नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 50, कुल 258 में से
संदर्भ में पढ़ें३४ नलचम्पूः । कथं चासौ न प्रशस्यते ॥ क ॥ यत्र त्रिपुरपुरंध्रोभ्रतिलकहारिणा हरिविरंचिचूडामणिमरीचि- चक्रचकोरचुम्बितचरणनखचन्द्ररुचिनिचयेन भगवता सेव्यते सेव्य- तयाऽपहसितकैलासश्रीः श्रीशैलः शूलपाणिना ॥ ख ॥ यत्र च विकचविविधवनविहारसुरभिसमीररणान्दोलितकदलीदल- व्यजनवीज्यमाननिधुवनविनोदखेदविद्राणनिद्रालुद्रविडमिथुनसनाथ- परिसराः सरसघननिचुलतलचलच्चकोरचक्रवाककुलकपिञ्जलमयूर- हारीतहारिण्यो नाकलोककमनीयतां कलयन्ति कलमकेदारसाराः सरससहकारकारस्कराः कावेरीतीरभूमयः ॥ ग ॥ किं बहुना । अस्तु स्वस्ति समस्तरलनिधये श्रीदक्षिणस्यै दिशे स्वर्गस्पार्धसमृद्धये हृदयहृद्गोदावरीरोधसे । यत्र त्रस्तकुरङ्गकार्भकदृशः संभोगलीलाभुवः सौख्यायतनं भवन्ति रसिकाः कंदर्पशस्त्रं स्त्रियः ॥५५॥ तत्र प्रणतसुरासुरशिरैः शोणमरीचिचयबहलकुङ्कुमानुलेपपल्लवित- पादारविन्दद्वयस्य क्रौञ्चभिदो भगवतः सुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि ॥ घ ॥ तस्माच्च निवर्तमानेन कचिदेकस्मिन्नध्व्ररोधििन न्यग्रोधपादपतले दीर्घाध्वश्रान्तेन विश्राम्यता मया श्रूयतां यदाश्चर्यमालोकितम् ॥ ङ ॥ अतिललितपद्विन्याससारसाधुसिन्धुरवधूह्स्कन्धमधिरूढा, प्रौढ- सखीसहायप्राया, प्रान्तपतच्चारुचामरमरुन्नर्तितालकवल्लरी, कर्णकुव- लयालंकारधारिणी, रुचिररुचिमच्चरणनूपुरा, पुरःसरसराग्गान्ध- र्विककण्ठकन्दरविनिःसरत्सरसगीतप्रेङ्खोलनप्रयोगेषु दत्तावधाना, ने- त्रे मनाङ्मील्यन्ती, ध्रियमाणमायूरातपत्रमण्डला, मण्डलितमदनर्चा- पचक्रवक्रभ्रूः, भूपालपुत्रिका कापि कापि कुतोऽप्युच्चलिता तदेव न्यग्रोधच्छायामण्डपमशिश्रियत् ॥ च ॥ यत्रेति ॥ त्रिशूलपाणिना त्रिपुरान्तकेन । तत्रस्थेन हि त्रिपुरासुरो हतः ॥ ख ॥ १ 'नासौप्र'. २ 'विरिश्चि'. ३ 'सेव्यतया सेव्यते'. ४ 'शिरस्तारशोणमणिमरीचिनि- चयवहुल'. ५ 'सुगन्धगन्ध'. ६ 'रोधिन्यग्रोध'. ७ 'विश्रम्यता'.' ८ 'विन्याससाधु'. ९ 'चारुचामीकरचामर'. १० 'चापवक्र'. ११ 'न्यग्रोधपादपच्छाया; न्यग्रोधपादपपत- च्छाया'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA