहन्ति तैः । आर्द्रशब्दो भाववचनः । पक्षे सह आर्द्राया नक्षत्र- त्रेण, सार्धे मृगशिरो हस्तश्च नक्षत्रं येषु । श्रवणचित्रे नक्षत्रे । अनयोः समाहारद्वन्द्वः । तेन सह । ताश्च ताः कृत्तिकाश्च तासामुपस्करं समवायं वहन्ति ॥ घ ॥ १ 'अलग्नं ग्रहम'. २ 'स्थित्वा स च'. ३ 'इमं यथा'. ४ 'संप्रेषयामास'. ४
३८ नलचम्पूः । ततःप्रभृति च हृद्योद्यानमरुत्तरङ्गितसरित्तीरे तरूणामध- स्तल्पेऽनल्पसरोजिनीनवदलप्रायेऽपि खिन्नात्मनः । धीरस्यापि मनाङ्मनस्तृणकुटीकोणान्तराले बला- ल्लग्नोऽस्येति विभाव्यते परवशैरङ्गैरनङ्गानलः ॥ ६३ ॥ एवमस्य पुनरपि तदभिज्ञानपृच्छतः पान्थसार्था- न्प्रतिपथमथ यूनो यान्ति तस्य क्रमेण । हरचरणसरोजद्वन्द्वमुद्राङ्कमौले- र्मदनमदनिवासा वासराः प्रावृषेण्याः ॥ ६४ ॥ इति श्रीविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो- जाङ्कायां प्रथम उच्छ्वासः समाप्तः ॥ अथ द्वितीय उच्छ्वासः । अथ कदाचिद्देवगलद्बहलपरिमलमिलदलिकुलाकुलितकुटजकदम्ब- कुसुमकर्णपूरशून्यकाननासु, विश्राम्यन्मदमुखरमयूररसनावलीकलक- णितासु, विरलतरतडिल्लतादलितलावण्यासु, विगतहंसद्विजराजिषु, पतत्पयोधरासु, क्षीणशुक्रासु, वृद्धास्विव गतप्रायासु वर्षासु, रतिमकु- हृद्येति ॥ हृदयस्य बन्धनं हृद्यम् ॥ ६३ ॥ तमसो यत्र विनाशः पथिकोच्छ्वासः पदार्थनिर्भासः । उदयं प्रतिपाद्यासौ भुवनमुदे जयति चण्डरुचिः ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतीलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे प्रथम उच्छ्वासः समाप्तः ॥ अथेति ॥ अनन्तरमितीति सति स राजा निकटकानने विचरन्किन्नरमिथुनेन गीयमानं रागविशेषेणोच्चार्यमाणमिदमिति वक्ष्यमाणमनश्लीलमग्राम्यं श्लोकत्रितय- माकर्णितवान् । किंविरिष्टः । कलहंसा एव हासस्तेन रम्यायां तरुणायामभिनव- प्रवृत्तायाम् । अथ च शरद्रेव तरुणी युवतिः । तस्यामागतायां रागात्स्वयं १ 'सरस्तीरे'. २ 'समविपमकविश्रीत्रिविक्रम'; 'श्रीभट्टत्रिविक्रम'. ३ 'हरचरणसरो- जाङ्कः'. ४ 'प्रथमोच्छ्वासः'. ५ 'विगलत्'. ६ 'बहुल'.
द्वितीय उच्छ्वासः । ३९ र्वाणो मदकलकलहंसहसासहारिण्यामुत्सुकस्तरुण्यामिवागतायां, शरदि, द्विरदमदगन्धसंबन्धानुधाविते कु³सुमितसप्तच्छदच्छायासु वि⁴स्फूर्जति रोषोद्धुषितकेसरकरालकण्ठे कण्ठीरवक⁵दम्बके, गृहदीर्घिकामृणालिका- काण्डखण्डनविरामरमणीयमुन्नदत्सु शरत्समयप्रवेशमङ्गलमृदङ्गेष्विव⁶ हंसमण्डलेषु, स्मरशरनिकरनिर्मथितपान्थ⁷सार्थप्रहाररुधिरनिष्यन्दबि- न्दुसंदोह इव वनस्थलीपून्मिषति बन्धुरबन्धूककुसुमप्रकरे, प्रसरन्तीषु शरल्लक्ष्मीप्रवेशानन्दवन्दनमालासु निःशङ्ककुकुलावलीषु, श्रूयमा- णासु स्मरराजराज्यविजयघोषणासु पक्वकलमगन्धशालिपालिकावा- लिकाहर्षगीतिषु, शर⁹च्छ्रीकटाक्षेपून्मीलत्सु नी१०लनीरजेषु, क्वणति वर्षा- प्राप्तायाम् । उत्सुक उत्क इत्युत्त्यन्तरम् । तदा मदेन क्षीबतया तरुणिमो- द्रेकेण वा कलकलो यस्याः । तथा शुभ्रत्वाद्धंसोपमौ हासहारौ स्तोऽस्यामिति कर्मधारयान्मत्वर्थीयः । न कर्मधारयादिति तु प्रायिकम् । किं विदधानः कुर्वाणः । काम् । रतिं चित्तासक्तिम् । कासु । वर्षासु । किंभूतासु । गतप्रायासु स्वल्पशे- षासु । तथा कुसुमान्येव कर्णपूरा उत्तंशास्त्रैः शून्यानि काननानि वनानि यासु । तथा मदेन मुखराणां मयूराणां या रसनावली जिह्वाश्रेणिस्तस्याः कलक्वणितम् । तद्विश्राम्यद्विरमद्यासु । वर्षोदये हि केकायन्ते न प्रान्ते । मदाभावात् । तथा स्तोकविद्युदुद्द्योतासु । व्यपेतहंसपक्षिपाङ्क्तिषु । अदृश्यद्भानासु । क्षीणशुक्राख्यग्रहासु । कास्विव । वृद्धास्विव । तदा । रतिः संभोगः । गतं प्रकृष्टमयमनिष्टफलं दैवं यासाम् । तथा कुसुमैः पुष्पदामभिः कर्णपूरैश्च शून्यं कं शिर आननं च यासाम् । तथा रसनायाः काञ्च्याः क्वणितस्य मुखरमयूखवो ललितस्य मधुराङ्गविन्यासस्य लावण्यस्य च लोचनलेह्यकमनीयगुणस्य विरलतडिदुपमानम् । तथा व्यपेतहंसशुभ्र- अदन्तरराजिषु पतत्कचासु । तथा क्षीणं गर्भसंभवाभावाद्विनष्टं शुक्लं पुंवीर्यं यासु । न पुनर्निर्वृत्तवीर्यास्विति व्याख्येयम् । पुंसां वीर्ये स्त्रीणां रज इति प्रसिद्धेः । अतएव न विद्यते बलं वीर्यं यासामित्यबलाः । रसनाशब्दः काञ्चीपक्षे न परं तालव्यः । दन्त्योऽप्यस्ति । तथा च विश्वप्रकाशः—'रसना काञ्चिज- ह्वयोः' इति । द्विरदमदगन्धस्य संबन्धो द्विरदमदगन्धोऽयमिति प्रत्यभिज्ञा तयानुधाविते । संधानपाठे तु संधानं संधिमैत्री सादृश्यमिति यावत् । शरदि सप्तच्छदाः पुष्यन्ति । ते च मदगन्धयतस्ततो गजभ्रान्त्या सरोषं विस्फूर्जति सिंहवृन्दे । मृणालिकाकाण्डस्य खण्डनाय योऽसौ विरामोऽर्थात्तादस्यैव । तेन रम्यं यथा भवति स्थिला स्थिला मृणालं चर्वन्ति तत्कषायसंशुद्धकण्ठाश्च नादं कुर्व- १ 'उत्सुकश्च'. २ 'द्विरदमदगन्धसंधानधाविते'; 'द्विरदमदगन्धानुसंधानवासितासु'. ३ 'वासितकुसुमित'. ४ 'विस्फूर्जिते'. ५ 'कुडम्वके'. ६ 'मृदङ्गेषु हंस'. ७ 'पथिकप्रहार'; ८ 'पान्थप्रहार'. ९ 'शरत्श्री'; 'सरःश्री'. १० 'नीलसरोजेषु'. Digitized by S3 Foundation USA
४० नलचम्पूः । वधूप्रस्थानपटहे पट्टरणचक्रवाले, प्रभात इव घनतिमिरविरामरमणी- ये जाते जलनिधिशयनशायिशा शार्ङ्गि निद्राद्रुहि विनिद्रसान्द्रसरससरोज- राजिराजितसरसि शरत्समये, स महीपतिः समासन्नवनविहारिकिंन- रमिथुनेन गीयमानमिदमनश्लीलं श्लोकत्रयमशृणोत् ॥ क ॥ धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् ॥ प्रासादान्स्त्रीसखाः पौराः केदारांश्च कृषीवलाः ॥ १ ॥ नमिताः फलभारेण न मिताः शालिमञ्जरीः ॥ केदारैरेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ २ ॥ प्रावृषं शरदं चापि बहुधाकाशहारिणीम् ॥ विलोक्य नोत्सुकः कः स्यान्नरो नीरजसंगताम् ॥ ३ ॥ अनेन मृदुमूर्च्छनातरङ्गरङ्गिताक्षरेण श्रवणपथप्रथमप्रियातिथिना श्लोकत्रयेण विषैविषमविषयवैरस्यव्रतव्रततिकठिनकुठारेण, दारपरिग्रह- पराङ्मुखोऽपि शृङ्गारशृङ्गिङ्गजसमुत्तुङ्गर्म्मारोप्यमाणस्तदेवोद्यानममन्दम- न्दारमकरन्दामोदमत्तमधुकरमधुरझंकाररमणीयमुपसर्तुमारभत ॥ख॥ न्तीत्यर्थः । हंसमण्डलानि शरत्प्रवेशमङ्गलमृदङ्गाः । बन्धूककुसुमस्यातिलौहि- त्याद्विरहिजनरुधिरलम् । शुकावलिस्तोरणम् । कलमस्य श्वेतशालेः, गन्ध- शालेश्च रक्षिका गीतयः कंदर्पराजजयघोषणाः । विकसन्नीलोत्पलानि शरल्लक्ष्मी- कटाक्षाः । भृङ्गगणश्च यान्त्या वर्षावध्वाः प्रयाणपणवः । घनो मेघो घनं च सान्द्रम् । शयनस्थानम् । निद्राद्रोहो विनिद्रसान्द्रसरोजराजितसरस्त्वं च शरत्प्र- भातयोः समानम् ॥ क ॥ धन्या इति ॥ प्रोल्लसन्त्यश्चित्रशालिका आलेख्यभूमिका येषु । पक्षे चित्रा बहुविधाः शालयः । स्त्रीसखा इत्युभयत्र योज्यम् ॥ १ ॥ कुतः स्त्रीसखा इत्याह—नमिता इति ॥ हि यस्मात्कारणात् । दारेषु के निः- स्पृहाः स्युः । किं कुर्वन्तः । फलभारेण नमिता वक्रिता न मिताः स्तोकाः केदारेषु क्षेत्रेषु शालिमञ्जरीः पश्यन्तः । तद्दर्शनं ह्युद्दीपनविभावः ॥ २ ॥ प्रावृषमिति ॥ रमणीयत्वात् । बहुधा पुनः पुनर्विलोक्य प्रावृषमाकाशस्य व्योम्नस्तिरोधायिनीं नीरजसं निःपांसुं गतामतिक्रान्तां शरदं च काशपुष्परम्याम् । तथा नीरजैः पद्मैः संगतामन्विताम् ॥ ३ ॥ अनेन श्लोकत्रयेण प्रियाग्रहविमुखोऽप्युच्चैः शृङ्गारगिरिशिखरं नीयमानस्तदेव वनं गन्तुमारेभे ॥ ख ॥ १ 'विहारहारि'. २ 'शालमञ्जरी:'. ३ 'केदारेष्विह'. ४ 'वापि'. ५ 'विषमविषय'. ६ 'समारोप्यमाणः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
द्वितीय उच्छ्वासः । ४१ प्रथमसंमुखप्रेङ्खितेन चलच्चन्दनामोदनन्दिनान्दोलनवेगवित्रस्तकु- सुमिततरुशिखरसुमसुरतश्रमखिन्नकिंनरीनिबिडतरपरिरभ्यमाणकिं- नरतमस्कृतेन क्रीडाकमलदीर्घिकातरङ्गोत्सङ्गरङ्गतरुणतामरसरसवि- सरोद्गारहारिणा यौवनमदनिरुद्धनैषधीधम्मिल्लवल्लरीचलनविलासलो- सकेन वनमारुतेनोत्पुलकिततनुः स्तोकमन्तरमतिक्रम्य 'देव, भवद्वैरिवि- धूवदने वने च नारंगत रूपशोभे भान्ति गण्डशैलस्थलालंकारधारिण्यो लोध्रलताः, नागरुचिताश्चन्दनपत्रभङ्गाः, नालिकेरचितस्तिलकः, नवा दृष्टिपथमवतरति घनाञ्जनयष्टिका, नाभिरम्या नीलतमालका, नाध- रीकृतस्ताम्बूलीरागः, पल्लवितमेतद्दृश्यतेऽशोकजालम् । इतश्च काञ्चन- गिरिरिव सुरचितः क्रीडापर्वतः । इतश्च गूर्जरकूर्चमिवाखण्डितप्रवालं वालशालवनम् । इतश्च भवद्वैरिनगरमिवानेकविधवकुलसंकुलं कूप- कुलम् । इतश्च धूर्जटिजटाजूट इव पुंनागवेष्टितो वापीपरिसरः । इतश्च कुरुसेनेव कृताश्वत्थामहिता च क्रीडासरित्पुलिनपालिः ।' इति भङ्ग- तत ईदृग्विधेन वायुना रोमाञ्चिततनुः देवेत्याद्यामन्त्र्य तवारिखीमुखे वने चेदमिति भङ्गश्लेषोक्तिदक्षया वनरक्षिकया कथ्यमानानि वनकौतुकस्थानानि नलो व्यलोकयत् । आन्दोलनवेगेत्यादावान्दोलनं तरोरेव पवनकृतम् । तदरिखीमुखे अरमत्यर्थं गतसौन्दर्ये कपोलफलकालंकारिण्यो लोध्रस्य विलेपनरूपस्य लता मण्डन- वल्लर्यो न भान्ति । अगरुद्रवेण चिताश्चन्दनद्रव्यस्य पत्रभङ्गाः पत्रवल्ल्यः । अलिकं ललाटं तिलकं पुण्ड्रम् । वा समुच्चये । घनं सान्द्रमञ्जनं तस्य यष्टिः शलाका । अभिरम्या संस्कृता । प्रकर्षेण नीलाः कुटिलकेशाः अधरोऽस्यास्तीत्यधरी ओष्ठवान् । ताम्बूलराग ओष्ठसंबद्धः कृत इति भावः । सर्वत्र नञ्संबन्धः । अवतरतीति तु संनिहितमेव योज्यं न प्रत्येकम् । पल्लवितशब्दो लक्षणया प्रवृद्धार्थः । शोकात्सप्र- लापमनोदौस्थ्याजातं शोकजम् । अलमनर्थः । वने च नारङ्गतरुभिः कृतशोभे सहजच्युतस्थूलपाषाणस्थलीभूषणा लोध्रस्य तरुविशेषस्य लताः शाखा भान्ति । नागेभ्यो रुचिताश्चन्दनतरोः पत्राणां भङ्गा विशेषाः । तिलको वृक्षो नालिकेरैस्तरु- भिर्व्याप्तः । नवा नवीना । अञ्जनस्य शाखिनो यष्टिः प्रकाण्डः । तमालका इति ह्रस्वे कः । अतएव नाभिरम्या नाभिदघ्ना इति भावः । नाधरीकृतो न हीनीकृतः । ताम्बूली वल्ली । रागः सक्तिः । किसलयितमशोकानां जालं खण्डः । इतश्च सुष्ठु रचितः सुरैश्चितो व्याप्तश्च । प्रवालाः पल्लवाः । पक्षे अखण्डिताः अतएव प्रवृद्धा वालाः केशा यत्र । अनेकविधैर्बकुलैः संकुलम् । पक्षे अनेका विधवा मृतभर्तृका १ 'अमन्दान्दोलन'. २ 'सुखसुप्त'. ३ 'किंनरीजन'. ४ 'यौवनमदनिरुद्धापाङ्गनै- षधी'; 'यौवनमदरुद्धापाङ्गनैषधीय'. ५ 'हास्यलासकेन'. ६ 'अतिक्रम्य वनपालिका राजानं जगाद' प. ७ 'ताम्बूल'. ८ 'गूर्जर'.
४२ नलचम्पूः । श्लेषोक्तिकुशलया वनपालिकया निवेद्यमानानि वनविनोदस्थानान्यव- लोकयांचकार ॥ क ॥ चलच्चकोरचक्रवाकचक्रचञ्चुचलच्चञ्चरीकचरणचूर्णितचम्पका- ङ्कुरमरिचमञ्जरीदलदन्तुरेण वनमार्गेण स्तोकमन्तरमतिक्रान्तस्तया पुनरेवं बभाषे ॥ ख ॥ 'देव, पुरंदरनन्दिनन्दनोद्यानस्पर्धिनोऽस्य वनस्य किं किं वर्ण्यते ॥ ग ॥ यत्र । त्रिजटाश्रयमनेकजटाः, स्फुरदेकपुष्पकमनेकपुष्पाः, समुद्वे- जितराममानन्दितरामाः, समुपहसन्ति लङ्केश्वरं तरवः ॥ घ ॥ यस्मिंश्च मत्तमयूरहारिणि भद्रभुजंगप्रयाते विचित्रक्रौञ्चपदे छन्दः- शास्त्र इव वैतालीयं मौलिनी शिखरिणी पुष्पिताग्रा च दृश्यते विवि- धा जातिः ॥ ङ ॥ यस्मिंश्च । एकभीमार्जुनविनिर्जितानाक्रान्तानेकभीमर्जुनाः, कोपि- येषु कुलेषु तैः कुलैर्गोत्रैः संकुलम् । पुंनागमगः अन्यत्र पुन्नागो वासुकिः । कृता उत्पादिता अश्वत्थाः पिप्पला यस्याम् । तथा महिता चार्वा । पक्षे कृतमश्व- त्थाम्ने द्रोणसुताय हितं यया ॥ क ॥ चलदिति ॥ संचारयोग्येन मार्गेण कियदपि व्यवधानमतिक्रान्तः पुनरपि तयैष बभाषे ॥ ख ॥ देवेति ॥ देव, नन्दनस्पर्धिनोऽस्य किं वर्ण्यते ॥ ग ॥ यत्रेति ॥ रावणं तरवो हसन्ति । त्रिजटा रावणस्वसा । जटा मूलानि पुष्पकं विमानं कुसुमं च । रामो दाशरथिः । रामाः स्त्रियः । अनेकजटा इत्येकशब्देन संख्योपलक्ष्यते । ततोऽनेकशब्दोऽसंख्यातवचनः ॥ घ ॥ यस्मिंश्चेति ॥ वै स्फुटमियं ताली तालद्रुमः । इयं जातिर्मालती दृश्यते । द्वे अपि कीदृश्यौ । माला अस्यामस्ति । तथा शिखरयुक्ता कुसुमिताग्रभागा च । किंविशिष्टे वने । मत्तैर्मयूरै रम्ये । तथा भद्रं मनोज्ञं भुजंगानांमहीनां विटानां च प्रयातं यत्र । क्रौञ्चः पक्षी । पक्षे मत्तमयूरं भुजंगप्रयातं क्रौञ्चपदा वैतालीय मालिनी शिखरिणी पुष्पिताग्रा च छन्दोनामानि । जातिश्च उक्तादिरु- क्तलन्ता ॥ ङ ॥ यस्मिंश्चेति ॥ वने वीरुधो लताः कुरुवीरान गौरवयन्ति । आक्रान्ता अनेके
१ 'क्वचित्पुस्तके चक्रवाकचक्रेति नास्ति'. २ 'स पुनरेवम्'; 'पुनरेषः'. ३ 'किं वर्ण्यते'. ४ 'मध्यमणिविभूषिते, चम्पकमालाचित्रे, हरिगीताकर्णनसुखे, शार्दूलविक्रीडिते, हरिणी- मनोहरे, सहरिणपुते छन्दःशास्त्रे'. ५ 'शालिनी'.
द्वितीय उच्छ्वासः । ४३ तैकनकुलानाह्लादितानेकनकुलाः, सहदेवेनैकेन स्पर्धमानाननेकैः सह- देवैः संगताः । न बहु मन्यन्ते कुरुचीरान्वीरुधः ॥ क ॥ किं चान्यदवलोकयतु देवः । पटलमलिकुलानामुन्नमन्मेघनीलं भ्रमदुपरि तरूणां पुष्पितानां विलोक्य । मृदुमदकलकेकानिर्भरो नृत्यसक्त- स्तरलयति कलापं मन्दमन्दं मयूरः ॥ ४ ॥ अपिच । भ्राम्यद्विरेफाणि विकासभाञ्जि संयोज्य पुष्पाणि शिलीमुखेषु । इह स्थितः सर्वजगज्जयाय धनुःश्रमं पुष्पशरः करोति ॥ ५ ॥ इतश्च हरिति हरिणयूथं यूथिकाजालमूले कुसुममधुबिन्दुस्यन्दसंदोहभाजि । मधुरमधुकरालीगीतदत्तावधानं लिखितमिव न दूर्वापल्लवानुल्लुनाति ॥ ६ ॥ इतोऽपि सोऽयं क्रीडाचलो भव्य लोभव्यसनवर्जित । यस्मिन्नासन्नसारङ्गा सारं गायति किंनरी ॥ ७ ॥ बहवो भीमा अम्लवेतसा अर्जुनाश्च याभिः । यद्विश्वप्रकाशः—'भीमोऽम्लवेतसे शंभौ घोरे वापि वृकोदरे' । नकुला जीवाः । सहदेवास्तरवः । कुरुवीरपक्षे भीमार्जुननकुलसहदेवाः पाण्डवाः ॥ क ॥ भ्राम्येति ॥ शिलीमुखाः शराः । इहेत्युद्यानस्योद्दीपनविभावातिशयोक्त्या कामस्य स्थितिरुह्यते । एतावता सुरभिकुसुमसंपदुक्ता ॥ ५ ॥ हरितीति ॥ हरिति शाद्वले यूथिकासमूहस्याधःप्रदेशे मधुबिन्दुसंदोहसंबन्धा- त्स্পृहणीयेऽपि गीतरसिकतया मृगाणां दूर्वाङ्कुराग्रहणमुक्तम् ॥ ६ ॥ सोऽयमिति ॥ हे भव्य, हे लोभेन व्यसनैश्च विवर्जित, सोऽयं क्रीडागिरिः । यस्मिन्निरावासन्नमृगा किंनरी सारमुत्कृष्टं गायति । गीतप्रकर्षाकृष्टत्वात्सारङ्गाणा- मासन्नता ॥ ७ ॥ १. 'वर्जितः'
४४ नलचम्पूः । राजते राजतेनायं सानुना सानुनायकः । यस्मिन्निशम्य गायन्तं किंनरं किं न रंस्यते ॥ ८ ॥ इतश्चास्य जनयति जलबुद्धिं बाललीलामृगाणा- मयमिह पटुकान्तिः स्फाटिको भित्तिभागः । इह हरितमणीनामुल्लसन्तो मयूखाः सरसनवतृणालीलोभमुत्पादयन्ति ॥ ९ ॥ इयं च गौरवं गौरवंशस्य पर्वतः पर्वतस्थले । भ्रमरी भ्रमरीणस्य कुरुतेऽकुरुतेन ते ॥ १० ॥ अपिच । इह कवलितकन्दं कंदरे कन्दलिन्यां भुवि विरचितकेलि क्रीडति क्रोडयूथम् । इह सरसिजगर्भभ्रान्तभृङ्गं कुरङ्गाः सरसि सरलयन्तः कन्धरां कं धयन्ति ॥ ११ ॥ इह पुनरनिशं निशम्य भिन्न- द्रुममुकुलानि कुलानि षट्पदानाम् । श्रुतिसुखकरणं रणन्ति वीणां तदनुगुणां गुंणयन्ति किंनरेन्द्राः ॥ १२ ॥ इतश्च क्रीडाचलस्थलकमलदीर्घिकातीरतरुतलमनुसरतु देवः ॥क॥ राजत इति ॥ अयं सानुनायको गिरी रजतनिर्मितेन सानुना तटेन राजते । यस्मिन्गायन्तं किंनरं निशम्य श्रुत्वा न किं रंस्यते । रंस्यत एव ॥ ८ ॥ गौरेति ॥ गौरो वंशोऽन्वयो यस्य तस्य ते । पर्वतस्थले गिरिस्थले । पर्वतो गच्छतः । अतएव श्रमेण देहवैकल्येन भ्रमिसंज्ञेन खिन्नस्य सतोऽकुत्सितरुतेन भ्रमरी भृङ्गी गौरवं प्रतिपत्तिविशेषं कुरुते ॥ १० ॥ इहेति ॥ कं जलम् । धयन्ति पिबन्ति ॥ ११ ॥ इहेति ॥ रणन्तीति शत्रन्तं षट्पदकुलविशेषणम् । तस्य भृङ्गरणितस्यानुगु- णामनुगामिनीम् ॥ १२ ॥ १ 'कंधराः'. २ 'क्वणयन्ति'; 'गणयन्ति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
द्वितीय उच्छ्वासः। ४५ यत्र च वहति नवविकासोल्लासिकिंजल्कलोभ्य- न्मधुकरकृतगीता नर्तयन्नब्जराजीः। वनकरिमदगन्धस्पर्धिसप्तच्छदाली- कुसुमजकणशारः शारदीनः समीरः ॥ १३ ॥ राजा तु तेन तस्याः सकलललितवनप्रदेशप्रकटनप्रियालापप्रप- ञ्चेन परितोषितः 'साधु भोः सारसिके सुभाषितमञ्जरि, साधु । गृहाण पारितोषिकम्' इत्यभिधाय सर्वाङ्गीणाभरणप्रदानेन प्रसन्ननानां तामकरोत् ॥ क ॥ ततश्च संचरच्चटुलभृङ्गविहंगवेगवेल्लद्द्रुकुलचम्पकचूतचन्दनमन्दरा- मन्दस्यन्दमानमकरन्दविन्दुसन्दोहाडम्बरिताकाण्डप्रावृषि, प्रलम्बता- म्बूलवल्लीवलयितनितम्बनिम्बकिम्बजम्बीरजम्बस्तम्बकदम्बके, कुसु- मितकरवीरवीरुधि कोरकितकरञ्जाञ्जननिकुञ्जशिञ्जानशुककपिज्जलॆ, जलदसमयनीरदनीलतमतमालतलताण्डवितशिखण्डिनि, मण्डलित- मदकलकलहंसोत्तंसकमलवापीमण्डिते, मञ्जरितसिन्दुवारसुन्दरामो- दनन्दिनि मन्दतरमारुतान्दोलनविलोलकङ्कोलकुट्मलफलनालिकेरक- वङ्गपूगपुंनागनाग़रङ्गरञ्जितविहङ्गे भृङ्गामुखनखरपक्षराजर्रितसर्जख- र्जूरमञ्जरीरजःपुञ्जपांसुलभुवि, भुवो भूषणायमाने, सर्वर्तुनिवासना- मनि वने विहर्तुमारभत ॥ ख ॥ तत्रे च व्यतिकरे प्रैलेयप्रचण्डपवनोल्लासिततनुतुहिनाचलगण्डशै- ललीलामाकलयन्तः, मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः, वहतीति ॥ कुसुमजकणा मकरन्दल्वास्तैः शारः शवलः । शरदि भवानि शारदानि मुद्र्गादीनि विद्यन्ते येषां ते शारदिनः कृषीवलास्तेषामिनः स्वामी । तत्तत्सस्यसंप- त्तिहेतुत्वात् ॥ १३ ॥ ततश्चेति ॥ भृङ्गामुखनखरेत्यादौ भृङ्गो धूम्याटः पक्षी ॥ क ॥ तत्रचेति शकलोदितेति ॥ शकलः खण्डशशी हंससदृशो भवति । मन्द- रगिरिरेव परिक्षेपो मन्थाः ॥ ख ॥ १ 'ललितपल्लवित'. २ 'प्रदानप्रसन्नाननाम्'. ३ 'अनन्तरं चेतस्ततश्च संचरत्'; 'इतस्ततश्च संचरत्'. ४ 'वेल्लल्लकुचलसङ्कुल'. ५ 'निम्बजम्बीर'. ६ 'कलहंसमण्डलो- त्तंस'. ७ 'आन्दोलित'. ८ 'कक्कोलपनसकुट्मलफल'; 'फनसकुसुमकुट्मलफल'; 'कङ्कोलकट्फल'. ९ 'पुञ्ज'. १० 'नाम्नि'. ११ 'तत्र व्यतिकरे'. १२ 'प्रलयकालकरालप्र- चण्ड'.